पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न्तमागच्छन्तम् उपप्रयन्तु उपसंगम्य आगच्छन्तु । मरुतः सुदानवः कल्याणदानाः । त्वं च हे इन्द्र, प्राशूः प्रकर्षेण शीघ्रो भव । सचा सहगमनाय ॥ ५६ ॥
म० तृचो ब्रह्मणस्पतिदैवतः । द्वे बृहत्यौ तृतीया त्रिष्टुप् । हे ब्रह्मणो देवस्य पते पालक, उत्तिष्ठ ऊर्ध्वः आरब्धकार्यो भव । यतो वयं देवयन्तो देवान्कामयमानाः त्वा त्वामीमहे याचामहे आगच्छेति । मरुतः भवन्तमागच्छन्तमुप समीपे प्रयन्तु आगच्छन्तु । किंभूताः मरुतः । सुदानवः शोभनं ददति ते सुदानवः । हे इन्द्र, त्वमपि सचा सह गमनाय प्राशूः प्रकर्षेण शीघ्रो भव । देवान्कामयन्ते देवयन्ति ततः शतृप्रत्ययः 'सुप आत्मनः क्यच्' (पा० ३ । १।८) 'न छन्दस्यपुत्रस्य' (पा. ७ । ४ । ३५ ) इति निषेधात् 'क्यचि च' इतीत्वाभावः (पा० ७ । ४ । ३३ ) 'अश्वाघस्यात्' (पा० ७ । ४ । ३७ ) इत्यश्वाघयोरेवाकारविधानात् 'अकृत्सार्वधातुकयोः' (पा. ७ । ४ । २५) इति दीर्घोऽपि न स्यात् । ईमहे याचतिकर्मसु पठितः 'ई गतौ' दिवादित्वादागतस्य श्यनश्छान्दसो लोपः । सुदानवः 'दाभाभ्यां नुः' ( उणा० ३ । ३२ ) प्राशूः आशुशब्दे दीर्घश्छान्दसः । भवा संहितायां 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति दीर्घः ॥५६॥

सप्तपञ्चाशी।
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॒म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओका॑ᳪसि चक्रि॒रे ।। ५७ ।।
उ० प्र नूनम् नूनमिति पादपूरणः । प्रवदति प्रोच्चारयति ब्रह्मणस्पतिः मन्त्रं उक्थ्यम् । उक्थ्यमिति शस्त्रमुच्यते तत्र सन्नमन्मन्त्र उक्थ्यः । कथंभूतोसौ मन्त्रः । यस्मिन् मन्त्रे इन्द्रश्च वरुणश्च अर्यमा च अन्ये देवाश्च ओकांसि । ओक इति निवासनाम । निवासानि चक्रिरे कृतवन्तः ॥ ५७ ॥
म० ब्रह्मणस्पतिः नूनं निश्चितमुक्थ्यं 'शस्त्रयोग्यं मन्त्रं प्रवदति प्रकर्षेणोच्चारयति । यस्मिन् मन्त्रे इन्द्रः वरुणः मित्रः अर्यमा अन्ये च देवाः ओकांसि निवासान् चक्रिरे कृतवन्तः । सर्वदेवाधारभूतं शस्त्रं पठनीयं मन्त्रवदित्यर्थः ॥ ५७ ॥

अष्टपञ्चाशी ।
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ।।
य इ॒मा विश्वा॑ वि॒श्वक॑र्मा॒ यो न॑: पि॒ता ऽन्न॑प॒तेऽन्न॑स्य नो देहि ।। ५८ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
उ० ब्रह्मणस्पते । हे ब्रह्मणस्पते, त्वम् अस्य जगतः यन्ता । एवंचेत् विज्ञापयामि । सूक्तस्य साधुवचनस्य बोधि बुध्यस्व अवगतार्थो भव । तनयं च अपत्यानि च जिन्व । जिन्वति प्रीतिकर्मा । प्रीणीहि विश्वं च तत् भद्रं भन्दनीयम् अस्माकम् अस्तु । यत् अवन्ति पालयन्ति देवाः त्वत्प्रसादात् । बृहत् महत् ऊर्जितम् । वदेम दीयतां भुज्यतामिति । विदथे यज्ञे । सुवीराः कल्याणपुत्राः सन्तः । अथ चतस्रः प्रतीकोक्ताः । इमा विश्वा भुवनानि जुह्वत् । विश्वकर्मा विमना । यो नः पिता । अन्नपतेऽन्नस्य नो देहीति ॥ ५८ ॥
इति उवटकृतौ मन्त्रभाष्ये चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥
म०. हे ब्रह्मणस्पते, त्वं यतोऽस्य जगतो यन्ता नियन्ता अतः प्रार्थ्यते । सूक्तस्यास्मदुक्तस्य साधुवचनस्य । कर्मणि षष्ठी। सूक्तम् बोधि बुध्यस्व । अस्मदुक्ता स्तुतिर्भवता ज्ञायतामित्यर्थः । तनयं च अस्मदपत्यानि जिन्व प्रीणीहि । जिन्वतिः प्रीतिकर्मा । देवा यत् भद्रं कल्याणमवन्ति पालयन्ति तत् विश्वं सर्वं भद्रमस्माकमस्त्विति शेषः । किंच सुवीराः कल्याणपुत्राः सन्तो वयं विदथे यज्ञे बृहत् महत् वदेम दीयतां भुज्यतामित्यादि उच्चारयेम । अथ चतस्रः कण्डिकाः प्रतीकोक्ताः य इमा विश्वा भुवनानि जुह्वत् ( १७ । १७ ) विश्वकर्मा विमनाः ( १७ । २६ ) यो नः पिता ( १७ । २७)
अन्नपतेऽनस्य नो देहि ( ११ । ८३ ) इति । ता ब्रह्मयज्ञेऽध्येयाः॥५८ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
चतुस्त्रिंशोऽयमध्यायो ब्रह्मयज्ञार्थकोऽगमत् ॥ ३४ ॥


पञ्चत्रिंशोऽध्यायः।
तत्र प्रथमा।
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यव॑: । अ॒स्य लो॒कः सु॒ताव॑तः ।
द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॒क्तं य॒मो द॑दात्वव॒सान॑मस्मै ।। १ ।।
उ० अपेतो यन्तु । पित्र्योऽध्यायः । आदित्यस्यार्षं देवानां वा । गायत्रीव पलाशशाखया व्यूहति । अपेतो यन्तु पणयः । अपयन्तु इतः स्थानात् पणयः असुराः असुम्नाश्च असुखकराः । देवपीयवश्व । पीयतिर्हिंसाकर्मा । देवानां हिंसितारः देवद्विषः । किमिति अस्य यजमानस्य लोकः । स्थानमत्र सुतावतः सोमाभिषवं कृतवतः। परं यजुः। द्युभिरहोभिरक्तुभिः । द्युशब्देन श्रुतौ ऋतव उक्ताः । ऋतुभिः अहोभिः अक्तुभिः रात्रिभिः व्यक्तं स्पष्टीकृतम् । यमः ददातु अवसानम् अवस्यत्यस्मिन्नित्यवसानम् । अस्मै यजमानाय ॥१॥
म० त्रयस्त्रिंशेऽध्याये सर्वमेधसंबन्धिनः कियतो मन्त्रानुक्त्वा प्रवायुमच्छेत्यारभ्य ( ३३ । ५५) अनारभ्याधीतान्म