पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्याप्रपन्नस्य प्रवर्ग्य आयुषो विनाशं कुर्यात् । तथा वाङ्मनःप्राणश्चक्षुःश्रोत्राणि प्रपन्नस्य सप्तदशं ह्येतत्प्रजापतेर्लिङ्गमुपलक्षितम् । अथैवंसति वाक् ओजो बलं मानसं धृष्टतानाम । पुनरोजोग्रहणमादरार्थं च । एतदुक्तं भवति-वाक् अतिशयिकमोजः प्राणापानौ च सह एकीभूताः मयि वर्तन्तेऽतः प्रवर्ग्योऽस्मान्न हिनस्ति ॥ १॥
म० पञ्चाध्यायी आथर्वणेन दधीचा दृष्टा 'दध्यङ् ह वा आथर्वण एतᳪ शुक्रमेतं यज्ञं विदांचकार' (१४ । १।१। २०)इति श्रुतेः । 'उग्रश्च' (३९।७।१७।८६) इत्याग्निको मन्त्रः । अग्निं हृदयेनेत्याद्यध्यायसमाप्तिपर्यन्तमाश्वमेधिकम् (३९।८-१३) तद्द्वयं वजयित्वा । (का० अनुक्रमण्याम् ) शान्तिकरणमाद्यन्तयोः । ऋचं वाचमित्यध्यायेन शान्तिकरणं कार्यम् । स्वाध्याये मन्त्रपाठे प्रवर्ग्यमन्त्रादावस्याध्यायस्य दर्शनात् । अथ मन्त्रार्थः । पञ्च यजूंषि लिङ्गोक्तदेवतानि । ऋचमृग्रूपां वाचमहं प्रपद्ये प्रविशामि शरणं व्रजामि । यजुः यजूरूपं मनः प्रविशामि । प्राणं प्राणरूपं साम प्रपद्ये । चक्षुरिन्द्रियं श्रोत्रेन्द्रियं च प्रपद्ये । वागादिग्रहणं सप्तदशावयवोपलक्षणम् । सप्तदशावयवं प्रजापतेर्लिङ्गं प्रपद्ये इत्यर्थः । त्रयीविद्यां लिङ्गशरीरं च प्रपन्नं प्रवर्ग्यो न नाशयेदिति भावः । तथा वागिन्द्रियमोजो मानसं बलं धार्ष्ट्यम् । पुनरोजोग्रहणाच्छारीरं च बलम् । प्राणापनौ उच्छ्वासनिश्वासवायू च एते सह एकीभूताः सन्तो मयि वर्तन्ते । अतोऽपि प्रवर्ग्योऽस्मान्न हन्तीति भावः ॥१॥

द्वितीया।
यन्मे॑ छि॒द्रं चक्षु॑षो॒ हृद॑यस्य॒ मन॑सो॒ वाति॑तृण्णं॒ बृह॒स्पति॑र्मे॒ तद्द॑धातु ।
शं नो॑ भवतु॒ भुव॑नस्य॒ यस्पति॑: ।। २ ।।
उ० यन्मे बार्हस्पत्या पङ्क्तिः । यन्मे मम । छिद्रं अवखण्डितम् चक्षुषः हृदयस्य वा । हृदयग्रहणेन बुद्धिरुक्ता । मनसो वा अतितृण्णं अतिहिंसितम् प्रवर्ग्याचरणेन । बृहस्पतिः मम तत् दधातु । अथैवं बृहस्पत्यनुगृहीतानाम् । शं नः सुखरूपोऽस्माकं भवतु । भुवनस्य भूतजातस्य यः पतिः योऽधिपतिः प्रवर्ग्यरूपो यज्ञः ॥ २ ॥
म० बृहस्पतिदेवत्या पङ्क्तिः । मे मम चक्षुषः चक्षुरिन्द्रियस्य यत् छिद्रमवखण्डनं जातं प्रवर्ग्याचरणेन । हृदयस्य बुद्धेर्वा यत् छिद्रं जातम् । मनसो वा यत् अतितृण्णमतिहिंसितम् प्रवर्ग्याचरणेन यत् चक्षुर्बुद्धिमनसां व्याकुलत्वं जातम् बृहस्पतिर्देवगुरुः मे मम तत् छिद्रमतितृण्णं च दधातु संदधातु छिद्रं निवर्तयतु । भुवनस्य भूतजातस्य यः पतिरधिपतिः प्रवर्ग्यरूपो यज्ञः स नोऽस्माकं शं सुखरूपो भवतु । बृहस्पतिना छिद्रापाकरणात्प्रवर्ग्यः कल्याणरूपोऽस्त्वित्यर्थः ॥ २ ॥

तृतीया।
भूर्भुव॒: स्व॒: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया॑त् ।। ३ ।।
उ० भूर्भुवः स्वः यजूंषि । तत्सवितुरिति कयानस्तिस्रश्च व्याख्याताः । ऋषिकृतो विशेषः ॥ ३॥ ४ ॥ ५॥६॥
म० भूर्भुवः स्वः त्रीणि यजूंषि । तत्सवितुः, कया नः, कस्त्वा, अभी षु णः, एताश्चतस्र ऋचो व्याख्याताः [३, ३५ । २७, ३९-४१] अभी षु ण इत्यस्यामृचि शतं भवास्यूतिभिरिति बहुवचनम् । पूर्वमूतय इत्येव पाठः । ऊतिभिः अवनैर्हेतुभिः शतमसंख्यरूपो भवसीत्यर्थः ॥ ३ ॥ ४ ॥५॥६॥

चतुर्थी।
कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ।। ४ ।।

पञ्चमी ।
कस्त्वा॑ स॒त्यो मदा॑नां॒ मᳪहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ।। ५ ।।

षष्ठी।
अ॒भी षु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभि॑: ।। ६ ।।

सप्तमी।
कया॒ त्वं न ऊ॒त्याभि प्र म॑न्दसे वृषन् । कया॑ स्तो॒तृभ्य॒ आ भ॑र ।। ७ ।।
उ० कया त्वम् । गायत्री । ऐन्द्री अनिरुक्ता । हे इन्द्र, कया ऊत्या केन वा गमनेन त्वम् नः अस्मान् अभिप्रमन्दसे अभिमोदयसि हर्षयसि । हे वृषन् सेक्तः, कया च ऊत्या केन वा गमनेन स्तोतृभ्यः दातुं धनानि आभर आहरसि । लडर्थे लोट् । तत्कथय । येन तथानुतिष्ठामः ॥ ७॥
म० इन्द्रदेवत्या गायत्री अनिरुक्तेन्द्रपदहीना । आद्यपादे व्यूहद्वयम् । हे वृषन् वर्षतीति वृषा हे सेक्तः इन्द्र, 'वासवो वृत्रहा वृषा' इत्यभिधानम् । कया ऊत्या केन तर्पणेन हविर्दानेन नोऽस्मानभिप्रमन्दसे अभिमोदयसि । 'मदिस्तु स्वपने जाड्ये मदे मोदे स्तुतौ गतौ' लट् । कया च ऊत्या तृप्त्या स्तोतृभ्यः स्तुतिकर्तृभ्यो यजमानेभ्यः आभर आहर आहरसि । धनं दातुमिति शेषः । तद्द्वयेन तथा वयं कुर्म इति भावः । आभरेति लडर्थे लोट् ॥ ७॥

अष्टमी।
इन्द्रो॒ विश्व॑स्य राजति । शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ।। ८ ।।