पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृजनं बलं च वयं विद्याम लभेमहि । किंभूतमिषं वृजनं च । जीरदानुं जीवयतीति जीरदानुस्तम् । जीवेरौणादिको रदानुप्रत्ययः 'लोपो व्योर्वलि' ( पा० ६ । १ । ६६) इति वलोपः। जीवितदातृ बलमन्नं च वयं प्राप्नुयामेति प्रार्थना ॥ ४८ ॥

एकोनपञ्चाशी।
स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः ।
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन् ।। ४९ ।।
उ० सहस्तोमाः । ऋषिसृष्टिप्रतिपादिका त्रिष्टुप् । सहस्तोमाः स्तोमसहिताः । सहछन्दसः छन्दःसहिताः आवृतः । आवृच्छब्देन कर्माभिधीयते । श्रद्धासत्यप्रधानानां कर्मणामनुष्ठातारः । सहप्रमाः प्रमाणं प्रमा । शब्दप्रमाणपरीक्षणतत्पराः ऋषयः सप्त । सप्तऋषय इति प्राप्ते व्यत्ययः । भरद्वाजकश्यपगौतमात्रिविश्वामित्रजमदग्निवसिष्ठाः । दैव्याः प्रजापतेः प्राणाभिमानिनः एते अभिव्यज्यमानाः । पूर्वेषां अधस्तनकल्पोत्पन्नानां अवसिताधिकाराणाम् । पन्थां पन्थानम् । अनुदृश्य अवलोक्य । धीराः अन्वालेभिरे अन्वालभन्तः सृष्टवन्तः सृष्टियज्ञम् । कथमिव । रथ्यो न रश्मीन् रथे साधुः रथ्यः सारथिः । नकार उपमार्थीयः । यथा सारथिरिष्टदेशप्राप्त्यर्थं प्रथममश्वरश्मीनालभते स्पृशति एवं तेऽपि सृष्टियज्ञं सृष्टवन्तः ॥ ४९ ॥
म० ऋषिसृष्टिप्रतिपादिका त्रिष्टुप् । दैव्याः सप्त ऋषयः देवस्य प्रजापतेः इमे दैव्याः प्रजापतिप्राणाभिमानिनः सप्त ऋषयः भरद्वाजकश्यपगोतमात्रिवसिष्ठविश्वामित्रजमदग्निसंज्ञाः । अन्वालेभिरे सृष्टवन्तः । सृष्टियज्ञमिति शेषः । किं कृत्वा । पूर्वेषां पन्थां पन्थानमनुदृश्य अधस्तनकल्पोत्पन्नानामवसिताधिकाराणां मार्गं विलोक्य पूर्वकल्पोत्पन्नैर्ऋषिभिर्यथा सृष्टं तथा सृष्टवन्त इत्यर्थः । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्' इत्युक्तेः । कथमिव । रथ्यो न रश्मीन् । नकार उपमार्थः। रथे साधुः रथ्यः रथी यथा इष्टदेशप्राप्त्यर्थं प्रथमं रश्मीन् प्रग्रहानालभते स्पृशति सृजति वा तथा तेऽपि सृष्टियज्ञं सृष्टवन्तः । किंभूता ऋषयः । सहस्तोमाः स्तोमसहिताः । सहच्छन्दसः छन्दोभिर्गायत्र्यादिभिः सहिताः । आवृतः अत्रापि सहशब्दाध्याहारः । आवृच्छब्देन कर्मोच्यते । सहावृतः कर्मसहिताः श्रद्धासत्यप्रधानानां कर्मणामनुष्ठातारः । सहप्रमाः प्रमाणं प्रमा तत्सहिताः शब्दप्रमाणपरीक्षणतत्पराः । धीराः धीमन्तः ॥ ४९ ॥

