पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न्त्रानुक्त्वा चतुस्त्रिंशेऽध्याये तानेव समाप्येदानीं पञ्चत्रिंशेऽध्याये पितृमेधसंबन्धिनो मन्त्रा उच्यन्ते । स च पितृमेधो मृतस्य वर्षास्मरणे भवति । वर्षस्मृतौ तु विषमवर्षेषु भवति एकतारकनक्षत्रे चित्रादौ दर्शे वा ग्रीष्मे शरदि माघे भवति । पितृमेधं करिष्यता द्विजेन कुम्भेऽस्थिसंचयः कार्यः। मृतस्य च यावन्तोऽमात्यपुत्रपौत्रास्तावन्तः कुम्भाः कर्मदिने आनेयाः कुम्भेभ्योऽधिकानि छत्राणि च । ततोऽरण्ये कुम्भे कृतमस्थिसंचयनं ग्रामसमीपे समानीय शय्यायां कुम्भं संस्थाप्याहतवस्त्रैकदेशेन संवेष्ट्य मोहमयवादित्रेषु वाद्यमानेषु वीणायां च वाद्यमानायां मृतस्य पुत्रपौत्रा उत्तरीयैर्व्यजनैश्चास्थिकुम्भं वीजयन्तस्त्रिस्त्रिः प्रदक्षिणं परियन्ति । स्त्रियोऽपीति केचित् । रात्रेः पूर्वमध्यापरभागेषु तद्दिने बह्वन्नदानं कुर्वन्ति नृत्यगीतवादित्राणि च कारयन्ति अस्थिकुम्भायान्नमुपहरन्ति च । तत उपप्रातरस्थिकुम्भसहिताः पूर्वोक्तान्कुम्भाञ्छत्राणि चादाय ग्रामाद्दक्षिणस्यां बहिर्गच्छन्त्यध्वर्युयजमानामात्याः । श्मशानान्तं कर्म कुर्वतो यथा रविरुदयेत्तथा रात्रावारब्धव्यम् । तत्र वने गत्वा ग्रामान्मार्गादश्वत्थतिल्वकहरिद्रुस्फूर्जकविभीतकश्लेष्मातककोविदारादिभ्यश्च दूरे अन्यवृक्षगुल्मादिवृते ऊषरे वोदकप्रवणे दक्षिणप्रवणे समे वा सुखकारिणि रम्ये वनादुदकाद्वा पूर्वभागे उत्तरभागे वा वर्तमाने गर्तवति वीरणतृणवति प्रदेशे श्मशानार्थं दिक्कोणं पुरुषप्रमाणं क्षेत्रं मिमीते । पैतृक्यां द्विपुरुषं समचतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिरिति ( यजुःपरिशिष्ट० ७॥२) शुल्बोक्तविधिना तच्चतुरस्रमुत्तरतः पश्चाच्च पृथु भवति । तत्र साधनप्रकारः पूर्वदक्षिणपार्श्वयोर्नवाङ्गुलानि स्वत्रयोदशांशेनाङ्गुलचतुर्थभागसहितानि पुरुषप्रमाणमध्ये न्यूनानि कार्याणि पश्चिमोत्तरपार्श्वयोस्तावन्ति पुरुषप्रमाणादधिकानि । तथाहि पुरुषमात्रक्षेत्रस्याक्ष्णया प्राचीं कृत्वा तत्प्रान्तयोः शङ्कुं निखाय सार्धाष्टादशाङ्गुलहीनां पुरुषद्वयप्रमाणामुभयतःपाशां रज्जुं मध्यमदेशे सलक्षणां कृत्वा पूर्वापरयोः शङ्कोस्तस्याः पाशौ प्रतिमुच्य मध्यलक्षणेन दक्षिणत आयम्य दक्षिणः कोणः साधनीयः । ततः सार्धाष्टादशाङ्गुलाधिकां पुरुषद्वयप्रमाणां रज्जुमुभयतःपाशां मध्यलक्षणयुतां कृत्वा शङ्कोः पाशौ प्रतिमुच्य मध्यलक्षणेनोत्तरत आयम्योत्तरकोणः साध्य इति । ततः पूर्वादिकोणेषु पालाशशमीवारणाश्ममयाश्चत्वारः शङ्कवो निखेयाः । एतत्कुर्वतां निकटे कश्चिद्यजमानपुरुषस्तृणपूलकमुच्छ्रित्य धारयेत् । कर्मसमाप्तौ गृहमागत्य तं गृहेषुच्छ्रयेत प्रजावृद्ध्यै इत्यादि बोध्यम् । कात्यायनः 'अपसलवि सृष्ट्या रज्वा परितत्याऽपेतो यन्त्विति पलाशशाखया व्युदूहति' (२१।