पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमी।
शं वात॒: शᳪ हि ते॒ घृणि॒: शं ते॑ भव॒न्त्विष्ट॑काः ।
शं ते॑ भवन्त्व॒ग्नय॒: पार्थि॑वासो॒ मा त्वा॒ऽभि शू॑शुचन् ।। ८ ।।
उ० यथार्थं कल्पयति अनुष्टुब्बृहतीभ्याम् । शं वातः सुखरूपो वातः ते भवतु । शं हि ते घृणिः सुखरूपश्च ते घृणिर्भवतु । घृणिरित्यहर्नाम । हीति स्वाध्यायार्थं । सुखरूपाश्च ते भवन्तु इष्टकाः । सुखरूपाश्च ते भवन्तु अग्नयः। पार्थिवाः पृथिव्यां भवाः पार्थिवासः । मा च त्वाम् अभिशूशुचन् अभितापयन्तु ॥८॥
म० 'शं वात इति यथाङ्गं कल्पयित्वेष्टकां निदधाति मध्ये तूष्णीमिति' (का० २१।४।८)। शं वात इति मन्त्रद्वयेन तानि मध्ये न्युप्तान्यस्थीनि यथाङ्गं कल्पयित्वा यदस्थि यस्याङ्गस्य तेनास्थ्ना तदङ्गकल्पनया प्राशिरसं पुरुषाकृतिं कृत्वा तन्मध्ये पादमात्रामिष्टकां तूष्णीं निदधाति । द्वे ऋचावनुष्टुब्बृहत्यौ विश्वदेवदेवते । हे यजमान, वातो वायुस्ते तव शं सुखरूपो भवतु । हि पुनः घृणिः सूर्यकिरणः ते तव शं सुखरूपो भवतु । इष्टका मध्ये प्रतिदिशं च तिस्रस्तिस्रः प्रक्षिप्तास्ते तव शं सुखरूपा भवन्तु । अग्नयश्च ते शं भवन्तु । पार्थिवासः पृथिव्यां भवाश्चाग्नयः त्वा त्वां माभिशूशुचन् मा शोचयन्तु अभितापयन्तु ॥ ८॥

नवमी।
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒माप॑: शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः ।
अ॒न्तरि॑क्षᳪ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिश॒: सर्वा॑: ।। ९ ।।
उ० किंच । कल्पन्तां ते दिशः क्लृप्तास्ते दिशो भवन्तु । तुभ्यम् आपः शिवतमाः भवन्तु । तुभ्यं भवन्तु सिन्धवः समुद्राः शिवतमाः। अन्तरिक्षं शिवं तुभ्यं भवतु । कल्पन्तां ते दिशः सर्वाः । आदरार्थं पुनर्वचनं कार्त्स्न्यार्थं वा ॥ ९॥
म० दिशः ते तुभ्यं त्वदर्थं कल्पन्तां क्लृप्ता भवन्तु । आपो जलानि तुभ्यं शिवतमाः कल्याणकारिण्यो भवन्तु । सिन्धवः समुद्राश्च शिवतमास्तुभ्यं भवन्तु । अन्तरिक्षमाकाशं तुभ्यं शिवं कल्याणकारि भवतु । सर्वा दिशः ते तुभ्यं कल्पन्ताम् । आदरार्थं कार्त्स्न्यार्थं वा पुनर्वचनम् ॥ ९ ॥

