पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रमणीयानां धनानां धारयिता । यश्च वसुवित् वसु विन्दति । यश्च सुदत्रः कल्याणदानः । धनवानपि सन् कश्चिन्नोत्सहते दातुम् अतएवं भिक्ष्यते । येन विश्वा येन च विश्वा विश्वानि पुष्यसि पुष्णासि वार्याणि वरणीयानि । हे सरस्वति, तं स्तनं इह । धातवे । 'धेट् पाने' पानाय । अकः कुरु । गच्छति । उर्वन्तरिक्षमिति व्याख्यातम् ॥५॥
म० 'यस्ते स्तन इति स्तनमालभते' ( का० २६ । ५। ७)। गोस्तनानालभते । जातावेकवचनमित्यर्थः । वाग्देवत्या त्रिष्टुप् दीर्घतमोदृष्टा । हे सरस्वति, तं स्तनमिहास्मिन्स्थाने धातवे 'धेट् पाने' तुमर्थे तवेप्रत्ययः। पानार्थमकः कुरु । मम पानाय प्रयच्छेत्यर्थः । लोडर्थे लङ् शपि लुप्ते गुणः । तं कम् । यस्ते तव स्तनः स्तन इव स्तनः । शशयः शेते इति शशयः । अच्प्रत्यये द्वित्वं पूर्वस्यात्वं च छान्दसम् । सुप्त इवास्ते अन्यैरनुपभुक्तत्वात् 'यस्ते स्तनो निहितो गुहायाम्' (१४ । २ । १।१५) इति श्रुतेः । यश्च स्तनो मयोभूः मयः सुखं भावयति प्रापयति सर्वभूतानामिति मयोभूः । यश्च रत्नधाः रत्नानि दधाति रत्नधाः रमणीयानां धनानां धारयिता । यश्च वसुवित् वसु धनं विन्दति वेत्ति वा वसुवित् । यश्च सुदत्रः सुष्ठु ददातीति सुदत्रः दाता । धनवानन्यो दातुं न शक्नोति त्वत्समस्तु धनवान् दाता चेति अन्येभ्य आधिक्यम् । किंच येन स्तनेन विश्वा विश्वानि सर्वाणि वार्याणि वरणीयानि वस्तूनि त्वं पुष्यसि पुष्णासि । तं स्तनं मत्पानाय प्रयच्छेत्यर्थः । 'उपद्रव पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति' ( का० २६ । ५। ११) उपद्रवेति मन्त्रे होत्रोच्यमाने उर्विति मन्त्रेणाध्वर्युर्गोसमीपाद्गार्हपत्यं प्रति गच्छतीत्यर्थः । प्राजापत्या गायत्री । विशालमन्तरिक्षमनु एमि गच्छामि ॥ ५ ॥

षष्ठी।
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रै॑ष्टुभं॒ छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑यच्छामि ।
इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घ॒र्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट् ।
स्वाहा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये ।। ६ ।।
उ० परीशासावादत्ते । गायत्रं छन्दोसि त्रैष्टुभं छन्दोसि । ऋक्षु महावीरं गृह्णाति । द्यावापृथिवीभ्यां त्वां परिगृह्णामि । परीशासयोः द्यौश्च पृथिवी च अध्यास्तः महावीरे चादित्यः । उपयमन्या उपगृह्णाति । अन्तरिक्षेणोपयच्छामि । अन्तरिक्षेण उपगृह्णामि । उपयमन्या अन्तरिक्षरूपेण संस्तवः । पयसा सिञ्चति । इन्द्राश्विना । हे इन्द्र हे अश्विनौ । मधुनः सारघस्य । सरघा मधुकृतः भ्रमरा इव ऋत्विजः तैः कृतस्य सारघस्य मधुनः घर्मं पात रसं पिबत । हे वसवः वासयितारः, यजत च वाट् वषट्कारेण । स्वाहा सुहुतमस्तु । सूर्यस्य रश्मये । वृष्टिवनये वृष्टेः संभक्त्रे दात्रे वा । 'सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम' इति श्रुतिः ॥ ६ ॥