३ । ३२ ) इति । अपसलवि अप्रादक्षिण्येन निष्पादितया रज्ज्वा तत्क्षेत्रं समन्तादप्रदक्षिणं संवेष्ठ्यापेतो यन्त्विति मन्त्रेण क्षेत्रमध्यपतितं तृणपर्णादिकं पलाशशाखया कृत्वा क्षेत्राद्बहिर्निष्कासयतीति सूत्रार्थः ॥ अस्याघ्यायस्य पितरो देवताः आदित्या ऋषयो देवा वा । आद्या गायत्री । पणन्ति परद्रव्यैर्व्यवहरन्तीति पणयोऽसुराः इतोऽपयन्तु अपगच्छन्तु 'व्यवहिताश्च' (पा. १।४। ८२) इत्युपसर्गस्य यन्त्विति क्रियापदेन व्यवधानम् । किंभूताः पणयः । असुम्नाः सुम्नमिति सुखनाम । नास्ति सुम्नं येभ्यस्ते असुखकराः। तथा देवपीयवः । पीयतिर्हिंसाकर्मा । देवान्पीयन्ति हिंसन्ति ते देवपीयवः देवद्विषः । किमित्यसुराणामपगमोऽर्थ्यते तत्राह । अस्य लोकः अस्य यजमानस्यास्थिभूतस्यायं लोकः स्थानम् । किंभूतस्यास्य । सुतवतः सोमाभिषवं कृतवतः सुषावेति सुतवान् तस्य 'षुञ् अभिषवे' क्तवतुप्रत्ययान्तः 'अश्वरश्मिमतिसु. मती' (३।६ । २) इत्यादिना प्रातिशाख्यसूत्रेण संहितायां सुतशब्दस्याकारे दीर्घः । द्युभिरहोभिरिति यजुः । यमोऽस्मै । यजमानायावसानं ददातु । अवस्यन्त्यस्मिन्नित्यवसानं स्थानम् । किंभूतं । द्युभिर्ऋतुभिः अहोभिः दिवसैः अक्तुभिः रात्रिभिश्च व्यक्तं स्पष्टीकृतम् । द्युशब्देन श्रुतौ ऋतव उक्ताः 'तदेनमृतुभिश्चाहोरात्रैश्च सलोकं करोति' ( १३ । ८ । २ । ३) इति श्रुतेः । क्रत्वाद्यधिष्ठातृदेवताभिः प्रकटितमस्मै यमो ददात्वित्यर्थः ॥ १॥

द्वितीया। ।
स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्याँल्लो॒कमि॑च्छतु । तस्मै॑ युज्यन्तामु॒स्रिया॑: ।। २ ।।
उ० जपति । सविता ते गायत्री। सविता ते तव शरीरेभ्यः शरीराणामिति विभक्तिव्यत्ययः । पृथिव्यां लोकं स्थानं इच्छतु । नहि सवित्राऽननुज्ञातेनावस्थातुं शक्यते । द्वितीयं वाक्यम् । तस्मै क्षेत्राय शरीराय संस्कारार्थं युज्यन्तां शरीरे उस्रियाः अनड्वाहः ॥ २॥
म० 'औदुम्बरसीर उत्तरतो वा षङ्गवे युज्यमाने युङ्क्तेति संप्रेष्य सविता त इति जपति' ( का० २१।३ । ३४ ) इति । | ततोऽध्वर्युस्तां पलाशशाखां दक्षिणस्यां निरस्य परिश्रिद्भिर्वेष्टयित्वा तत्क्षेत्रस्य दक्षिणत उत्तरतो वा षड्भिरनडुद्भिः सीरं युनक्ति । तस्मिन् युज्यमाने युङ्क्तेति संप्रेष्य सवितेति मन्त्रं जपति । गायत्री । हे यजमान, सविता सूर्यः ते तव शरीरेभ्यः शरीराणां विभक्तिव्यत्ययः । पृथिव्यां लोकं स्थानमिच्छतु सवित्रनुज्ञां विना न केनापि स्थातुं शक्यते । द्वितीयं वाक्यमाह तस्मै इति । तस्मै सवित्रा दत्ताय क्षेत्राय संस्कारार्थम् उस्रियाः , अनड्वाहो युज्यन्तां युक्ता भवन्तु ॥ २ ॥

तृतीया।
वा॒युः पु॑नातु स॑वि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । वि मु॑च्यन्तामु॒स्रिया॑: ।। ३ ।।
उ०. वायुः पुनातु । चतस्रः सीताः कर्षति चतुर्भिर्यजुर्भिः । वायुः पुनातु विदारयतु । सविता पुनातु विदारयतु । अग्नेर्भ्राजसा दीप्त्या विदारयतु । सूर्यस्य वर्चसा भ्राजिष्णुतया विदारयतु । विमुञ्चत्यनडुहः । विमुच्यन्तामुस्रियाः विमुच्यन्तां शरीरात् उस्रियाः अनड्वाहः ॥३॥