पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कतशकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरित्यधिकं दक्षिणतो द्वौ मन्त्रेण' ( का० २६ । ३ । ९ । १० )। अध्वर्युर्धष्टिभ्यां गार्हपत्यस्य भस्माङ्गारांश्च महावीरं परितो निक्षिप्य प्रागग्रैरुदगग्रैस्त्रयोदशविकङ्कतशकलैर्महावीरं वेष्टयति । अङ्गारोपरि शकलान्निक्षिपतीत्यर्थः । तन्मध्याद्द्वौ शकलौ मन्त्रेण प्राञ्चौ निदधाति शेषां तूष्णीम् । एवं प्रतिदिशं त्रिषु त्रिषु स्थितेषु अधिकं त्रयोदशं दक्षिणतो निदधातीति सूत्रार्थः । मासानां त्रयोदशत्वात्त्रयोदशशकलैराच्छादनम् 'त्रयोदश वै मासाः संवत्सरस्य संवत्सर एष य एष तपत्येष उ प्रवर्ग्यः' ( १४ । १ । ३ । २८ ) इति श्रुतेः । यजुःपङ्क्तिधर्मदेवत्या । हे घर्म, त्वं स्वाहाकारोऽसि हविराधारत्वात्सूर्यरूपोऽसि । “एष वै स्वाहाकारो य एष तपत्येष उ प्रवर्ग्यः' (१४ । १।३ । २६) इति श्रुतेः । अतस्त्वं मरुद्भिः प्रजाभिरस्मद्रूपाभिः परिश्रीयस्व सेव्यस्व । कर्मणि यक् । मरुतस्त्वामाश्रयन्त्वित्यर्थः । 'विशो वै मरुतो विशेवैतत्क्षत्रं परिवृᳪहति तदिदं क्षत्रमुभयतो विशा परिवृढम्' (१४ । १ । ३ । २७) इति श्रुतेः । 'सुवर्णशतमानेनापिदधाति दिवः सᳪस्पृश इति' ( का० २६ । ३ । १०)। शतरक्तिकामितेन सुवर्णेन महावीरमाच्छादयतीति सूत्रार्थः । दैवी जगती सुवर्णदेवत्या । हे शतमान, दिवः द्युलोकसंबन्धिनः संस्पृशः स्पर्शकर्तॄन्देवान्पाहि । 'देवा राक्षसेभ्यो भीता महावीररक्षायै स्वर्ण स्थापितवन्तः' (१४ । १ । ३ । २९) इति श्रुतौ कथा देवा अबिभयुरित्यादिकार्था । 'कृष्णाजिनावकृत्तैर्धवित्रैरुपवीजयति त्रिभिर्दण्डवद्भिर्मधु मध्विति' (का० २६।४।२) कृष्णाजिनकृतैर्दण्डयुक्तैस्त्रिभिर्व्यजनैरग्निं वीजयति दीपनायेति सूत्रार्थः । त्रीणि यजूंषि प्राणदेवत्यानि दैव्युष्णिक् । मधुररससाम्यात्प्राणो मधु उच्यते । मधु मधु मधु प्राणोदानव्यानत्रयं महावीरे स्थापयामीत्यर्थः । तथाच श्रुतिः 'अथ धवित्रैराधुनोति मधु मध्विति त्रिः प्राणो वै मधु प्राणमेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति' ( १४ । १ । ३ । ३० ) इति ॥ १३ ॥

