पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(पा० ६ । १ । ६३) इति सूत्रेण शकृच्छब्दस्य शकनादेशः। एवमितरमन्त्राभ्यामितरौ धूपयेत् । 'प्रदहनं च मखायेति प्रतिमन्त्रम्' (का० २६ । १ । २४) । मखायेति त्रिभिर्मन्त्रैस्त्रीन्महावीरानुखावच्छ्रपयेत् पिन्वनरोहिणैः सहेत्यर्थः । मखाय मखस्य शीर्ष्णे त्वा त्वां निर्दहामि । एवमितरौ ॥ ९ ॥

दशमी।
ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। १० ।।
उ० पक्वानुद्धरति । ऋजवे त्वेति प्रतिमन्त्रम् । ऋजवे त्वा । असौ वै लोक ऋजुः । सत्यमेव तत्र कौटिल्यरहितम् । सत्यं वा आदित्यः । ऋजवे त्वा आदित्याय त्वाम् उद्धरामीति शेषः । एष उ प्रथमः प्रवर्ग्यः । साधवे त्वा । अयं वै साधुर्वायुः । एष हीमान् लोकान् सिद्धोऽप्रतिहतः पवते । एष उ द्वितीयः प्रवर्ग्यः । सुक्षित्यै त्वा । अयं वै लोकः सुक्षितः। अस्मिन्हि लोके सर्वाणि भूतानि क्षियन्ति । अग्निर्हि वा सुक्षितः । अग्निर्हि अस्मिन् लोके सर्वाणि भूतानि परिगृह्य वसति । एष उ तृतीयः प्रवर्ग्यः । अजापयसा परिसिञ्चति महावीरान् मखाय त्वेति प्रतिमन्त्रम् ॥ १० ॥
महावीरसंभरणं समाप्तम् ।
म० 'पक्कानुद्धरत्यृजवे त्वेति प्रतिमन्त्रम्' (का० २६ । १।२५)। पक्वान्महावीरानापाकादिवोद्धरति त्रिभिर्मन्त्रैरित्यर्थः । ऋजवे । असौ लोक ऋजुः तत्र सत्यमेव नतु कौटिल्यम् । सत्यमादित्यः । हे महावीर, ऋजवे सत्यायादित्याय वा त्वामुद्वपामीति शेषः । तथाच श्रुतिः ‘स उद्वपत्यृजवे त्वेत्यसौ वै लोक ऋजुः सत्यᳪह्यृजुः सत्यमेष य एष तपत्येष उ प्रथमः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाहर्जवे त्वा' ( १४ । १।२ । २२) इति । अथ द्वितीयम् । साधवे त्वा साधवे वायवेऽर्थाय वायुप्रीत्यै त्वामुद्वपामि । तथाच श्रुतिः 'साधवे त्वेत्ययᳪ साधुर्योऽयं पवत एष हीमान् लोकान् सिद्धोऽनुपवत एष उ द्वितीयः प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह साधवे त्वा' (१४ । १।२।२३) इति । अथ तृतीयम् । सुक्षित्यै त्वा सुतरां क्षियन्ति निवसन्ति सर्वभूतानि यस्यां सा सुक्षितिर्भूमिः । तथाच श्रुतिः 'सुक्षित्यै त्वेत्ययं वै लोकः सुक्षितिरस्मिन् हि लोके सर्वाणि भूतानि क्षियन्त्यथोऽग्निर्वे सुक्षितिरग्निर्ह्येवास्मिन् लोके सर्वाणि भूतानि क्षियत्येष उ तृतीयः प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सुक्षित्यै त्वा' (१४ । १ । २ । २४) इति । 'अजापयसावसिञ्चति मखायेति प्रतिमन्त्रम्' ( का० २६ । १।२६) । अजादुग्धेन त्रीन्महावीरांस्त्रिभिः तुल्यमन्त्रैः सिञ्चतीत्यर्थः । मखाय मखशीर्ष्णे चाजापयसा त्वां सिञ्चामीत्यर्थः ॥ १०॥ इति महावीरसंभरणं समाप्तम् ।

एकादशी।
