पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० धर्ता दिवः । ऊर्ध्वबृहती घर्मस्तुतिः । योऽयं धर्ता धारयिता दिवः द्युलोकस्य । यश्च तपसः रश्मिजालस्य धर्ता । विभाति च पृथिव्यां अवस्थितः । धर्ता धारयिता च देवानाम् । स्वयं च देवः अमर्त्यः मनुष्यधर्मरहितः। तपोजाः तपः आदित्यः तस्माज्जायते । सोयम् वाचं अस्मे अस्मासु । नियच्छ नियच्छत्विति पुरुषव्यत्ययः । निगृह्णातु स्थापयतु । देवायुवम् या देवान् यौति मिश्रयति आगमयति सा तथोक्ता तां देवायुवम् ॥ १६ ॥
म० ऊर्ध्वबृहती । त्रिजागतोर्ध्वबृहती अत्राद्यौ त्रयोदशवर्णौ तृतीय एकादशवर्णस्तेनैकाधिका । स देवो घर्मः अस्मे अस्मासु । विभक्तेः शे-आदेशः । वाचं नियच्छ पुरुषव्यत्ययः। यज्ञं नियच्छतु स्थापयतु । किंभूतां वाचम् । देवयुवं देवान् यौति मिश्रयति देवयुः ताम् । क्विपि तुगभाव आर्षः । अनित्यमागमशासनमिति वचनात् । देवसमूहमाह्वयन्तं यज्ञं समापयत्विर्थः । 'यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह' ( १४ । १।४ । ८) इति श्रुतेः देवयुवमित्यत्र संहितायां वकारस्य दीर्घः । स कः । यो देवः पृथिव्यां विभाति शोभते । कीदृशः । दिवो धर्ता द्युलोकस्य धारयिता । तपसः रश्मिजालस्य च धर्ता । देवानां च धर्ता । अमर्त्यः मनुध्यधर्मरहितः अजरामरः । तपोजाः तप आदित्यस्तस्माज्जायत इति तपोजाः सूर्योत्पन्नः ॥ १६ ॥

सप्तदशी।
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आव॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः ।। १७ ।।
उ० अपश्यम् । त्रिष्टुप् । आदित्यात्मना घर्मस्तुतिः । यमहमपश्यम् । गोपां गोप्तारम् । अनिपद्यमानम् अनालम्बने अन्तरिक्षे गच्छन्नासौ पतति । आच पराच पथिभिश्चरन्तम् आचरन्तं च आगच्छन्तं च । पराचरन्तं च परागच्छन्तं च । पथिभिः देवैः सह । स सध्रीचीः सएव सध्रीचीः। सहस्य सध्रिरादेशः । सहाञ्चनाः दिशो रश्मीन्वासहस्रम् । सविषूचीः । विषु इति निपातो नानावचनः । अञ्चतेः परं क्विप् । नानाञ्चनाः दिशः नानाञ्चनान्वा रश्मीन् । वसानः आच्छादयन् । आवरीवर्ति पुनःपुनरावर्तते । भुवनेषु त्रिषु लोकेषु । अन्तर्मध्ये व्यवस्थितः ॥ १७ ॥
म० त्रिष्टुब्दीर्घतमोदृष्टा । स घर्मो भुवनेषु त्रिलोकेषु अन्तर्मध्ये व्यवस्थितः आवरीवर्ति पुनःपुनरावर्तते । वृतेर्यङ्लुकि रूपम् । कीदृशः । सध्रीचीः सह अञ्चन्तीति सध्रीच्यः सहस्य सध्रिरादेशः । सहाञ्चना दिशो रश्मीन् वा वसानः आच्छादयन् । 'वस आच्छादने' शानच्प्रत्ययः। विषूचीः विषुनिपातो नानार्थः । विषु अञ्चन्तीति विषूच्यः ताः नानाञ्चना दिशो रश्मीन् वा वसानः । क्विबन्तात् 'उगितश्च' (पा० ४ । | १।६) इति डीपि 'अचश्च' (पा० ६ । ४ । १३८) इत्यलोपे 'चौ' (पा० ६।३ । १३८ ) इति पूर्वपददीर्घः 'सध्रीचीश्च ह्येष विषूचीश्च दिशो वस्तेऽथो रश्मीन्' (१४ । १।४। १०) इति श्रुतिः । एकः सशब्दः पादपूरणः । स कः । यमहमपश्यमादित्यरूपं पश्यामि । कीदृशम् । गोपां गोपायतीति गोपास्तम् । क्विपि यलोपः । अनिपद्यमानं निपद्यते पततीति निपद्यमानः न निपद्यमानोऽनिपद्यमानस्तम् अन्तरिक्षे गच्छन्तमपि नाधः पतन्तम् । च पुनः पथिभिः देवमार्गैः आचरन्तमागच्छन्तम् । पराचरन्तं परागच्छन्तं च गमनागमने कुर्वाणम् ॥ १७ ॥

अष्टादशी।
विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते ।
दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान् पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये ।
मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् ।। १८ ।।
उ० विश्वासां भुवाम् । सर्वासां पृथिवीनां पते हे प्रवर्ग्य, विश्वस्य मनसः सर्वस्य प्राण्याश्रयस्य मनसः पते । विश्वस्य वचसः सर्वस्य त्रयीलक्षणस्य वचसः पते । सर्वस्य वचसः सर्वस्य लौकिकस्य वचसः पते । त्वां स्तुम इति शेषः । यतश्च त्वं देवश्रुत् देवैः श्रुतः अतः त्वां याचे । हे देव घर्म, त्वं देवः सन् देवान्पाहि गोपाय । अत्र प्रावीरनु वां देव वीतये । अत्र सत्रे अस्मिन्नवसरे वा । प्रावीरिति पुरुषव्यत्ययः । प्रावतु तर्पयतु घर्मः । वां युवाम् हे अश्विनौ, अनु देववीतये । ततोऽनन्तरम् देवतर्पणाय नमस्करोत्विति वाक्यशेषः । मधुमाध्वीभ्याम् मधुनाम ब्राह्मणं तदश्विभ्यां ददौ दध्यङ्ङाथर्वणः । तदेतदुक्तम् । मधुमाधूचीभ्यां मधु ब्राह्मणं प्रति अञ्चतो गच्छतः तौ ताभ्यां मध्वञ्चनाभ्याम् । शेषं पूर्ववद्व्याख्येयम् ॥ १८॥
म० अत्यष्टिः । हे विश्वासां भुवां पते सर्वासां पृथिवीनां स्वामिन् , विश्वस्य सर्वप्राणिगतस्य मनसः पते अधिपते, विश्वस्य वचसः पते सर्वप्राणिवचनस्य पालक, सर्वस्य त्रयीलक्षणस्य वचसः पते प्रवर्तक, हे देवश्रुत् देवैः श्रूयत इति देवश्रुत् - देहप्रसिद्ध, हे देव दीप्यमान हे घर्म देव, त्वं देवान् पाहि रक्ष। एवं घर्मं संप्रार्थ्याश्विनावाह । हे अश्विनौ, अत्र यज्ञे देववीतये देवतर्पणाय अनु अनन्तरं घर्मो वां प्रावीः प्रावीत् तर्पयतु । लोडर्थे लुङ् पुरुषव्यत्ययश्च । युवयोस्तृप्त्या सर्वदेवास्तृप्यन्तीति भावः । याभ्यां युवाभ्यां दध्यङ्ङाथर्वणो मधुसंज्ञकं ब्राह्मणमुवाच 'दध्यङ् ह वा आभ्यामाथर्वणो मधुनाम ब्राह्मणमुवाच'