दशमी।
अश्म॑न्वती रीयते॒ सᳪ र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता॒ सखा॑यः ।
अत्रा॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ।। १० ।।
उ० अश्मन्वती रीयते। अश्मनस्त्रीन्विकिरन्ति ता अभ्युत्तरन्ति । त्रिष्टुब्वैश्वदेवी । अश्मन्वती पाषाणवती इयं नदी रीयते गम्यते अस्माभिः विषमम् । अतो ब्रवीमि । संरभध्वम् । संरम्भश्चोत्तरणाय प्रयत्नकरणम् । उत्तिष्ठत अभिमुखा भवत प्रतरत हे सखायः । किमित्यादरः । अत्रा. जहीमः परित्यजामः । अशिवाः अशान्ताः । ये असन् स्युः। शिवान् वाजान् अन्नविशेषान् वयम् अभ्युत्तरेम ॥१०॥
म०. 'अध्यधिगच्छन्त्यश्मन्वतीरिति' (का० २१।४।२१)। गर्तान्मृदमानीय पूर्ववर्जदिग्भ्यः कृष्ट्वा वा मृदमानीय तत् श्मशानं विप्रस्य मुखमितं क्षत्रस्योरोमितं वैश्यस्योरुमितं स्त्रिया भगमितं शूद्रस्य जानुमितं सर्वेषां वा जानुमितं मृदा कृत्वा शैवलैः कुशैश्च प्रच्छाद्य तद्दक्षिणतो गर्तौ खात्वा क्षीरोदकाभ्यां संपूर्य श्मशानोत्तरे सप्त गर्तान्खात्वा दक्षिणोत्तरान् जलेन संपूर्योत्तरगर्तेषु अध्वर्युयजमानामात्यांस्त्रीन्पाषाणान्प्रक्षिप्याश्मन्वतीरिति मन्त्रेण तद्गर्तोपरि गच्छन्ति । विश्वदेवदेवत्या त्रिष्टुप् सुचीकदृष्टा । हे सखायः मित्राणि, एषा अश्मन्वती पाषाणवती नदी रीयते गच्छति । 'री गतौ' दिवादिः आत्मनेपदी । अतो यूयं संरभध्वमुत्तरणाय प्रयतध्वम् । उत्तिष्ठत अभिमुखा भवत । प्रतरत प्रकर्षेण तां नदी तरत । किमिति । यतोऽत्र प्रदेशे ये अशिवाः अशान्ता दुष्टा राक्षसादयः असन् स्युः तान् वयं जहीमः परित्यजामः । तेषु त्यक्तेषु शिवान्सुखकरान् वाजानन्नविशेषान् वयमुत्तरेम प्राप्नुयाम ॥ १० ॥

एकादशी।
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रप॑: । अपा॑मार्ग॒ त्वम॒स्मदप॑ दु॒:ष्वप्न्य॑ᳪ सुव ।। ११ ।।
उ० अपामार्गेणापमृजति । अपाघम् अनुष्टुप् । हे अपामार्ग, त्वम् अस्मत् अस्मत्तः । अपसुव अपगमय अघं पापं मानसम् । अपगमय च किल्बिषं कीर्तिभेदकं पापमेव कायिकम् । अपगमय च कृत्याम् अभिचारम् । अपगमय च रपः । रपो रिप्रमिति पापनामनी भवतः । वाचिकं पापम् । अपगमय च दुःस्वप्न्यं दुःस्वप्ने भवं फलं दुःस्वप्न्यम् ॥ ११ ॥
म० 'अपाघमित्यपामार्गैरपमृजत इति' (का० २१ । ४ २२) । ते अमात्या यज्ञोपवीतिनो भूत्वाप उपस्पृश्य हस्तगृहीतैरपामार्गैः स्वशरीरं शोधयन्ते अपामार्गबीजैरुद्वर्तयन्तीति केचित् । लिङ्गोक्तदेवतानुष्टुप् शुनःशेपदृष्टा दुःस्वप्ननाशनी । हे अपामार्ग, त्वमस्मत् अस्मत्तः सकाशादघं मानसं पापमपसुव | 'षू प्रेरणे' अपगमयेत्यर्थः । किल्बिषं कीर्तिभेदकं कायिकं च पापमपसुव । कृत्यां परकृतमभिचारमपसुव । अप उ रपः 'रपो रिप्रमिति पापनामनी भवतः' (निरु. ४ । २१) इति यास्कः । रपः पापं वाचिकं च अपसुव उ चार्थे । दुःस्वप्न्यम् | दुष्टः स्वप्नो दुःस्वप्नः तत्र भवं दुःस्वप्नोत्थमसुखरूपं फलं चास्मत्तोऽपसुव ॥ ११॥