पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'अनुरज्जु चतस्रः सीताः कृषति वायुः पुनात्विति प्रतिमन्त्रमुत्तरतः प्रतीचीं प्रथमामिति' (का० २११४।१-२)। अध्वर्युः परितो वेष्टितां रजुमनुलक्षीकृत्य वायुः पुनात्विति प्रतिमन्त्रं पादेन पादेन चतस्रः सीताः अप्रदक्षिणं कृषति । तत्र प्रथमां सीतामुत्तरपार्श्वे प्रतीचीं कृषति । दक्षिणतः सीरयोजनपक्षेऽपि तत्सीरमप्रदक्षिणमुत्तरत आनीय प्रथममुत्तरत एव कृषति । तदपसलवि पर्याहृत्योत्तरतः प्रतीचीं प्रथमाᳪ सीतां कृषति वायुः पुनात्विति सविता पुनात्विति जघनार्धन दक्षिणामग्नेर्भ्राजसेति दक्षिणार्धेन प्राचीᳪ, सूर्यस्य वर्चसेत्यग्रेणोदीचीं' (१३ । ८ । २ । ६) इति श्रुतेः । चत्वारि यजूंषि लिङ्गोक्तदेवतानि । हे पृथिवि, वायुः त्वां पुनातु विदारयतु । सूर्यः त्वां पुनातु अग्नेर्भ्राजसा दीप्त्या सूर्यस्य वर्चसा तेजसा च त्वां विदारयतु। 'अनडुहो विमुच्य विमुच्यन्तामिति' (का० २१।४।४) एवं पूर्वोक्तचतुर्मन्त्रैः पार्श्वचतुष्के कर्षणं कृत्वा मध्येऽपि सर्वं क्षेत्रं यथा कृष्टं भवति तथा परिमिताः सीताः कृत्वा वृषभान्सीराद्विमुञ्चति । यजुः वृषदैवतम् । उस्रा धेनुः तदपत्यानि उस्रियाः अनड्वाहो विमुच्यन्तां सीराद्वियुज्यन्ताम् ॥ ३ ॥

चतुर्थी ।
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ।। ४ ।।
उ० अश्वत्थे व इति व्याख्यातम् ॥ ४ ॥
म० 'दक्षिणा सीरं निरस्याश्वत्थे व इति सर्वौषधं वपतीति' (का. २१ । ४ । ४) हलं दक्षिणदिशि तूष्णीं प्रक्षिप्य कृष्टक्षेत्रमध्ये सर्वोषधं वपति । अनुष्टुप् व्याख्याता (अ० १२ । क० ७९) ॥ ४ ॥

पञ्चमी।
स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ आ व॑पतु । तस्मै॑ पृथिवि॒ शं भ॑व ।। ५ ।।
उ० शरीराणि निवपति । सविता ते । गायत्री । सविता ते तव शरीराणि अस्थीनि । मातुः पृथिव्याः उपस्थे उत्सङ्गे आवपतु स्थापयतु । तस्मै अस्थिरूपाय यजमानाय सवित्रा उप्ताय हे पृथिवि, शं भव सुखरूपा भव ॥ ५॥
म० 'सविता त इति शरीराणि निवपति मध्ये इति' (का० २१ । ४ । ५) । तस्य पुरुषमात्रस्य क्षेत्रस्य मध्ये शरीराणि मृतस्यास्थीनि राशीकरोति । एतच्च सूर्योदयकालं कर्तव्यम् 'यथा कुर्वतोऽभ्युदियात्' (१३ । ८।३।२) इति श्रुतेः । गायत्री सवितृदेवत्या । हे यजमान, सविता सूर्यः ते तव शरीराणि अस्थीनि मातुः पृथिव्याः उपस्थे उत्सङ्गे आवपतु स्थापयतु । हे पृथिवि भूमे, तस्मै सवित्रोप्तायास्थिरूपाय यजमानाय शं भव सुखरूपा भव ॥ ५॥

