पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्राय त्वेति । एतस्माद्वै समुद्रात्सर्वाणि भूतानि समुद्द्रवन्ति' इति समुद्रो वातः । समुद्राय त्वां हे प्रवर्ग्य, वाताय स्वाहा जुहोमि । इयमेवोत्तरत्रापि योजना । सरिराय । एतस्मात्सरिरात्सर्वाणि भूतानि लब्धकार्याणि सन्ति । सह ईरते गच्छति । अनाधृष्याय अशक्याय आधर्षितुम् । अप्रतिधृष्याय अशक्याय प्रतिधर्षितुम् । अवस्यवे अवनशीलाय । अशिमिदाय । शिमीति कर्मनाम । क्लेशात्मकं चैतत् । अक्लेशदाय ॥ ७ ॥
म० 'पैतु ब्रह्मणस्पतिरित्युच्यमाने समुद्राय त्वेति वातनामानि जपति गच्छन्नाहवनीयम्' ( का० २६ । ६ । १)। पैत्विति होत्रोच्यमाने आहवनीयं प्रति गच्छन्नध्वर्युः समुद्रायेत्यादीनि द्वादश वातनामानि स्वरेण जपतीत्यर्थः । द्वादश यजूंषि वातनामदेवत्यानि । हे घर्म, वाताय त्वा त्वां स्वाहा जुहोमि । कीदृशाय वाताय । समुद्राय समुद्द्रवन्त्युद्भवन्ति सर्वाणि भूतानि यस्मात् स समुद्रस्तस्मै 'अयं वै समुद्रो योऽयं पवत एतस्माद्वै समुद्रात्सर्वे देवाः सर्वाणि भूतानि समुद्द्रवन्ति तस्मा एवैनं जुहोति' (१४ । २ । २।२) इति श्रुतेः। सरिराय । सह ईरते यच्छन्ति सर्वभूतानि सिद्धार्थानि यस्मात् सरिरस्तस्मै वाताय घर्म, त्वां जुहोमि । 'अयं वै सरिरो योऽयं पवत एतस्माद्वै सरिरात्सर्वे देवाः सर्वाणि भूतानि सहेरते' ( १४ । २ । २ । ३) इति श्रुतेः । अनाधृष्याय न आधर्षितुं पराभवितुं शक्योऽनाधृष्यः तस्मै । अप्रतिधृष्याय न प्रतिधर्षितुं प्रतियोद्धुं शक्योऽप्रतिधृष्यस्तस्मै वातायेत्युक्तम् 'अयं वा अनाधृष्योऽप्रतिधृष्यो योऽयं पवते' ( १४ । २ । २ । ४) इति श्रुतेः । अवस्यवे । अवो रक्षणमिच्छति अवस्यति अवस्यतीत्यवस्युः 'सुप आत्मनः क्यच् 'क्याच्छन्दसि' (पा० ३ । २। १७०) इत्युप्रत्ययः । अवनशीलाय । अशिमिदाय । क्लेशात्मकं कर्म शिमि तन्न ददातीत्यशिमिदस्तस्मै क्लेशनिवर्तकाय वाताय 'अयं वा अवस्युरशिमिदो योऽयं पवते' ( १४ । २ । २। ५) इति श्रुतेः ॥ ७॥

