पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वान् सर्वान्देवान् अयाट् । यजतेरेतद्रूपम् । अयाक्षीत् इष्टवान् इह स्थितः । दक्षिणतो हि स्थित आहुतीर्जुहोति । आहुतिश्च यज्ञः । यत एवमतो ब्रवीमि । दक्षिणतोऽग्नेरस्माभिः स्वाहाकृतस्य वषट्करानन्तरं स्वाहाकृतस्य घर्मस्य मधोः पिबतं मध्वास्वादस्य पिबतम् अश्विनौ ॥ १० ॥
म० 'वषट्कृते जुहोति विश्वा आशा इति' ( का० २६ । ६। ४)। वषट्कृते सति घर्मं जुहोतीत्यर्थः । अश्विदेवत्यानुष्टुप् । इह यज्ञे दक्षिणसत् दक्षिणस्यां दिशि सीदति तिष्ठति दक्षिणसत् । सर्वनाम्नो वृत्रिमात्रे पुंवद्भावः । दक्षिणतः स्थितोऽध्वर्युर्विश्वाः सर्वाः आशाः दिशो विश्वान् सर्वान् देवान् च अयाट् अयाक्षीत् । यजेर्लुङि च्लेर्लोपे रूपम् । इष्टवान् दक्षिणतः स्थितो ह्याहुतीर्जुहोति । अतो ब्रवीमि हे अश्विना अश्विनौ, स्वाहाकृतस्य वषट्कारानन्तरं हुतस्य मधोर्मधुरास्वादस्य घर्मं युवां पिबतम् । कर्मणि षष्ठी ॥ १० ॥

एकादशी।
दि॒वि धा॑ इ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धा॑: । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः ।। ११ ।।
उ० त्रिरुत्कम्पयति । दिवि धाः द्युलोके स्थापय इमं यज्ञं । इमं यज्ञं दिविधाः । 'अभ्यासे भूयांसमर्थं मन्यन्ते' अनुवषट्कृते जुहोति । स्वाहाग्नये सुहुतमस्तु अग्नये । यज्ञियाय यज्ञहिताय । शं सुखं च यजुर्यः' सकाशात् अस्माकमस्त्विति शेषः । यद्वा शं यजुर्भ्यो देहि ॥ ११ ॥
म० 'दिवि धा इति त्रिरुत्कम्पयति' ( का० २६ । ६ । ५)। महावीरं त्रिरूर्ध्वं कम्पयति सकृन्मन्त्रेण द्विस्तूष्णीमिति सूत्रार्थः। यजुर्घर्मदेवत्यं सामोष्णिक् । हे महावीर, इमं मदीयं यज्ञं त्वं दिवि द्युलोके धाः धेहि स्थापय । इमं यज्ञं दिवि धा इति पुनरुक्तिरादरार्था । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु. १० । ४२ ) इति वचनात् । 'स्वाहाग्नय इत्यनुवषट्कृते' ( का० २६ । ६ । ६)। अनुवषट् स्वाहेति मन्त्रेण घर्म जुहोतीत्यर्थः । यज्ञियाय यज्ञहितायाग्नये स्वाहा सुहुतमस्तु । यजुर्भ्यः सकाशात् अस्माकं शं सुखमस्तु ॥ ११ ॥