पञ्चाशी।
आ॒यु॒ष्यं॒ वर्च॒स्य॒ᳪ रा॒यस्पोष॒मौद्भि॑दम् । इ॒दᳪ हिर॑ण्यं॒ वर्च॑स्व॒ जैत्रा॒यावि॑शतादु॒ माम् ।। ५० ।।
उ० आयुष्यम् । तिस्रः हिरण्यस्तुतिः उष्णिक्शक्वरी त्रिष्टुभः । यदिदं हिरण्यम् । आयुष्यं आयुषे हितम् । वर्चस्यं वर्चसे हितम् । रायस्पोषं धनस्य वर्धयितृ । औद्भिदं उद्भेत्तृ धनस्य स्वर्गस्य वा । वर्चस्वत् अन्नसंयुक्तम् । तत् जैत्राय विजयाय । आविशतात् आविशतु । उः पादपूरणार्थः । मामप्यवस्थानं करोतु ॥ ५० ॥
म० तिस्रः उष्णिक्शक्वरीत्रिष्टुभः दक्षदृष्टाः । हिरण्यस्तुतिः । इदं हिरण्यं कनकं जैत्राय जयाय मामु मामेवाविशतात् आविशतु मयि तिष्ठतु । कीदृशम् । आयुष्यमायुषे हितम् । वर्चस्यं वर्चसे तेजसे हितम् । रायो धनस्य पोषं पोषयितृ वर्धकम् । औद्भिदम् उद्भिनत्तीति उद्भिद् उद्भिदेवौद्भिदमुद्भेत्तृ धनस्य स्वर्गस्य वा प्रकाशकम् । वर्चस्वत् अन्नसंयुक्तम् ॥ ५० ॥

एकपञ्चाशी।
न तद्रक्षा॑ᳪसि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोज॑: प्रथम॒जᳪ ह्ये॒तत् ।
यो बि॒भर्ति॑ दाक्षाय॒णᳪ हिर॑ण्य॒ᳪ स दे॒वेषु॑ कृणुते दी॒र्घमायु॒: स म॑नु॒ष्ये॒षु कृणुते दी॒र्घमायु॑: ।। ५१ ।।

उ० न तत् हिरण्यं रक्षांसि न च पिशाचाः तरन्ति हिंसन्ति । देवानां प्रथमजं ओजः हि एतत् । यतश्च देवानामोजः प्रथमजम् अतः यो बिभर्ति दाक्षायणं हिरण्यम् । दाक्षायणमित्यलंकारविशेषः । स देवेषु देवलोकेषु कुरुते दीर्घमायुः । चिरं देवलोके वसतीत्यर्थः । स मनुष्येषु कुरुते दीर्घमायुः । स च मानुष्यमायुरतिक्रम्य जीवतीत्यर्थः॥५१॥
म०. रक्षांसि पिशाचाश्च तत् हिरण्यं न तरन्ति न हिंसन्ति । हि यस्मात् एतत् हिरण्यं देवानां प्रथमजमोजः । प्रथमोत्पन्नं देवानां तेज एवेदम् । अतएव यो हिरण्यं दाक्षायणं बिभर्ति अलंकारत्वेन धारयति । दाक्षायणशब्दोऽलंकारार्थः । स वेदेषु देवलोकेषु दीर्घमायुः कृणुते कुरुते । देवलोके चिरं वसतीत्यर्थः । स च मनुष्येषु मनुष्यलोकेषु स्वमायुर्दीर्घं कृणुते मनुष्यायुरतिक्रम्य जीवति ॥ ५१ ॥

द्विपञ्चाशी।
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यᳪ श॒तानी॑काय सुमन॒स्यमा॑नाः ।
तन्म॒ आ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑म् ।। ५२ ।।
उ० यदाबध्नन् यत् हिरण्यम् आबध्नन् आबद्धवन्तः । दाक्षायणाः दक्षस्यापत्यानि बहूनि । नडादिपाठात्फक् । शतानीकाय राज्ञे शतं बहूनि अनीकानि सेना यस्य स तथोक्तस्तस्मै शतानीकाय । सुमनस्यमानाः शोभनेन मनसा ध्यायन्तः । तत् हिरण्यम् । मे । मयि आत्मनीति सम्यगुक्तिः । अहं आबध्नामि । शतशारदाय शतं शरदां जीवनाय । आयुष्मान् च जरदष्टिः जरामश्नुते व्याप्नोतीति जर