पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणाᳪ, रक्षसामपहत्या इति' ( १४ । १।३ । १४ ) तथा 'अथो पृथिव्यु ह वा एतस्माद्बिभयांचकार यद्वै मायं तप्तः शूशुचानो न हिᳪस्यादिति तदेवास्या एतदन्तर्दधाति रजतम्' (१४ । १।३ । १४ ) इति । 'सᳪसीदस्वेत्युच्यमाने मुञ्जप्रलवान्द्विगुणानादीप्य प्रतिदिशं खरे करोति तेषु महावीरमाज्यवन्तमर्चिरसीति' ( का० २६ । ३ । ३ । ४ )। होत्रा संसीदस्वेति ( ११ । ३७) पठ्यमानेऽध्वर्युर्द्विगुणितान्मुञ्जखण्डान्गार्हपत्ये प्रदीप्य खरे चतुर्दिक्षु कृत्वा तेषु मुञ्जेषु संस्कृताज्यपूर्णं प्रचरणीयं महावीरं निदधातीति सूत्रार्थः । यजुस्त्रिष्टुप् घर्मदेवत्या । हे महावीर, त्वमर्चिश्चन्द्रकान्तिरूपोऽसि शोचिरग्नितेजोरूपोऽसि तपः सूर्यतापरूपोऽसि 'एष वै घर्मो य एष तपति सर्वं वा एतदेष तदेतमेवैतत् प्रीणाति' ( १४ । १ । ३ । १७) इति श्रुतेः 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' (गीता १५ । १२ ) इति स्मृतेश्च ॥ ११ ॥

द्वादशी।
अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः। पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः ।
सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दाः। आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः ।
विधृ॑तिरु॒परि॑ष्टा॒द्बृह॒स्पते॒राधि॑पत्य॒ ओजो॑ मे दा विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि मनो॒रश्वा॑सि ।। १२ ।।
उ० अनाधृष्टेति वाचयति प्रादेशमध्ये विधारयन् । हे पृथिवि, या त्वम् अनाधृष्टा अधर्षिता रक्षोभिः पुरस्तात् तां त्वां ब्रवीमि । अग्नेः आधिपत्ये सति आयुर्मेदाः देहि । या त्वं पुत्रवती दक्षिणतो भवसि तां त्वां ब्रवीमि इन्द्रस्याधिपत्ये सति प्रजां मे दाः मह्यं देहि । या त्वं सुषदा स्वास्थेया साध्वस्मिन्सीदतीति सुषदा । पश्चाद्भवसि तां त्वां ब्रवीमि । देवस्य सवितुः आधिपत्ये सति चक्षुर्मे दाः देहि । या त्वं आश्रुतिः आश्रयन्त्यस्मिन्यजमाना इत्याश्रुतिः । यज्ञियो ह्यसौ देशः । उत्तरतो भवसि । तां त्वां ब्रवीमि । धातुराधिपत्ये सति रायस्पोषं धनस्य पुष्टिं मे दाः देहि । या त्वं विधृतिः विधारिणी उपरिष्टाद्भवसि । तां त्वां ब्रवीमि बृहस्पतेः आधिपत्ये सति ओजो मे दाः। दक्षिणत उत्तानेन पाणिना निह्नुते । विश्वाभ्यो मा नाष्ट्राभ्यस्पाहि । सर्वाभ्यः माम् आर्तिभ्यः गोपायेति । इमामभिमृश्य जपति । मनोरश्वासि। 'अश्वा ह वा इयं भूत्वा मनुमुवाह' इति श्रुतिः ॥ १२ ॥
