पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० इन्द्रो विश्वस्य द्विपदा विराट् । योयं महावीर इन्द्र आदित्यो वा । कस्याधिष्ठात्री देवता । विश्वस्य जगतः राजति देदीप्यते ईष्टे वा । तस्य प्रसादात् । अस्माकम् अस्तु द्विपदे शं चतुष्पदे । द्विपदां चतुष्पदां चेति विभक्तिव्यत्ययः ॥८॥
म० द्विपदा विराट् इन्द्रदेवत्या । विंशत्यक्षरा द्विपदा विराट् कथ्यते । विश्वस्य सर्वस्य जगतः इन्द्रः 'इदि परमैश्वर्ये' इन्दतीतीन्द्रः परमेश्वरः महावीरः आदित्यो वा यो राजति देदीप्यते ईष्टे वा स नोऽस्माकं द्विपदे । विभक्तिव्यत्ययः। द्विपदां पुत्रादीनां शं सुखरूपोऽस्तु । चतुष्पदे चतुष्पदां गवादीनां च शं सुखरूपोऽस्तु ॥८॥

नवमी।
शं नो॑ मि॒त्र: शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः ।। ९ ।।
उ० शं नो मित्रः। द्वे अनुष्टुभौ । महावीरप्रसादात आदौ च । शं सुखरूपः नोऽस्माकं भवतु मित्रः। शं च नः वरुणः भवतु । शं च नः भवतु अर्यमा शं च नः इन्द्रः बृहस्पतिः शं च नः विष्णुः उरुक्रमः उरु विस्तीर्णः क्रमो यस्य स उरुक्रमः । शेषं दर्शितया व्याख्येयम् ॥ ९॥
म०. द्वे अनुष्टुभौ मित्रवरुणादयो देवताः । मित्रो देवो नोऽस्माकं शं सुखरूपो भवतु महावीरप्रसादात् । मेद्यति भक्तेषु स्निह्यतीति मित्रः । वरुणः शं सुखरूपो भवतु । वृणोत्यङ्गीकरोति भक्तमिति वरुणः । अर्यमा नोऽस्माकं शं भवतु । इयर्ति गच्छति भक्तं प्रतीत्यर्यमा । इन्द्रो देवेशो नोऽस्माकं शं भवतु । बृहस्पतिर्देवगुरुर्नः शं भवतु । बृहतां वेदानां पतिः पालकः । उरुर्विस्तीर्णः क्रमः पादन्यासो यस्य स विष्णुः नोऽस्माकं शं भवतु । वेवेष्टि व्याप्नोतीति विष्णुः ॥९॥

'दशमी।
शं नो॒ वात॑: पवता॒ᳪ शं न॑स्तपतु॒ सूर्य॑: ।
शं न॒: कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ अ॒भि व॑र्षतु ।। १० ।।
उ०. शं नः शं सुखरूपः नोऽस्माकम् वातः अपरुषः अव्याधिजनकश्च पवतां वातु । शं सुखरूपः अदहनः भेषजरूपश्च नोऽस्माकं तपतु सूर्यः । शं नः सुखरूपश्चास्माकम् । पर्जन्यो देवः काशनिक्षाररहितं पवित्रमुदकम् भेषजकर्तृ अभिवर्षतु । कनिक्रदत् । स्तनयित्नु शब्दं कुर्वन् ॥ १०॥
म० वातो वायुर्नोऽस्माकं शं सुखकारः अपरुषः अव्याधिजनकश्च पवतां वहताम् । 'पव गतौ' लोट् । सुवति जनान् स्वस्वव्यापारेषु प्रेरयति सूर्यः शं सुखरूपोऽदहनो भेषजरूपश्च नोऽस्माकं तपतु किरणान्प्रसारयतु । पर्जन्यः पिपर्ति पूरयति जनमिति पर्जन्यः, परोऽम्भःपूरो जन्यतेऽनेन वा । 'पर्जन्यौ रसदब्देन्द्रौ' इत्यभिधानम् । पर्जन्यः पर्जन्येशो देवः नोऽस्माकं शं सुखकरं काशनिक्षाररहितं यथा तथा अभिवर्षतु सिञ्चतु । कीदृशः । कनिक्रदत् अत्यन्तं क्रन्दतीति शब्दं कुर्वन् 'दाधर्तिदधर्ति-' (पा. ७ । ४ । ६५) इत्यादिना यङ्लुगन्तो निपातः॥ १० ॥

एकादशी। -
अहा॑नि॒ शं भव॑न्तु न॒: शᳪ रात्री॒: प्रति॑ धीयताम् ।
शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒: शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः ।। ११ ।।
उ० अहानि शम् द्विपदा गायत्री । अहानि दिवसाः शं सुखरूपाः भवन्तु नोऽस्माकम् । शं सुखरूपाः रात्री: प्रतिधीयतां प्रतिदधात्वस्मासु महावीरः । शं सुखरूपौ च इन्द्राग्नी भवताम् अवोभिः पालनैः सह । शं नः सुखरूपौ चास्माकम् । इन्द्रावरुणा इन्द्रावरुणौ । रातहव्या दत्तहविष्कौ भवताम् । शं नः सुखरूपौ चास्माकं इन्द्रापूषणौ भवताम् । वाजसातौ अन्नसंभजने निमित्तभूते । शं सुखरूपौ च इन्द्रासोमौ भवताम् सुविताय साधुगमनाय साधुप्रसवाय वा । शं योः शमनाय रोगाणां यावनाय पृथक्करणाय च भयानाम् ॥ ११ ॥
म० द्विपदा गायत्री । अहानि रात्रयश्च देवताः । अहानि दिनानि नोऽस्माकं शं सुखरूपाणि भवन्तु । रात्रीः शं सुखरूपाः अस्मासु प्रतिधीयतां प्रतिदधातु । महावीर इति शेषः । कर्तरि यक् छान्दसः । शं न इन्द्राग्नी त्रिष्टुप् । इन्द्राग्नी इन्द्रावरुणौ इन्द्रापूषणौ इन्द्रासोमौ देवताः । इन्द्राग्नी अवोभिः पालनैः कृत्वा नोऽस्माकं शं सुखरूपौ भवताम् । रातं दत्तं हव्यं ययोस्तौ रातहव्यौ हविस्तृप्तौ इन्द्रावरुणौ नः शं भवताम् । वाजसातौ वाजस्यान्नस्य सातौ दाने निमित्तभूते इन्द्रापूषणा इन्द्रपूषसंज्ञौ देवौ नोऽस्माकं सुखरूपौ भवताम् । इन्द्रासोमा इन्द्रसोमौ देवौ शं सुखरूपौ भवताम् । किमर्थम् । सुविताय सुष्ठु इतं सुवितम् साधुगमनाय साधुप्रसवाय वा । तथा शं रोगाणां शमनाय । योः यवनाय पृथक्करणाय च भयानाम् । रोगं भयं च निवर्त्य सुखरूपौ भवतामित्यर्थः । 'देवताद्वन्द्वे च' (पा० ६ ३ । २६) इति सर्वत्र पूर्वपदस्य दीर्घः ॥ ११ ॥

द्वादशी।
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ।। १२ ।।
उ० शं नो देवीः । अब्देवत्या गायत्री । सुखरूपा अस्माकम् देवीः देव्यः अभिष्टये अभिषेकाय अभीष्टाय वा। आपः भवन्तु पीतये पानाय च । शं योः शमनाय रोगाणां पृथक्करणाय भयानां वा । अभिस्रवन्तु नः अस्माकम् ॥ १२॥