पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशी।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। १२ ।।
उ० सुमित्रिया न इति व्याख्यातम् ॥ १२ ॥
म० 'सुमित्रिया न इति स्नात्वाहतवाससोऽनडुत् पुच्छमन्वारभ्यानड्वाहमित्युद्वयमित्यागच्छन्तीति' (का० २१ । ४ । २३) सुमित्रिया इति मन्त्रेण स्नात्वा नूतनवस्त्राणि परिहितवन्तोऽनड्वाहमिति मन्त्रेण वृषपुच्छमन्वारभ्य उद्वयं तमिति मन्त्रेण यजमानामात्या ग्राममागच्छन्ति । यद्यप्यत्र सुमित्रिया इति मन्त्रेण स्नानमुक्तं तथापि सुमित्रिया इत्यपोऽञ्जलिनादाय दुर्मित्रिया इति द्वेष्यं परिषिञ्चतीति' (का० १८ । ५। १५) द्वयं विधेयम् । 'दुर्मित्रिया द्विष्म इति यामस्य दिशं द्वेष्या स्यात्तां दिशं परासिञ्चेत् तेनैव तं पराभावयति' (१३ । ८।४।५) इति श्रुतेः । व्याख्याता (अ० ६ । क० २२ । अ० २० । क. १९)॥ १२॥

त्रयोदशी।
अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौर॑भेयᳪ स्व॒स्तये॑ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑: स॒न्तार॑णो भव ।। १३ ।।
उ० अनडुत्पुच्छमन्वारब्धा आगच्छन्ति । अनड्वाहम् । आनडुही अनुष्टुप् । उत्तरोऽर्धर्चः प्रत्यक्षकृतः अतो यच्छब्दाध्याहारेण सामर्थ्यम् । या त्वाम् अनड्वाहं अन्वारभामहे आलभामहे । सौरभेयं सुरभ्या अपत्यम् 'स्त्रीभ्यो ढक्' । स्वस्तये अविनाशाय । स त्वम् नः अस्माकम् इन्द्रइव देवेभ्यः देवानामिति विभक्तिव्यत्ययः । वह्निर्वोढा संतारणश्च भव ॥ १३॥
म० अनुष्टुप् अनडुद्देवत्या । उत्तरोऽर्धर्चः प्रत्यक्षकृतः ततः सर्वनाम्नोऽध्याहारेण सामर्थ्यम् । वयं यमनड्वाहमन्वारभामहे आलभामहे स्पृशामः । किंभूतम् । सौरभेयं सुरभ्याः अपत्यम् 'स्त्रीभ्यो ढक्' (पा० ४।१।१२०) इति ढक् । किमर्थम् । स्वस्तये अविनाशाय । हे अनड्वन् , स त्वं नोऽस्माकं संतरणः तारको दुःखनाशको भव । किंच त्वं वह्निः देवानां वोढा । तत्र दृष्टान्तः । देवेभ्यः इन्द्र इव । इन्द्रो यथा देवार्थं तारको भवति ॥ १३॥

चतुर्दशी। .
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। १४ ।।
उ० उद्वयमिति व्याख्यातम् ॥ १४ ॥
म० उद्वयं तमिति ग्राममागच्छन्ति । व्याख्याता (अ. २० । क० २१)॥ १४ ॥

पञ्चदशी।
इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ।। १५ ।।
उ०. मर्यादाया एव लोष्टमाहृत्यान्तेन तोरणे निदधाति । इमं जीवेभ्यः । त्रिष्टुप् मृत्युदेवत्या । इमं लोष्टं जीवेभ्यः अर्थाय । परिधिं परिधीयत इति परिधिः तं परिधिम् । दधामि स्थापयामि । किमर्थमिति चेत् । मा गात् मा गच्छतु एषां जीवानां मध्ये अपरः नु क्षिप्रं वेदोक्तादायुषोऽर्वाक् पितृलोकम् । एतमर्थं पुरस्कृत्य सर्वथा शतं जीवन्तु शरदः पुरूचीः बह्वञ्चनाः दानाध्ययनयागानुकूला: अन्तर्मृत्युं दधताम् अन्तर्दधातु मृत्युम् पर्वतेन इव लोष्ठेन ॥ १५॥ |
म० 'ग्रामश्मशानान्तरे मर्यादालोष्टं निदधातीमं जीवेभ्य इति' (का० २१।४।२४)। स्वनिवासग्रामस्य श्मशानस्य च मध्ये मर्यादालोष्टं महत्तरं मृत्खण्डमध्वर्युरेव निदधाति । मनुष्यदेवत्या त्रिष्टुप् संकसुकदृष्टा । जीवेभ्यः विद्यमानजन्त्वर्थमिमं परिधिं मर्यादां दधामि स्थापयामि । कथमिति चेत् । । एषां जीवानां मध्ये अपरः कश्चित् नु क्षिप्रं वेदोक्तादायायुषोऽर्वाक् एतमर्थं पितृलोकगमनलक्षणं कार्यमुद्दिश्य मा गात् मा गच्छतु । एते जीवाः शतं शरदः जीवन्तु शतवर्षायुषो भवन्तु । किंभूताः शरदः । पुरूचीः पुरु बहु अञ्चन्तीति पुरूच्यः दानाध्ययनयागानुकूलाः । किंच पर्वतेन लोष्टेनैव मृत्युमन्तर्दधतां मृत्युमन्तर्हितं कुर्वन्तु एते जीवाः ॥ १५ ॥

षोडशी।
अग्न॒ आयू॑ᳪषि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म् ।। १६ ।।
उ० जुहोति द्वाभ्याम् । अग्न आयूᳪषि । व्याख्यातम् ॥ १६ ॥
म० 'अञ्जनाभ्यञ्जने कृत्वौपासनं परिस्तीर्य वारणान् परिधीन्परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोत्यग्न आयूᳪष्यायुष्मानग्न इति' (का० २१ । ४ । २५)। कज्जलादिना नेत्राञ्जनमञ्जनम् तैलेन पादाञ्जनमभ्यञ्जनम् तद्वयं कृत्वा औपासनं कर्तुरावसथ्याग्निं दर्भैः परिस्तीर्य वारणवृक्षावयवांश्चतुरः परिधींश्चतुर्दिक्षु तूष्णीमेव परिधाय वारणेन स्रुवेणैकामाहुतिं जुहोति ऋग्द्वयेन । औपासनः प्रेतस्यैव । तस्यैवाद्वारेण निरसनीयत्वादिति हरिस्वामिनः । कर्तुरेवौपासने होमस्तस्यैकदेशनिरसनमिति कर्कादयः। व्याख्याता (अ० १९ । क० ३८)॥१६॥

सप्तदशी।
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ।। १७ ।।