अष्टमी।
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य त्वाऽऽदि॒त्यव॑ते॒ स्वाहेन्द्रा॑य त्वाऽभिमाति॒घ्ने स्वाहा ।
स॒वि॒त्रे त्व॑ ऋभु॒मते॑ विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑ ।। ८ ।।
उ० इन्द्राय त्वा । इन्द्राय त्वा वसुमते रुद्रवते स्वाहा । इन्द्राय त्वा आदित्यवते स्वाहा । इन्द्राय त्वा अभिमातिघ्ने । सपत्नो वा अभिमातिः सवित्रे त्वा ऋभुमते विभुमते वाजवते स्वाहा । ऋभुर्विभुर्वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुस्तेषामयं संस्तवः । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥८॥
म० वसवो विद्यन्ते यस्य स वसुमान् रुद्रा विद्यन्ते यस्य रुद्रवान् तस्मै वसुयुताय रुद्रयुतायेन्द्राय वाताय हे घर्म, त्वां स्वाहा जुहोमि 'अयं वा इन्द्रो योऽयं पवते' (१४।२।२।६) इति श्रुतेः । आदित्या विद्यन्ते यस्य स आदित्यवान् तस्मै आदित्ययुक्तायेन्द्राय वाताय स्वाहा । अभिमातीन्सपत्नान् हन्तीत्यभिमातिहा । 'सपत्नो वा अभिमातिः' ( १४ । २ । २।८) इति श्रुतेः। शत्रुनाशकायेन्द्राय वाताय त्वां जुहोमि। सूते स सविता तस्मै चेष्टयित्रे वाताय त्वां जुहोमि । 'अयं वै सविता योऽयं पवते' (१४ । २ । २।९) इति श्रुतेः। कीदृशाय । ऋभुमते ऋभुरस्यास्ति ऋभुमान् विभुरस्यास्ति विभुमान् वाजोऽस्यास्ति वाजवान् । आङ्गिरसस्य सुधन्वनस्त्रयः पुत्रा ऋभुविभुवाजास्तद्युक्ताय वाताय । बृहस्पतये बृहतां महतां पतिर्वातस्तस्मै 'अयं वै बृहस्पतिर्योऽयं पवते' (१४ । २ । २। १० ) इति श्रुतेः । कीदृशाय । विश्वदेव्यावते विश्वेषां देवानां समूहो विश्वदेव्यम् तदस्यास्ति विश्वदेव्यवान् तस्मै । 'मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ' (पा०६।३।१३१) इति दीर्घः । सर्वदेवसहिताय जुहोमि ॥ ८ ॥

नवमी।
य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे ।। ९ ।।
उ० यमाय त्वा । अङ्गिरस्वते पितृमते स्वाहा । उपयमन्या आसिञ्चति । स्वाहा घर्माय सुहुतो घर्माय चैतस्स्यात् । स्वाहा घर्मः सुहुतो घर्मः पित्रे स्यादिति शेषः ॥ ९॥
म० यमाय वायवे हे घर्म, त्वां जुहोमि 'अयं वै यमो योऽयं पवते' ( १४ । २।२ । ११) इति श्रुतेः । कीदृशाय यमाय । अङ्गिरस्वते अङ्गिरसो मुनयोऽस्य सन्ति अङ्गिरस्वान् | 'अयस्मयादीनि छन्दसि' (पा० १।४।२०) इति भसंज्ञायां सस्य विसर्गाभावः । पितृमते पितरोऽस्य सन्ति पितृमान् अङ्गिरःपितृयुताय वातायेत्यर्थः । वातनामानि समाप्तानि । 'स्वाहा घर्मायेत्युपयमन्या सिञ्चति घर्मे' (का० २६ । ६।२)। उपयमन्या स्रुचा सुक्स्थं घृतं घर्मे सिञ्चतीत्यर्थः। घर्माय स्वाहा एतदाज्यं सुहुतमस्तु । 'स्वाहा घर्मः पित्र' इति 'जपित्वातिक्रम्याश्राव्याह घर्मस्य ययेति' (का० २६ । ६ । ३)। अपसव्यवान् दक्षिणास्यः स्वाहेति मन्त्रं स्वरेण जपित्वा सव्येन जलं स्पृष्ट्वा घर्महस्तोऽतिक्रम्याश्राव्य घर्मस्य यजेत्याहेत्यर्थः । स्वाहा घर्मः पित्रे पित्रर्थायास्तु ॥ ९॥

दशमी।
विश्वा॒ आशा॑ दक्षिण॒सद्विश्वा॑न् दे॒वानया॑डि॒ह ।
स्वाहा॑कृतस्य घ॒र्मस्य॒ मधो॑: पिबतमश्विना ।। १० ।।
उ० वषट्कृते जुहोति । विश्वा आशाः । अनुष्टबाश्विनी। | विश्वाः सर्वाः आशाः काष्ठाः । दक्षिणसत् दक्षिणसद इति वचनव्यत्ययः । दक्षिणस्यां सीदन्ति । कस्मात् । यतः