द्वादशी।
अश्वि॑ना घ॒र्मं पा॑त॒ᳪ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभि॑: । तन्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ।। १२ ।।
उ० ब्रह्मानुमन्त्रयते । अश्विना घर्मम् । उष्णिगाश्विनी । हे अश्विनौ, घर्मं पातं पिबतम् । हार्द्वानं हृदयस्य प्रियम् । हृदयं वा योऽनुवर्तते अहर्दिवाभिः । अहःशब्दः पूर्वाह्णवचनः दिवाशब्दस्तु सायाह्नवचनः । स हि प्रवर्ग्याय कालः । एतत्कालोपलक्षिताभिः ऊतिभिः अवनैर्निमित्तभूतैः । तन्त्रायिणे नमो द्यावापृथिवीभ्याम् । तन्त्रायिणे लोके ये प्रसारिताः तन्तवः तुरीशलाकाप्रोताः ते तन्त्रमित्युच्यन्ते । तन्तुनालिरिव सूत्रपूरणाय एति त्रींल्लोकान् स तन्त्रायी आदित्यः तस्मै नमः । उत्तरत्राप्यनुषङ्गः । द्यावापृथिवीभ्यां नमः अस्तु ॥ १२॥
म० 'अश्विना घर्ममिति ब्रह्मानुमन्त्रयते' (का० २६ । ६ । ७)। ब्रह्मा घर्ममभिमन्त्रयत इत्यर्थः । स्वराडुष्णिक् । अश्विनावादित्यो द्यावापृथिव्यौ च देवताः । हे अश्विना अश्विनौ, युवां घर्मं पातं पिबतम् । काभिः। ऊतिभिरवनैर्निमित्तैः । अवनं कृत्वा पिबतमित्यर्थः । कीदृशीभिरूतिभिः । अहर्दिवाभिः । अहःशब्देन प्रातःकालः दिवाशब्देन सायंकालः । प्रातःसायंकालोपलक्षिताभिः । प्रवर्ग्यकालः स एव यतः । कीदृशं घर्मम् । | हार्द्वानम् ‘वा गतिगन्धनयोः' ल्युट । हृदि वानं गमनं यस्य स हृद्वानः हृद्वान एव हार्द्वानस्तम् । स्वार्थेऽण् । हृदयप्रियमित्यर्थः। एवं घर्मपानायाश्विनौ संप्रार्थ्य तत्साहाय्याय सूर्यादीन्नमति । तन्त्रायिणे नमः तन्यते तन्त्रम् पटरचनाय तुरीशलाकाप्रोतास्तन्तवस्तन्त्रमुच्यते तद्वन्नभसि कालचक्रमपि तन्त्रमुच्यते । तथा चाभिधानम् 'तन्त्रे राष्ट्रे परच्छन्दाप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे । श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके । इतिकर्तव्यतातन्त्वोः' इति । तन्त्रे कालचक्रे एति निरन्तरं गच्छति तन्त्रायी तस्मै आदित्याय नमोऽस्तु ‘एष वै तन्त्रायी य एष तपत्येष हीमाँल्लोकांस्तन्त्रमिवानुसंचरति' (१४॥ २। २ । २२) इति श्रुतेः । द्यावापृथिवीभ्यामुभाभ्यां लोकाभ्यां तदधिष्ठात्रीभ्यां नमः ॥ १२॥

त्रयोदशी।
अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑मᳪसाताम् । इहै॒व रा॒तय॑: सन्तु ।। १३ ।।
उ० यजमानोऽनुमन्त्रयते । अपाताम् । आश्विनी ककुप् । अपातां पीतवन्तौ अश्विनौ घर्मम् । अनु द्यावापृथिवी अमंसाताम् । तच्च घर्मपानमश्विनोः द्यावापृथिवी अपि अमंसाताम् अनुमतवत्यौ साध्वभूदिति । यतएवमतो ब्रवीमि । इह एव अवस्थितानामस्माकं रातयः धनानि सन्तु ॥१३॥
म० 'अपातामिति यजमानः' ( का० २६ । ६ । ८)। यजमानः घर्ममभिमन्त्रयत इत्यर्थः । ककुबुष्णिक् अश्विदेवत्या मध्यमः पादो द्वादशार्णः आद्यन्तावष्टार्णौ सा ककुप् । मध्यमश्चेत्ककुबित्युक्तेः । अश्विना घर्ममपातामपिबतां लुङ् । द्यावापृथिवी अन्वमंसातामनुमतवत्यौ । साधु कृतमिति अनुमेनाते इत्यर्थः । अत एवाश्व्यादिप्रसादात् इहैवास्मद्गृहे स्थितानामस्माकं रातयो धनानि सन्तु 'इहैव रातयः सन्त्वितीहैव नो । धनानि सन्त्वित्येवैतदाह' ( १४ । २ । २ । २६) इति श्रुतेः ॥ १३ ॥

चतुर्दशी।
इ॒षे पि॑न्वस्वो॒र्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथि॒वीभ्यां॑ पिन्वस्व ।
धर्मा॑सि सु॒धर्मामे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्रह्म॑ धारय क्ष॒त्रं धा॑रय॒ विशं॑ धारय ।। १४ ।।