चतुर्दशी।
गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पति॑: प्र॒जाना॑म् । सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ सᳪ सूर्ये॑ण रोचते ।। १४ ।।
उ० महावीरमुपतिष्ठते । गर्भो देवानामित्यवकाशैः तेन त्वष्टृमन्त इत्यतः प्राक् । यो गर्भो देवानां गृह्णातीति गर्भः आदित्यात्मना महावीरः । यश्च पिता मतीनां गोपायिता बुद्धीनाम् । यश्च पतिरधिपतिः प्रजानाम् । यश्च सं देवो देवेन सवित्रा गत संगत संगच्छते । देवः प्रवर्ग्यः देवेन सवित्रा सह । यश्च संरोचते घर्मः सूर्येण सह एकीभूतः तं वयं स्तुम इति वाक्यशेषः ॥ १४ ॥
म० परिक्रम्योपतिष्ठन्तेऽकृतं चेद् गर्भो देवानामिति' ( का० २६ । ४ । ११)। धवित्रैर्वीजनसमये उत्तरं देववत्परिक्रमणं प्रागकृतं चेदिह त्रिः परिक्रम्येतरथावृत्तिं सकृत्कृत्वा गर्भो देवानामित्यादिभिर्नमस्ते अस्तु मा मा हिंसीरित्यन्तैरवकाशसंज्ञकैर्मन्त्रैः सयजमाना ऋत्विजो महावीरमुपतिष्ठन्त इति सूत्रार्थः । घर्मदेवत्या अवकाशमन्त्रा मा मा हिंसीरित्यन्ताः। आद्या ऋचां पङ्क्तिः । अथ मन्त्रार्थः । देवो दीप्यमानो महावीरः सवित्रा देवेन सह सङ्गत सङ्गच्छते । गमेर्लुङि वा गमः' ( पा० १।२ । १३ ) इति आत्मनेपदे विकल्पेन सिचः कित्त्वात् 'अनुदात्तोपदेश-' (पा० ६।४ । ३७) इति मलोपे 'ह्रस्वादङ्गात्' (पा० ८ । २ । २७) इति सिचो लोपः। 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । 'समो गम्-' (पा० १ । ३ । २९ ) इत्यादिना तङ् । यश्च घर्मः सूर्येण सहैकीभूतः सन् संरोचते सम्यग्दीप्यते तं वयं स्तुम इति शेषः। कीदृशः । देवानां दीप्तानां रश्मीनां दृश्यमानानां सर्वेषां वा गर्भः गृह्णातीति गर्भः ग्रहीता । एष वै गर्भो देवानां य एष तपत्येष हीदᳪ सर्वᳪ संगृभ्णात्येतेनेदᳪ सर्वं गृभीतमेष उ प्रवर्ग्यः' (१४ । १ । ४ । २) इति श्रुतिः । तथा मतीनां बुद्धीनां पिता पालकः बुद्धिप्रवर्तकः प्रजानां पतिः पालकः ॥ १४ ॥

पञ्चदशी।
सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा सᳪ सूर्ये॑णारोचिष्ट ।
स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा सᳪ सूर्ये॑णारूरुचत ।। १५ ।।
उ० समग्निः अनुष्टुप् ब्राह्मी । यश्च संगत संगच्छते | अग्निः घर्मः अग्निना सूर्याख्येन सह । यश्च संगत संगच्छते दैवेन सवित्रा सह । यश्च समरोचिष्ट संरोचते दीप्यते सूर्येण सह स्पर्धयन् । तं वयं स्तुम इति वाक्यशेषः। स्वाहाकारः आदित्यप्रीणनार्थः । यश्च स्वाहा अग्निः संगत संगच्छते । तपसा आदित्यसंबन्धिना सह । यश्च संगत संगच्छते दैव्येन सवित्रा सह । यश्च समरूरुचत समरोचत संरोचते सूर्येण सह स्पर्धयन् । तं वयं स्तुम इति वाक्यशेषः ॥ १५॥
म० ब्राह्म्यनुष्टुप् । यः अग्निः घर्मः अग्निना सह सङ्गत सङ्गच्छते एकीभवति । देव एव दैवः सवित्रा दैवेन देवेन सह सङ्गच्छते । यश्च सूर्येण सह समरोचिष्ट संरोचते । 'अवरं स्वाहाकारं करोति परां देवतामसावेव बन्धुः' (१४ । १ । ४ । ६ ) इति श्रुतेः । स्वाहा अग्निः । खाहासहितोऽग्निर्घर्मस्तपसा सूर्यतेजसा सङ्गत सङ्गच्छते । दैव्येन देवेन सवित्रा च सङ्गच्छते । सूर्येण सह समरूरुचत सर्वं सम्यक् रोचयति प्रकाशयति । रोचतेर्णिजन्ताल्लुङ् । वयं तं स्तुम इति शेषः ॥ १५ ॥

पोडशी।
ध॒र्ता दि॒वो विभा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः ।
वाच॑म॒स्मे नि य॑च्छ देवा॒युव॑म् ।। १६ ।।