म० 'अनाधृष्टेति वाचयति प्रादेशमध्यधि धारयन्तम्' ( का० २६ । ३ । ५) महावीरोपर्यङ्गुष्ठाङ्गुलिदेशं धरन्तं यजमानमध्वर्युर्मन्त्रान्वाचयतीति सूत्रार्थः । सप्त यजूंषि पृथिवीदेवत्यानि यजमानस्याशीः । हे पृथिवि, या त्वं पुरस्तात्पूर्वस्यां दिशि अनाधृष्टा रक्षोभिरनाधर्षिता अनेराधिपत्ये स्वामित्वे सति मे मह्यमायुर्दाः देहि । ददातेर्लुङि मध्यमैकवचनेऽडभाव आर्षः। 'अग्निमेवास्या अधिपतिं करोति' (१४ । १।३ । १९) इति श्रुतेः । या त्वं दक्षिणस्यां दिशि इन्द्रस्याधिपत्ये सति पुत्रवती पुत्रयुता सा मे मह्यं प्रजां पुत्रादिकां दाः देहि 'इन्द्रमेवास्या अधिपतिं करोति नाष्ट्राणाᳪ रक्षसामपहत्यै' ( १४ । १।३ । २० ) इति श्रुतेः । या त्वं पश्चात्पश्चिमायां दिशि सुषदा भवसि । सुष्ठु अस्यां सीदन्ति जना इति सुषदा 'ईषद्दुःसुषु'-(पा० ३ । ३ । १२६) इति खल्प्रत्ययः । सवितुर्देवस्याधिपत्ये सति सा त्वं मे चक्षुः नेत्रेन्द्रियं दाः देहि । 'देवमेवास्यै सवितारमधिपतिं करोति' (१४ । १।३ । २१) इति श्रुतेः । हे पृथिवि, या त्वमुत्तरतः उत्तरस्यां दिशि धातुर्ब्रह्मण आधिपत्ये सति आश्रुतिरसि आश्रावयन्ति ऋत्विजो यस्यां सा आश्रुतिः यज्ञियो ह्युत्तरदेशः । सा त्वं मे रायो धनस्य पोषं पुष्टिं दाः देहि । 'धातारमेवास्या अधिपतिं करोति' (१४ । १। ३ । २२) इति श्रुतेः । या त्वमुपरिष्टादुपरिप्रदेशे बृहस्पतेराधिपत्ये सति विधृतिरसि । विशेषेण धारयतीति विधृतिः उपरिष्टाज्जुह्वादिकं ध्रियते । सा त्वं मे मह्यमोजो बलं दाः देहि । 'बृहस्पतिमेवास्या अधिपतिं करोति' ( १४ । १।३ । २३) इति श्रुतेः । 'विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति' ( का० २६ । ३ । ७)। महावीराद्दक्षिणभूमौ यजमानो मन्त्रं पठन्स्वकरं निदधात्युत्तानम् । यजुर्बृहती। हे महावीरदक्षिणभूमे, विश्वाभ्यः सर्वाभ्यः नाष्ट्राभ्यः नाशकर्त्रीभ्यः पिशाचादिभ्यो लोकप्रसिद्धं नोऽस्मान्पाहि रक्ष 'सर्वाभ्यो मार्तिभ्यो गोपाय' ( १४ । १।३ । २४ ) इति श्रुतेः । 'छन्दसि वा प्राम्रेडितयोः' (पा०८।३।४९ ) इति विसर्गस्य सत्वम् । 'मनोरश्वेति प्रादेशमुत्तरतः' ( का० १६ । ३ । ८)। महावीरादुत्तरतो यजमानो निजप्रदेशं निदधातीति सूत्रार्थः । दैवीपङ्क्तिः । हे घर्मोत्तरभूमे, त्वं मनोः राज्ञः अश्वा वडवासि वहनाय 'अश्वा ह वा इयं भूत्वा मनुमुवाह' (१४ । १।३। | २५) इति श्रुतेः ॥ १२ ॥

त्रयोदशी।
स्वाहा॑ म॒रुद्भि॒: परि॑श्रीयस्व दि॒वः स॒ᳪस्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑ ।। १३ ।।
उ० विकङ्कतशकलैः परिश्रपयति। स्वाहा मरुद्भिः परिश्रीयस्व । हे प्रवर्ग्य, यस्त्वं स्वाहाकारः तं त्वां ब्रवीमि । मरुद्भिः रश्मिभिः । यद्वा 'विशो वै मरुतः' इति श्रुतिः ताभिः परिश्रीयस्व । कर्मणि यक् आश्रीयस्व । मरुतस्त्वामाश्रयन्त्वित्यर्थः । सुवर्णशतमानेनापिदधाति । दिवः द्युलोकस्य संस्पर्शनो रक्षसो महावीरे पाहि गोपाय । अथवा द्युलोकस्य संस्पर्शनकर्तॄन्देवान् त्वं हे महावीर, पाहि । पवित्रैराधुनोति । मधु मधु मधु । मधु प्राणो मधु समान्यादुच्यते स ह्यङ्गानां रसः तं महावीरे स्थापयति ॥ १३ ॥