पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१४ । १ । ४ । १३) इति श्रुतेः । कीदृशाभ्यां युवाभ्याम् । माध्वीभ्यां मधुब्राह्मणमीयाते तौ माध्व्यौ ताभ्याम् 'ई गतौ' क्विप् । तथा माधूचीभ्यां मधुब्राह्मणमञ्चतः पूजयतस्तौ मध्वञ्चौ ताभ्याम् । मध्वग्भ्यामिति प्राप्ते ङीपि अलोपे मधूचीभ्यामिति लिङ्गव्यत्ययः आदिदीर्घश्छान्दसः ॥१८॥

एकोनविंशी।
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा ।
ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ।। १९ ।।
उ० हृदे त्वा । परोष्णिक् । हृदे त्वा हृदयार्थं त्वां स्तुम इति शेषः । एवं मनसे त्वां स्तुमः । दिवे अर्थाय त्वां स्तुम इति शेषः । सूर्याय त्वा सूर्यतर्पणाय त्वां स्तुमः । यस्माच्च सर्वकार्येषु त्वामेव स्तुमः । अतो ब्रूमः ऊर्ध्वः अवहितचित्तः सन् अध्वरं दिवि देवेषु धेहि निधेहि स्थापय ॥ १९॥
म० परोष्णिक् । आद्यावष्टार्णौ तृतीयो द्वादशार्णः सा परोष्णिक् । 'परोष्णिक् परतः' इत्युक्तेः । आद्ययोर्व्यूहः । हे घर्म, हृदे त्वा हृदयस्वास्थ्याय त्वा त्वां स्तुम इति शेषः। मनसे मनःशुद्ध्यर्थं त्वा त्वां स्तुमः । दिवे स्वर्गप्राप्त्यै त्वा त्वां स्तुमः । सूर्याय सूर्यतृप्त्यै त्वा त्वां स्तुमः । हृदयं संशोध्य मनो निर्मलं कृत्वा दिवमस्मान्नीत्वा सूर्यं तर्पयेति भावः । किंच ऊर्ध्वः सावधानः सन् अध्वरमस्मदीयं यज्ञं दिवि द्युलोके वर्तमानेषु देवेषु धेहि स्थापय । यज्ञे गते यजमानो गच्छत्येवेति भावः ॥ १९॥

विंशी।
पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।
त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धेहि प्र॒जाम॒स्मासु॑ धे॒ह्यरि॑ष्टा॒ऽहᳪ स॒ह प॑त्या भूयासम् ।। २० ।।
उ० पिता नोऽसि । गायत्री । यतश्च त्वम् पिता नः अस्माकमसि भवसि । अतो ब्रवीमि । पितेव भूत्वा नः अस्मान् बोधि बोधय सर्वथा । नमः ते अस्तु मा मा हिंसीः हिंसीथाः । पत्नीं वाचयति महावीरमीक्षमाणाम् । त्वष्टृमन्तस्त्वा । यजुः । यतश्च त्वाष्ट्रसंयुक्ताः । त्वष्टा हि चेतसां विकर्ता । त्वामेव सपेम । सपतिः स्पृशतिकर्मा । मैथुनार्थमुपस्पृशामः । अतः पुत्रान् पशून् मयि धेहि स्थापय ।। प्रजां च भूयोभूयः अस्मासु धेहि स्थापय । किंच अरिष्टा अनुपहिंसिता अहम् । सह पत्या सह भर्त्रा भूयासम् । आशीः ॥२०॥
म० ऋग्गायत्री । हे महावीर, त्वं नोऽस्माकं पितासि पालको भवसि । पितेव नोऽस्मान् बोधि बोधय । सर्वथा नमस्ते अस्तु मा मां मा हिंसीः मा जहि । महावीरोपस्थानं समाप्तम् । 'त्वष्टृमन्त इत्येनां वादयति' (का० २६ । ४ ।१३) । महावीरमीक्षमाणामपनीतशिरोवस्त्रां घर्मं पश्यन्तीं पत्नीमध्वर्युर्वाचयतीत्यर्थः । ऋचां त्रिष्टुप् घर्मदेवत्या पत्न्याशीः। हे घर्म । वयं त्वा त्वां सपेम । सपतिः स्पृशतिकर्मा । मैथुनाय त्वामुपस्पृशामः । कीदृशा वयम् । त्वष्टृमन्तः त्वष्टा विद्यते येषां ते त्वष्टृमन्तः । त्वष्टा रेतसामधिकारी तत्सहिताः मैथुनार्थोपस्पर्शे वीर्याधिष्ठातापेक्षितोऽत एतद्युताः । अतः पुत्रान् पशून् च मयि विषये त्वं धेहि स्थापय । प्रजामुत्तरोत्तरवंशवृद्धिमस्मासु धेहि स्थापय । किंच पत्या भर्त्रा सहारिष्टा अनुपहिंसिता अहं भूयासं भवेयम् । भर्तृमती चिरं जीवेयमित्यर्थः । 'वृषा वै प्रवर्ग्यो योषा पत्नी मिथुनमेवैतत् प्रजननं क्रियते' (१४ । १।४ । १६) इति श्रुतेः ॥ २० ॥

एकविंशी ।
अह॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
रात्रि॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।। २१ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां सप्तत्रिंशोऽध्यायः ॥ ३७॥
उ० रौहिणं जुहोति । अहः केतुना प्रज्ञया कर्मणा वा सहितम् जुषतां परिगृह्णातु । कथंभूतम् । यदहः सुज्योतिः शोभनज्योतिष्कम् । केन ज्योतिषा स्वकीयेनैव । स्वाहा सुहुतं चैतद्धविर्भवतु । रात्रिः केतुना । अधस्तनेन व्याख्यातम् ॥ २१ ॥
इति उवटकृतौ मन्त्रभाष्ये सप्तत्रिंशोऽध्यायः ॥३७॥
म० 'अहः केतुनेति दक्षिणᳪ रोहिणं जुहोति' (का० २६ । ४ । १४) । उपस्थानगानयोः समाप्तौ रौहिणहवन्या स्रुचा दक्षिणं रौहिणं पुरोडाशं सर्वहुतं जुहोतीत्यर्थः । घर्मदेवत्ये यजुषी सामानुष्टुभौ । केतुः प्रज्ञा कर्म वा । केतुना प्रज्ञया कर्मणा वा सहितमहः दिनं जुषतां रौहिणहोमेन प्रीयताम् । कीहशमहः । ज्योतिषा स्वकीयेनैव तेजसा सुज्योतिः शोभनं ज्योतिर्यस्य तत् विशिष्टतेजस्कम् । स्वाहा एतद्धविः सुहुतमस्तु । रोहति स्वर्गं यजमानो याभ्यां तौ रोहिणौ अग्न्यादित्यौ अहोरात्रे वा 'इमौ लोकौ वा चक्षुषी वा शिरः प्रवर्ग्यौ रौहिणौ चक्षुषी तत्र दधाति' (१४ । २ । १।१-५) इत्यादिरौहिणप्रशंसा श्रुतौ ज्ञेया। 'रात्रिरिति सायम्' (का० २६।४।१४)। सायंकालीने प्रवर्ग्ये रात्रिरिति मन्त्रेण द्वावपि प्रवर्ग्यौ यथाकालं जुहोतीत्यर्थः । केतुना सहिता रात्रिः जुषतां प्रीयताम् । ज्योतिषा कृत्वा सुज्योतिरित्युक्तम् ॥ २१ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
अभ्र्यादिरौहिणान्तोऽयं सप्तत्रिंशो निरूपितः ॥ ३७ ॥