पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० आयुष्मानग्ने । वसुरन्ता त्रिष्टुप् । इमा स्वाहेति यजुः । हे अग्ने, यः त्वम् आयुष्मान् तं त्वां ब्रवीमि । हविषा वृधानः वर्धमानः । घृतप्रतीकः । प्रतीकं मुखम् । घृतयोनिः घृतसंस्थानः एधि भव । उत्तरवेद्यां धारणाभिप्रायमेतत् । घृतं च पीत्वा । मधु मधुरसम् । चारु सुगन्धि । गव्यं गोविकारसंभूतम् । पिता इव पुत्रम् अभिरक्षतात् । 'तुह्योस्तातङा शिष्यन्यतरस्याम्' इति तातङादेशः । अभिरक्ष इमान् जीवान् । स्वाहा सुहुतमस्तु ॥ १७ ॥
म० अग्निदेवत्या त्रिष्टब् वैखानसदृष्टा । हे अग्ने, त्वमेवंभूत एधि भव । किंभूतः । आयुष्यमान् चिरंजीवी । तथा हविषा वृधानः वर्धतेऽसौ वृधानः 'बहुलं छन्दसि' (पा० २।४ ७३) इति शानचि शपो लुक् । तथा घृतप्रतीकः घृतं प्रतीकं मुखं यस्य । घृतयोनिः घृतं योनिरुत्पत्तिस्थानं यस्य उत्तरवेद्या धारणाभिप्रायमेतत् । स त्वं गव्यं गोसंबन्धि घृतं पीत्वा इमान् जीवान् अभिरक्षतादभिरक्ष 'तुह्योस्तातङाशिष्यन्यतरस्यां' (पा. ७ । १ । ३५) इति हेस्तातङादेशः । तत्र दृष्टान्तः । पिता पुत्रमिव यथा पिता पुत्रं रक्षति । किंभूतं घृतम् । मधु मधुरं । चारु सुगन्धि । स्वाहा सुहुतमस्तु ॥१७॥

अष्टादशी।
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रव॒: क इ॒माँ२।। आ द॑धर्षति ।। १८ ।।
उ० अथैषां परिदां दधाति अनुष्टुभा । परीमे गामनेषत । इमे जीवाः परि सर्वतः गाम् अनेषत । नयतेर्लुङि सिच एतद्रूपम् । परिणीतवन्तः गाम् । अनडुत्पुच्छालम्बनाभिप्रायमेतत् । पर्यग्निमहृषत पर्यहृष्यत । हरतेरेतद्रूपम् । परिहृतवन्तः अग्निम् । यस्मिन्नग्नावेतत्कर्म क्रियते तमग्निं परिहृतवन्तः । अद्वारेणोपासनं निरस्यतीत्येतदभिप्रायमेतत् । देवेषु ऋत्विक्षु । अक्रत । अकृषतेति प्राप्ते सिचो लोपश्छान्दसः । श्रवः धनं दक्षिणालक्षणम् । अथेदानीं कृतकृत्यान् इमान् कः को नाम । आदधर्षति आधर्षयितुं आक्रमितुं शक्नुयात् । अशक्यप्रतिक्रिया ह्येते वर्तन्त इत्यभिप्रायः ॥ १८॥
म०. 'अथैषां परिदां वदन्ति । परीमे गामनेषतेति ।' (का० । २१ । ४ । २६) अध्वर्युयजमानामात्यानां परिदाम् परिदा रक्षणम् सत्संज्ञं मन्त्रं वदति 'दाङ् पालने' परिदीयते समन्ताद्रक्ष्यतेऽनेनेति परिदाः रक्षणः तम् । इन्द्रदेवत्यानुष्टुप् भरद्वाजात्मजशिरिम्बिठदृष्टा । इमे जीवाः गामनड्ड्वाहं पर्यनेषत परिणीतवन्तः अनडुत्पुच्छालभनाभिप्रायम् । नयतेर्लुङि तङि सिचि प्रथमबहुवचने रूपम् 'व्यवहिताश्च' (पा. १ । ४ । ८२) इति परेर्व्यवधानं क्रियापदेन । इमे जीवाः अग्निं च पर्यहृषत परिहृतवन्तः । यस्मिन्नग्नावेतत्कर्म कृतं तं परिजह्रुः । अद्वारेणौपासनं निरस्यतीत्येतदभिप्रायम् । इमे देवाः दीव्यन्ति कर्मसु दीप्यन्ते ते देवाः ऋत्विजः तेषु श्रवः धनं दक्षिणालक्षणमक्रत कृतवन्तः। अकृषतेति प्राप्ते सिचो लोपे अक्रतेति रूपम् । अत एतैः कर्मभिः कृतकृत्यानिमाञ्जीवान् कोनाम आदधर्षति आकर्षयितुं पराभवितुं शक्नुयात् । अशक्यप्रतिक्रिया एते जाता इति भावः ॥ १८ ॥