य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒ᳪस्पृश॑स्पाहि । अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि ।। ११ ।।
उ० महावीरं प्रोक्षति । यमाय त्वा मखाय त्वा सूर्यस्य त्वा तपसे । प्रोक्षामीति शेषः । महावीरमनक्ति । देवस्त्वा सविता मध्वानक्तु इति व्याख्यातम् । रजतशतमानं खरे उपगूहति । पृथिव्याः सᳪस्पृशः । संस्पृशतीति संस्पृक् क्विबन्तस्यैतद्रूपम् । हे रजत, पृथिव्याः संस्पृशो राक्षसात् महावीरं पाहि गोपाय । महावीरमाज्यवन्तं निदधाति । अर्चिरसि शोचिरसि तपोसि ऋज्वर्थम् ॥ ११ ॥
म० 'ब्रह्मानुज्ञातो यमाय त्वेति महावीरं प्रोक्षति' । (का० २६ । २ । १३ ) प्रचरेति ब्रह्मणानुज्ञातोऽध्वर्युरुपविश्य यमाय त्वेति मन्त्रत्रयेण प्रचरणीयं महावीरं वारत्रयं प्रोक्षतीत्यर्थः । त्रीणि यजूंषि । यमयति नियच्छति सर्वमिति यम आदित्यस्तत्प्रीत्यै त्वा त्वां प्रोक्षामि । तथाच श्रुतिः ‘स प्रोक्षति यमाय त्वेत्येष वै यमो य एष तपत्येष हीदᳪ सर्वं यमयत्येतेनेदᳪ सर्वं यतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह यमाय त्वा' (१४ । १ । ३ । ४) इति । मखाय त्वा । मखो यज्ञः | प्रवर्ग्यः सूर्यरूपस्तस्मै त्वां प्रोक्षामि । तथाच श्रुतिः 'एष वै मखो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत् प्रीणाति तस्मादाह मखाय त्वा' ( १४ । १ । ३ । ५) इति । सूर्यस्य त्वा तपसे । तपतीति तपस्तेजः । सूर्यतेजोरूपाय प्रवर्ग्याय त्वां प्रोक्षामि । तथाच श्रुतिः ‘एष वै सूर्यो य एष तपत्येष उ प्रवर्ग्यस्तदेवमेवैतत्प्रीणाति तस्मादाह सूर्यस्य त्वा तपसा' (१४ । १।३ । ६) इति । 'अञ्जन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्यं संस्कृत्य' ( का० २६ । २ । २०) । होत्रा अञ्जन्ति यं प्रथयन्तीति मन्त्रे पठ्यमानेऽध्वर्युराज्यं विधिना संस्कृत्य तेनाज्येन प्रचरणीयं महावीरं मन्त्रेणानक्ति । सविता देवः मध्वा मधुना मधुरेण सर्वजगद्रूपेणाज्येन हे महावीर, त्वामनक्तु लिम्पतु । मध्वेति नुमभाव आगमस्यानित्यत्वात् । तथाच श्रुतिः 'सर्वं वा इदं मधु यदिदं किंच तदेनमनेन सर्वेण समनक्ति' (१४ । १।३ । १३) इति । 'रजतशतमानं खर उपगूहति पृथिव्याः सᳪस्पृश' (का० २६ । २ । २१) इति । रजतस्य शतमानं शतरक्तिकामितं रजतं खरे सिकतान्तरुपगूहतीत्यर्थः । प्राजापत्या गायत्री रजतदेवत्या । संस्पृशति उपद्रवार्थं स्पर्शं करोतीति संस्पृक् राक्षसः क्विबन्तम् । पृथिव्याः संबधिनः संस्पृशः राक्षसात् महावीरं हे रजत, त्वं पाहि रक्ष । देवा राक्षसेभ्यो भीताः सन्तो यज्ञरक्षार्थमग्नेरपत्यं रजतं रक्षसां घाताय खरं निदधुः । अथ च पृथिवी महावीरपाकेऽग्नेर्भीता ततोऽसौ मा दह्यतामिति रजतं खरेऽन्तर्हितमिति श्रुतौ कथा । तथाच श्रुतिः 'देवा अबिभयुर्यद्वै न इममधस्ताद्रक्षाᳪसि नाष्ट्रा