षष्ठी।
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्यसौ । अप॑ न॒: शोशु॑चद॒घम् ।। ६ ।।
उ० प्रजापतौ त्वा । यजुः कण्डिकाः । प्रजापतौ त्वाम् देवताया उपोदके उप समीपे उदकं यस्य स तथोक्तः । लोके स्थाने निदधामि । असाविति नामग्रहणम् । अनुदात्तत्वादामन्त्रितम् । तद्यथा हे देवदत्त, अप नः शोशुचदघम् । अपेत्य नः अस्मान् अत्यर्थं दहतु पापम् द्वेष्टॄन् । यद्वा प्रजापतिः अपशोशुचत् अत्यर्थं दहतु । नोऽस्माकमघं पापम् ॥ ६ ॥
म० उष्णिक् प्रजापतिदेवत्या अस्थिनिवापे एव निवियुक्ता । असाविति नामग्रहणमनुदात्तत्वादामन्त्रितम् । हे देवदत्त, उपोदके उदकसमीपवर्तिनि लोके स्थाने प्रजापतौ देवतायां त्वां निदधामि स्थापयामि । स प्रजापतिर्नोऽस्माकमघं पापं शोशुचत् अत्यर्थं दहतु । 'शुच शोके' यड्लुगन्तं रूपम् ॥ ६॥

सप्तमी।
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जाᳪ री॑रिषो॒ मोत वी॒रान् ।। ७ ।।
उ० प्रत्यागते जपति । परं मृत्यो त्रिष्टुप् मृत्युदेवत्या । हे मृत्यो, परं पन्थानमाश्रित्य । अनु परा इहि पराङ्मुखो भूत्वा आगच्छ । तं शब्देन दर्शयति । योऽसौ ते तव स्वभूतः अन्यः इतरः देवयानात् पितृयानाख्यः। अपिच चक्षुष्मते शृण्वते ते ब्रवीमि । षष्ठ्यर्थे चतुर्थी । चक्षुष्मतः शृण्वतः तव ब्रवीमि । अतिशयार्थं वचनम् । नहि तस्यादृष्टमश्रुतं चास्ति । मा च नः अस्माकं प्रजां रीरिषः हिंसीथाः । मोत वीरान् पुत्रान् ॥ ७ ॥
म०. 'प्रत्यागते परं मृत्यविति जपतीति' (का० २१ । ४।७)। दक्षिणां गत्वानुच्छ्वसन् कुम्भं प्रक्षिप्यैहीति कश्चिद्विप्रः प्रेषितोऽस्ति तस्मिन् कुम्भं क्षिप्ता प्रत्यागते सति यजमानोऽध्वयुर्वा जपति । मृत्युदेवत्या त्रिष्टुप् संकसुकदृष्टा । मृत्यो, परा पराङ्मुखो भूत्वा परमन्यं पन्थां पन्थानं मार्गमन्विहि अनुगच्छ । तमेव दर्शयति । यस्ते तव त्वदीयः पन्था देवयानात् पथः इतरः तुच्छः अन्यः पितृयानाख्यः देवा यान्ति यस्मिन् स देवयानः । किंच चक्षुष्मते ज्ञानिने शृण्वते च ते तुभ्यं मृत्यो, किंचिद् ब्रवीमि वदामि । आदरार्थं वचनम् । नहि तस्यादृष्टमश्रुतं वास्ति । षष्ठ्यर्थे चतुर्थ्यौ । चक्षुष्मतः शृण्वतस्तव वदामि । किम् । हे मृत्यो, नोऽस्माकं प्रजां सन्ततिं वंशपरम्परां मा रीरिषः मा हिंसीः । 'रिष वधे' स्वार्थे णिजन्तस्य लुङि रूपम् । उत अपिच वीरान्पुत्रान् मा हिंसीः ॥ ७ ॥