एकोनविंशी ।
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः ।
इहै॒वायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ।। १९ ।।
उ०. अद्वारेणोपासनं निरस्यति । क्रव्यादमग्निम् । त्रिष्टुप् । अथ येन पुरुषं दहति स क्रव्यात् । क्रव्यादमग्निम् । प्रहिणोमि प्रेषयामि दूरमपुनरागमनाय । यमराज्यं गच्छन्तु रिप्रवाहः । रिप्रमिति पापनाम । रिप्रं मृतं वहति प्रापयति भस्मीभावमिति रिप्रवाहः । जपति । इह ग्रहे एव अयम् इतरः क्रव्यादादन्यः जातवेदाः जातप्रज्ञानः । देवेभ्यः हव्यं हविः वहतु । प्रजानन् स्वमधिकारम् ॥ १९॥ |
म० 'अद्वारेणौपासनं निरस्यति क्रव्यादमिति' (का० २१ ४ । २७) । आहुतिहोमानन्तरं यत्र हुतं तस्यौपासनस्यैकशेषं निरस्यति । प्रेतस्यैवोपासन इति पक्षे सर्वमपि निरस्यति । अग्निदेवत्या त्रिष्टुप् दमनदृष्टा । येन पुरुषो दह्यते स क्रव्यात् तं क्रव्यादमग्निमहं दूरम् अपुनरागमनाय प्रहिणोमि प्रेषयामि । स प्रहितः क्रव्यादग्निः यमराज्यं गच्छतु यमस्य राज्यं प्रति व्रजतु । किंभूतः । रिप्रवाहः 'रिप्रमिति पापनाम' (नि० ४ । २१) | रिप्रं पापं वहति नाशयति रिप्रवाहः । 'इहैवायमिति जपति' (का० २१ । ४ । २८)। यजमानो जपति । अयमितरः क्रव्यादादन्यो जातवेदाः जातप्रज्ञानोऽग्निः इहैवास्मिन्नेव गृहे सदने देवेभ्योऽर्थाय हव्यं हविः वहतु प्रापयतु । किं कुर्वन् । प्रजानन् स्वाधिकारं जानानः । इति पितृमेधः समाप्तः । उपधानासन्दीवृषभयवानजीर्णान् तद्दक्षिणात्वेन दद्यात् । इच्छन् . हेमाद्यपि दद्यात् ॥ १९ ॥

विशी।
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान् परा॒के ।
मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिष॒: सं न॑मन्ता॒ᳪ स्वाहा॑ ।। २० ।।
उ० वपां जुहोति । वह वपाम् त्रिष्टुप् । वह प्रापय । वपाम् । हे जातवेदः पितृभ्यः । यत्र यस्मिन्प्रदेशे एतान पितॄन् वेत्थ जानासि । निहितान् स्थापितान् । पराके पराक्रान्ते सुदूरेऽपि । तस्याश्च वपायाः सकाशात् मेदसः कुल्या नद्यः निःसृत्य उपस्रवन्तु । तान् पितॄन्प्रति । एषां च दा