म० 'परिशासावादत्ते गायत्रं छन्दोऽसीति प्रतिमन्त्रम्' ( का० २६ । ५ । १२) गायत्रमिति मन्त्राभ्यां परीशासौ गृह्णातीत्यर्थः । यजुर्गायत्र्यौ परीशासौ देवते । हे परीशास, त्वं गायत्रं छन्दोऽसि गायत्र्येव गायत्रं स्वार्थेऽण् । गायत्रीच्छन्दोरूपोऽसि । त्रिष्टुबेव त्रैष्टुभं त्रिष्टुप्छन्दोरूपोऽसीति द्वितीयम्। 'ताभ्यां महावीरं परिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति' ( का० २६ । ५। १४ ) ताभ्यां परीशासाभ्यां महावीरमादत्त इत्यर्थः । यजुर्जगती महावीरो देवता । हे महावीरद्यावापृथिवीभ्यां द्युभूमिभ्यां कृत्वा त्वा त्वां परिगृह्णामि । परीशासयोर्द्यावाभूमी अध्यस्ते महावीरे चादित्योऽध्यस्तः । तथाच श्रुतिः 'इमे वै द्यावापृथिवी परीशासावादित्यः प्रवर्ग्योऽमुं तदादित्यमाभ्यां द्यावापृथिवीभ्यां परिगृह्णाति' (१४ । २।१।१६ ) इति । 'उद्यम्य मुच्चवेदेनोपमृज्योपयमन्योपगृह्णात्यन्तरिक्षेणोपयच्छामि' इति । परिशासगृहीतं महावीरमूर्ध्वं कृत्वा मुञ्जकृतवेदेन संमार्ज्योपयमन्या स्रुचा तं गृह्णातीत्यर्थः । यजुर्बृहती घर्मो देवता । हे घर्म, अन्तरिक्षेणाकाशेनोदरेण वा त्वामुपयच्छामि निगृह्णामि । उपयमन्यन्तरिक्षत्वेनोदरत्वेन च स्तूयते । तथाच श्रुतिः 'अन्तरिक्षं वा उपयमन्यन्तरिक्षेण हीदᳪ सर्वमुपयतमथो उदरं वा उपयमन्युदरेण हीदᳪ सर्वमन्नाद्यमुपयतं तस्मादाहान्तरिक्षेणोपयच्छामि' (१४।२।१।१७) इति । 'अजापयसावासिच्य शान्ते गोः पयोऽवनयतीन्द्राश्विनेति' ( का० २६ । ५। १६ ) । अजादुग्धेन महावीरं तूष्णीं सिक्त्वा शान्ते क्षीणज्वाले तत्र गोपयः सिञ्चतीत्यर्थः । ब्राह्मी गायत्री विश्वेदेवा देवताः । हे इन्द्र, हे अश्विना अश्विनौ, हे वसवः वासयितारः, यूयं मधुनो मधुरस्य पयसो घर्मं रसं पात पिबत । पिबादेशाभावश्छान्दसः । कीदृशस्य मधुनः, सारघस्य सरघा मधुमक्षिका । अत्र सरघा मधुकृतो भ्रमरा इव ऋत्विजः तैः कृतं सारघं तस्य । 'घर्मं पातेति रसं पातेत्यैवैतदाह' (१४ । २।१।२०) इति श्रुतिः। किंच हे इन्द्रादयः, वाट् वषट्कारेण स्वाहा सुष्ठु हुतं सारघं मधु सूर्यस्य रश्मये किरणाय यूयं यजत दत्त । यजतिर्दानार्थः । 'वषट्कृतᳪ हृतमेवमस्यैतद्भवति' (१४ । २ । १।२०) इति श्रुतेः । किंभूताय रश्मये । वृष्टिवनये वृष्टिं वनति ददाति वृष्टिवनिस्तस्मै यो रश्मिर्वृष्टिं दत्ते तस्मै मधु दत्तेत्यर्थः । तथाच श्रुतिः 'सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति | तमेवैतत्प्रीणाति' ( १४ । २।१। २१ ) इति ॥ ६ ॥

सप्तमी।
स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।
अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ऽप्रतिधृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।
अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ ऽशिमि॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।। ७ ।।
उ० इतउत्तरं द्वादश वातनामानि यजत्यध्वर्युः । समु