पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टत्रिंशोऽध्यायः ।
तत्र प्रथमा।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आ द॒देऽदि॑त्यै॒ रास्ना॑ऽसि ।। १ ।।
उ० अथ घर्मधुग्दोहनार्थं रज्जुमादत्ते । देवस्यत्वेति व्याख्यातम् । आददे गृह्णामि । यतस्त्वम् अदित्यै रास्नासि ॥१॥
म० 'देवस्य त्वेति रज्जुसंदानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन्' (का० २६ । ५।१)। अध्वर्युर्देवस्य त्वेति रज्जुसंदानमादाय गार्हपत्यस्य पश्चाद्गच्छन् इड एहीति वाक्यत्रयेण घर्मदुघां गामाह्वयति असावेहीति गोर्नाम्ना चोच्चैस्त्रिवारमाह्वयतीति सूत्रार्थः । रज्जुदेवत्यं यजुः प्राजापत्या गायत्री । हे रज्जो, सवितुर्देवस्याज्ञायां वर्तमानोऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे गृह्णामि । यतः त्वमदित्यै अदित्या देवमातुः रास्ना रसना मेखलासि भवसि । षष्ठ्यर्थे चतुर्थी ॥ १ ॥

द्वितीया।
इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्त्येहि॑ । असा॒वेह्यसा॒वेह्यसा॒वेहि॑ ।। २ ।।
उ० गामाह्वयति । इड एहि । अतस्मिंस्तच्छब्दस्तदतिदेशार्थः । हे इडे मानवि, आ इहि आगच्छ दोहाय । हे अदिते देवमातः, एहि । हे सरस्वति वाक्, एहि । असाविति नामग्रहणं त्रिरुच्चैः । असौ धवले एहि । त्रिः । आमन्त्रितस्येत्यादिरुदात्तः ॥२॥
म०. हे इडे मानवि, एहि आगच्छ । हे अदिते देवमातः, एहि । हे सरस्वति वाक्, एहि । अतस्मिंस्तच्छब्दस्तत्सादृश्यार्थः । 'इडा हि गौरदितिर्हि गौः सरस्वती हि गौः' ( १४ । २।१।७) इति श्रुतेः । नाम्ना त्रिरुच्चैराह्वयति असौ धवलि, एहि एवं त्रिः ॥२॥

तृतीया ।
अदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्या उ॒ष्णीष॑: ।
पू॒षाऽसि॑ घ॒र्माय॑ दीष्व ।। ३ ।।
उ० अदित्यै रास्नासीति गां पाशेन प्रतिमुञ्चति । अदित्यै रास्नासि । इन्द्राण्या उष्णीषः इन्द्राणी इन्द्रस्य पत्नी तस्याः शिरोवेष्टनं त्वमसि । वत्समुत्सृजति । पूषासि । यथा पूषा वायुः पुष्टिमाप्याययति एवं त्वमपि प्रस्रावनेन जगदुत्पत्तिबीजं पय आप्याययसि । वत्समुन्नयति । घर्माय दीष्व देहि । दयां कुरु 'दो दाने दयायां च', सर्वं पासीः ॥३॥
म० 'अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बद्ध्वा पूषासीति वत्समुत्सृजति' ( का० २६ । ५। ३)। आगतां गामदित्या इति मन्त्रेण पाशेन बद्ध्वा तं पाशं स्तम्भे बद्ध्वा पूषासीति वत्सं मुञ्चतीत्यर्थः । हे रज्जुपाश, त्वमदित्यै रास्ना रसनासि । इन्द्राण्यै इन्द्रपत्न्याः उष्णीषः शिरोवेष्टनमसि। एतेन पाशमिन्द्राण्युष्णीषं करोतीत्यर्थः । 'तमेवैनमेतत्करोति' ( १४। ।२।१। ८) इति श्रुतेः । वत्सं मुञ्चति पूषासि दैव्यनुष्टुप् वत्सो देवता । हे वत्स, त्वं पूषा वायुरसि वायुर्यथा वृष्टिमाप्याययति तथा त्वं प्रस्रवेण पय आप्याययस्वेति भावः । 'अयं वै पूषा योऽयं पवत एष हीदᳪ सर्वं पुष्यत्येष उ प्रवर्ग्यः' (१४ । २ । १ । ९) इति श्रुतेः । 'संदाय घर्माय दीष्वेति वत्समुन्नयति' ( का० २६ । ५ । ४ ) धेनुं रज्ज्वा पश्चिमपादयोर्बद्ध्वा वत्समपाकरोतीत्यर्थः । दैवी पङ्क्तिः । वत्सो देवता । हे वत्स, घर्माय घर्मार्थं दीष्व देहि पयः । पयः शेषय मा सर्वं पासीरित्यर्थः । 'दो दाने' 'बहुलं छन्दसि' (पा० २ । ४ । | ७३ ) इति शपो लुक् ॥ ३ ॥

चतुर्थी।
अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्रा॑य पिन्वस्व ।
स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् ।। ४ ।।
उ० पिन्वने दोग्धि । अश्विभ्यां पिन्वस्व अश्विभ्यामर्थाय पिन्वस्व प्लावयस्व । एवमेव सरस्वत्यै इन्द्राय च । विप्रुषाभिमन्त्रयते । स्वाहेन्द्रवदिति । यद्दुह्यमानं स्कन्नं तत्सुहुतमस्तु इन्द्रवत् इन्द्रसंयुक्तम् इति त्रिः ॥ ४ ॥ |
म० 'अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि' ( का० २६ । ५।५)। पिन्वने पात्रे प्रतिमन्त्रं गां दोग्धीत्यर्थः । अश्विभ्यां पिन्वस्व इन्द्राय पिन्वस्व यजुर्गायत्र्यौ । सरस्वत्यै पिन्वस्व यजुरनुष्टुप् । लिङ्गोक्ता देवताः । हे पयः, अश्विभ्यामर्थाय त्वं पिन्वस्व संप्लवस्व । सरस्वत्यै च पिन्वस्व । 'अश्विनौ वा एतद्यज्ञस्य शिरः प्रत्यधत्तां तावेवैतत्प्रीणाति' (१४ । २ । १ । १३) इति श्रुतिः । सरस्वत्या वाचा कृत्वा इन्द्राय यज्ञशिरोऽश्विभ्यां 'संहितमिति तयोरर्थे क्षरस्वेति भावः । 'स्वाहेन्द्रवदिति विप्रुषोऽभिमन्त्रयते' ( का० २६ । ५। ६) । पिन्वनपतितान्पयःकणानभिमन्त्रयत इत्यर्थः । यजुर्जगती विप्रुषो देवता । यद्दुह्यमाने स्कन्नं तत्स्वाहा सुहुतमस्तु । इन्द्रवत् इन्द्रसंयुक्तं चास्तु ॥४॥

पञ्चमी।
यस्ते॒ स्तन॑: शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॑: ।
येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि ।। ५ ।।
उ० स्तनमालभते । यस्ते स्तनः । त्रिष्टुब्वाग्देवत्या । 'वाग्देवीसरस्वती'ति श्रुतिः । यः ते तव स्तनः । कथंभूतः। शशयः । 'शीङ् स्वप्ने' । सुप्त इवास्ते अनुपभुक्तोऽन्यैः । यश्च मयोभूः मयः सुखं भावयति सर्वभूतानाम् । यश्च रत्नधाः