पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'इन्द्रस्यौजः स्थेति पूतीकान्' (का० २६ । १।८)। पूतीकान् रोहिषतृणान्यादाय तूष्णीं कृष्णाजिने वराहविहतोत्तरे निदध्यादिति सूत्रार्थः । आदारदेवत्यमृक्त्रिष्टुप् । हे पूतीकाः, यूयमिन्द्रस्य ओजः तेजोरूपाः स्थ भवथ । वो युष्मानादाय पृथिव्याः देवयजने अद्य मखस्य शिरो राध्यासम् । मखाय वो गृह्णामि मखस्य शीर्ष्णे महावीराय च गृह्णामीत्युक्तम् । 'मखायेति पयः' (का० २६ । १ । ९) । पय आदाय तूष्णीं कृष्णाजिने पूतीकोत्तरे निदध्यादिति सूत्रार्थः । पयोदेवत्यम् । हे पयः, मखाय मखशीर्ष्णे त्वां गृह्णामि । तूष्णीं गवेधुका अपि ग्राह्याः । 'संभृतानभिमृशति मखायेति' (का० २६ । १।११)। संभृतान्संभारान्करेण स्पृशेदित्यर्थः । संभारदेवत्यम् । हे संभाराः, मखाय तच्छीर्ष्णे च वः स्पृशामि ॥ ६ ॥

सप्तमी ।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ७ ।।

उ० परिश्रितमभिगच्छन्तो जपन्ति । प्रैत्विति व्याख्यातम् । खरे सादयति । मखाय शिरोसीत्युक्तार्थम् । मृत्पिण्डमादाय महावीरं करोति । मखाय त्वेत्युक्तम् ॥ ७ ॥
म० 'कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति' (का० २६ । १ । १२) । अध्वर्युप्रतिप्रस्थात्रादयः कृष्णाजिनं समन्तादादाय प्रैत्विति जपन्तोऽन्तःपात्यादुत्तरे परिवृत्तं प्रति गच्छन्ति । पञ्चारत्निमितः समचतुरस्रः प्राग्द्वारः सिकतोपकीर्णः पूर्वमेव कृतः सप्तभूसंस्कारसंस्कृतश्छादितप्रदेशः परिवृत उच्यत इति सूत्रार्थः । वृहती व्याख्याता [अ० ३३ । क० ८९] । 'परिवृते निदधाति संभारानुद्धतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखायेति' (का० २६।१।१३-१४)। अध्वर्युः कृष्णाजिनस्थानेव संभारान्परिवृते निदधाति । कीदृशे । उद्धतावोक्षिते उल्लिखितजलसिक्ते । एतत्संस्कारद्वयं पञ्चाधिकं सिकतायुक्ते प्राग्द्वारे चेति सूत्रार्थः । हे संभाराः, मखाय युष्मान्निदधामि । 'संभारैः सᳪसृजति मखायेति' ( का० २६ । १।१५)। गवेधुकाजापयसी पृथक्कृत्य वल्मीकवपादित्रिसंभारैर्मृत्पिण्डं मिश्रयतीत्यर्थः । हे संभाराः, युष्मान् मखाय मृत्पिण्डेन संसृजामि । 'मृदमादाय मखायेति महावीरं करोति प्रादेशमात्रमूर्ध्वमासेचनवन्तं मेखलावन्तं मध्यसंगृहीतमूर्ध्वं मेखलायास्त्र्यङ्गुलम्' (का० २६ । १ । १६)। महावीरपर्याप्तं तूष्णीं मृत्पिण्डमादाय मन्त्रेण महावीरं करोति । कीदृशम् । प्रादेशोच्चं गर्तवन्तं मेखलायुतं मध्ये संकुचितं मेखलोपरि त्र्यङ्गुलोच्चमिति सूत्रार्थः । हे महावीर, मखाय तच्छीर्ष्णे त्वां करोमि ॥ ७ ॥

अष्टमी।
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ८ ।।
उ० निष्ठितमभिमृशति । मखस्य शिरोसीत्युक्तार्थम् । एवं द्वितीयतृतीयौ । गवेधुकाभिः श्लक्ष्णयति । मखाय त्वेति त्रिभिर्मन्त्रैस्त्रीन्महावीरान् ॥ ८ ॥
म०. 'निष्ठितमभिमृशति मखस्य शिर इति' (का० २६ । १। १७) । निष्पन्नं महावीरं वामकरस्थं दक्षिणेन स्पृशतीत्यर्थः । हे महावीर, त्वं मखस्य शिरो मूर्धासि भवसि । 'एवमितरौ प्रतिमन्त्रम्' (का० २६ । १।१९) । इतरौ द्वौ महावीरौ प्रतिमन्त्रमेवमेव करोति अभिमृशति चेत्यर्थः । मखाय द्वितीयं महावीरं करोमि । मखस्य निष्पन्नं स्पृशामि । मखाय तृतीयं महावीरं करोमि । मखस्येति निष्पन्नं स्पृशति । मखस्य शिरोऽसि मखाय त्वा मखस्य शीर्ष्णे त्वामभिमृशामि । 'गवेधुकाभिः श्लक्ष्णयति मखायेति प्रतिमन्त्रम्' (का० २६।१। | २२) गवेधुकाभिः महावीरान् घर्षणेन मृदून् करोति मखायेति । प्रतिमन्त्रमेकैकम् । मखाय मखस्य शीर्ष्णे च त्वां गवेधुकाभिः श्लक्ष्णयामि । एवमग्रिमौ मन्त्रौ ॥ ८ ॥

नवमी।
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।। ९ ।।
उ० अश्वशकृतावधूपयति । अश्वस्य त्वा त्वां हे महावीर, वृष्णः सेक्तुः । शक्ना शकृच्छब्दस्य शकन्नादेशः । धूपयामि देवयजने पृथिव्याः । मखाय त्वा मखस्य त्वा शीर्ष्णे । एवं द्वितीयतृतीयौ । श्रपयति त्रीन्महावीरान् त्रिभिर्मन्त्रैः मखाय त्वेति प्रतिमन्त्रम् ॥ ९॥
म० 'अश्वशकृता धूपयत्यश्वस्येति प्रतिमन्त्रम्' (का० २६। १।२३) । दक्षिणाग्निदीप्तेनाश्वपुरीषेण त्रिभिर्मन्त्रैस्त्रीन्महावीरान्धूपयेत् । एकैकधूपने सप्तसप्ताश्वशकृन्ति गृह्णाति । हे महावीर, पृथिव्याः देवयजने मखाय मखस्य शीर्ष्णे च वृष्णः सेक्तुरश्वस्य शक्ना शकृता पुरीषेण त्वा त्वां धूपयामि । 'पद्दन्न-'