पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृणाम् सत्या अवितथा आशिषः संनमन्तां प्रह्वीभवन्तु । स्वाहेति यजुः ॥ २०॥
म० जातवेदोदेवत्या त्रिष्टुप् । अस्या विनियोगः श्रौतसूत्रे नास्ति । किंतु गृह्यसूत्रेऽस्ति । तथाहि 'मध्यमा गवा तस्यै वपां जुहोति वह वपां जातवेदः पितृभ्यः' (पार० ३।३) इति । अस्यार्थः । मध्यमाष्टका गोपशुना कार्या तस्या धेनोर्वपां जुहोति वह वपामिति मन्त्रेणेत्यर्थः । हे जातवेदः, जातं वेदो धनं यस्मात् स जातवेदाः तत्संबोधने हे जातवेदः, पितृभ्योर्थाय त्वं वपां धेनुसंबन्धि चर्मविशेषं त्वं वह प्रापय । पराके पराक्रान्ते दूरेऽपि यत्र यस्मिन्देशे निहितान्स्थापितानेनान्पितॄन् त्वं वेत्थ जानासि तत्र वहेत्यर्थः । तस्याः वपायाः निःसृत्य मेदसः धातुविशेषस्य कुल्याः नद्यः तान्पितॄन् प्रति उपस्रवन्तु प्रसरन्तु । किंच एषां दातॄणामाशिषः मनोरथाः सत्याः अवितथाः सन्नमन्तां प्रह्वीभवन्तु । स्वाहा सुहुतमस्तु । स्वाहेति ऋग्भिन्नं यजुः ॥ २०॥

एकविंशी । ।
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ।
अप॑ न॒: शोशु॑चद॒घम् ।। २१ ।।
उ० स्योना पृथिवि । पार्थिवी गायत्री । स्योना सुखरूपा हे पृथिवि, नः अस्माकम् भव अनृक्षरा च । ऋक्षरः कण्टकः। अनृक्षरा अकण्टका । निवेशनी च साधुप्रतिष्ठाना । किंच । यच्छा नः प्रयच्छ च नः अस्माकम् शर्म शरणम् । सप्रथाः सर्वतः पृथुः । अप नः शोशुचदघमिति व्याख्यातम् ॥२१॥
म०. पृथिवीदेवत्या गायत्री मेधातिथिदृष्टा यजुरन्ता । अस्या अपि श्रौते विनियोगो नास्ति स्मार्ते स्रस्तरारोहणे शयने विनियोगः । तथाहि 'स्योना पृथिवि नो भवेति दक्षिणपार्श्वे प्राक्शिरसः संविशन्तीति' (पार० ३ । २) । हे पृथिवि, त्वं नोऽस्माकं स्योना सुखरूपा भव । किंभूता त्वम् । अनृक्षरा ऋक्षरः कण्टकः। 'ऋच्छतेः कण्टकः कन्तपो वा कण्टतेर्वा कृन्ततेर्वा स्याद्गतिकर्मणः' (निरु० ९ । ३२ ) इति यास्कः । तद्र्(हणं चौरदायादादिदुःखनिवृत्त्यर्थम् । न सन्ति ऋक्षराः कण्टकाः दुःखदायिनो यस्यां सा अनृक्षरा । तथा निवेशनी निविशन्ति जनाः यस्यां सा निवेशनी साधुप्रतिष्ठाना 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति ल्युट् । तथा सप्रथाः प्रथनं प्रथः विस्तारः प्रथसा सह वर्तमाना सप्रथाः सर्वतः पृथुः । किंच नोऽस्मभ्यं शर्म शरणं यच्छ देहि । अतः परं यजुः तद्विनियोगो गृह्यसूत्रे संबन्धिमरणनिमित्ते स्नाने जलापनोदने । तथाहि 'सव्यस्यानामिकया अपनोद्याप नः शोशुचदघमिति' (पार० ३ । १०) । इदं जलं नोऽस्माकमघं पापमपशोशुचत् अपशोचयतु दहतु ॥ २१॥

द्वाविंशी।
अ॒स्मात्त्वमधि॑ जा॒तो॒ऽसि॒ त्वद॒यं जा॑यतां॒ पुन॑: । अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ।। २२ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
उ० अस्मात्त्वम् । गायत्री यजुरन्ता एकात्राहुतिः । अनिरुक्ताग्नेयी । अस्माद्यजमानात् । हे अग्ने, त्वम् अधिजातोसि यतः अतो ब्रवीमि । अयं पुनर्जायमानः त्वत् त्वत्तः जायतामुत्पद्यताम् । असाविति नामग्रहणम् । तद्यथा देवदत्तः स्वर्गाय लोकाय स्वर्गलोकप्राप्त्यर्थम् । त्वत्तो ह्ययं जायमानः त्वद्वश्य एव स्यादित्यभिप्रायः। स्वाहेति संप्रदानमस्तु ॥२२॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
म० 'आहुतिं जुहोति पुत्रो भ्रातान्यो वा ब्राह्मणोऽस्मात्त्वमधिजातोऽसीति' (का० २५ । ७ । ३७) । साग्निकस्य पात्रप्रतिपत्त्यन्ते दाहात्पूर्वमाज्याहुतिं पुत्रादिर्जुहोति । अग्निदेवत्या गायत्री अनिरुक्ता । हे अग्ने, त्वमस्मात् यजमानात् आधानकाले अधिजातोऽसि उत्पन्नोऽसि । अतोऽयं यजमानः पुनः त्वत् त्वत्तः जायतामुत्पद्यताम् । असाविति विशेषनामवचनः । तथाहि देवदत्तः स्वर्गाय लोकाय स्वर्गलोकप्राप्त्यर्थं त्वत्तो जायताम् । त्वद्वंश्य एव भवत्विति भावः । स्वाहा सुहुतमस्तु ॥ २२ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । पञ्चत्रिंशोऽयमध्यायः पितृमेधाभिधोऽगमत् ॥ ३५ ॥

षट्त्रिंशोऽध्यायः।
तत्र प्रथमा।
ऋचं॒ वाचं॒ प्र प॑द्ये॒ मनो॒ यजु॒: प्र प॑द्ये॒ साम॑ प्रा॒णं प्र प॑द्ये॒ चक्षु॒: श्रोत्रं॒ प्र प॑द्ये ।
वागोज॑: स॒हौजो॒ मयि॑ प्राणापा॒नौ ।। १ ।।
उ० इदानीं प्रवर्ग्याग्निकाश्वमेधोपनिषत्संबद्धा मन्त्रास्तान्व्याख्यास्यामः । तत्राग्निका उग्रश्चेत्येवमादयः । तान्पुनः परमेष्ठ्यपश्यत् । प्राजापत्यो विमुख इति तस्य मन्त्रगणस्य संज्ञा । अग्निᳪ हृदयेनेत्याश्वमेधिकाः आ अध्यायात् प्रजापतेरार्षम् । परिशिष्टं दध्यङ्ङाथर्वणोऽपश्यत् । 'दध्यङ् ह वा आथर्वणः' इत्येवमादिकया श्रुत्या तद्भावं प्रतिपद्यते । ऋचं वाचम् । प्रवर्ग्यस्यादावन्ते च शान्तिकरणोऽध्यायः । विश्वेदेवा अग्निकानामाश्वमेधिकानां च मन्त्राणाम् इह समाम्नानं दिवाकीर्तिसामान्यात् । प्रथमकण्डिका यजुः । | ऋचं वाचं प्रपद्ये प्रविशामि यामि वा । एवं मनो यजुः साम प्राणं चक्षुः श्रोत्रमिति व्याख्येयम् । नहि त्रयीवि