पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० जगती द्यावापृथिवीदेवत्या । द्यावापृथिवी द्यावापृथिव्यौ वरुणस्यादित्यस्य धर्मणा धारणेन धारणशक्त्या विष्कभिते स्तम्भिते । स्कभ्नोतिर्दृढीकरणार्थः । वरुणेन स्वशक्त्या दृढीकृते इत्यर्थः । किंभूते ते । घृतवती उदकवत्यौ । घृतमित्युदकनाम। भुवनानां भूतजातानामभिश्रिया अभिश्रियौ आश्रयणीये । कर्मणि क्विप् विभक्तराकारः । उर्वी उर्व्यौ विस्तीर्णे । पृथ्वी पृथ्व्यौ पृथुले । आयामविस्ताराभ्यां महत्त्वं विशेषणद्वयेनोक्तम् । मधुदुघे मधु उदकं तस्य दोग्ध्र्यौ । सुपेशसा सुरूपे । अजरे जरारहिते । भूरि रेतसा भूरि रेतो ययोस्ते भूरिरेतसी बहुरेतस्के । सर्वभूतानां हि रेतांसि ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥

षट्चत्वारिंशी।
ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ।। ४६ ।।
उ० ये नः। जगती लिङ्गोक्तदेवता । ये नः अस्माकम् । सपत्नाः शत्रवः । अप ते भवन्तु अपगतवीर्या निरुद्यमास्ते भवन्तु । ततः इन्द्राग्निभ्याम् अवबाधामहे अवनाशयामः ताञ्शत्रून् । किंच वसवः रुद्राः आदित्याश्च । उपरिस्पृशम् उपरिस्थितः स्पृशतीति उपरिस्पृक् आधिपत्येऽवस्थितः पादेन स्पृशतीति उपरिस्पृक् तं उपरिस्पृशम् मां उग्रं च । चेत्तारं ज्ञातारं च ज्ञेयस्य । अधिराजं अधिपतिमीश्वरं च । अक्रन् कृतवन्तः कुर्वन्तु वा ॥ ४६ ॥
म० जगती लिङ्गोक्तदेवता । ये नोऽस्माकं सपत्नाः शत्रवः ते अपभवन्तु अपगतवीर्या निरुद्यमा भवन्तु । पराभवं यान्वियेत्यर्थः । यतो वयं तान् सपत्नान् इन्द्राग्निभ्यां कृत्वा अवबाधामहे इन्द्राग्निबलेन नाशयामः । किंच वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादश एते मा मामेतादृशमक्रन् कुर्वन्तु । कीदृशम् । उपरिस्पृशम् उपरि स्पृशतीति उपरिस्पृक् तमुच्चस्थानस्थितम् । उग्रमुत्कृष्टम् । चेत्तारं ज्ञातारं ज्ञेयस्य । अधिराजम् अधिकश्चासौ राजा च अधिराजस्तम् अधिपतिमीश्वरं । कुर्वन्त्वित्यर्थः ॥ ४६॥

सप्तचत्वारिंशी।
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
प्रायु॒स्तारि॑ष्टं॒ नी रपा॑ᳪसि मृक्षत॒ᳪ सेध॑तं॒ द्वेषो॒ भव॑तᳪ सचा॒भुवा॑ ।। ४७ ।।
उ० आ नासत्या । आश्विनी जगती। आयातम् आगच्छतम् हे नासत्यावश्विनौ, त्रिभिरेकादशैः त्रयस्त्रिंशद्भिर्देवैः सहितौ भूत्वा । तदुक्तम् अष्टौ वसव इत्यादि। इह मधुपेयम् मधुः सोमः सोमपानं प्रति । एत्य च प्रायुस्तारिष्टं प्रतारिष्टं प्रवर्धयतम् आयुः। नी रपांसि मृक्षतम्। 'मृजूष् शुद्धौ'। रपः पापमुच्यते । निर्मृक्षतं निःशोधयतं नाशयतम् । रपांसि पापानि । सेधतं द्वेषः । 'षिधु गत्याम्' । गमयतं दौर्भाग्यम् । भवतं च सचाभुवा सहभुवौ सर्वकार्येषु संयुक्तौ ॥ ४७ ॥
म० जगती अश्विदेवत्या । हे नासत्या नासत्यौ, हे अश्विनौ त्रिभिः एकादशैः त्रिगुणैरेकादशभिः त्रयस्त्रिंशत्संख्याकैः देवेभिः देवैः इह स्थाने मधुपेयं सोमपानं प्रति आयातमागच्छतम् । मधुः सोमस्तस्य पेयं पानम् । किंच आयुः प्रतारिष्टम् । तरतिर्वृद्ध्यर्थः प्रवर्धयतम् । रपांसि पापानि निर्मृक्षतं निःशेषं शोधयतम् । नाशयतमित्यर्थः । द्वेषः दौर्भाग्यं सेधतं । 'षिधु गत्याम्' गमयतं नाशयतम् । सचाभुवा भवतम् । सचा इत्यव्ययं सहार्थे । सचा सह भवतस्तौ सचाभुवौ । क्विप् । कार्येषु संयुक्तौ भवतम् । अष्टौ वसव इत्यादिना त्रयत्रिंशद्देवा गणिताः । तारिष्टम् तरतेर्लुङि मध्यमद्विवचनम् 'बहुलं छन्दस्यमाङयोगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । मृक्षतम् ‘मृजूष् शुद्धौ' 'लेटोऽडाटौ' 'सिब्बहुलं लेटि' | (पा० ३ । १ । ३४ ) इति सिप् 'तस्थस्थमिपाम्-'(पा० | ३ । ४ । १०१) इति व्यत्ययेन थसः तमादेशः ॥ ४७ ॥

अष्टचत्वारिंशी।
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॒ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ।। ४८ ।।
उ० एष वः मारुती त्रिष्टुप् । हे मरुतः, एष स्तोमः वः युष्माकम् इयं च गौः सत्या च । मम मान्दार्यस्य ऋषेः समेति स्वस्वामिसंबन्धं दृणातीति मान्दार्यः । यद्वा मां दारयति मां द्यतीत्येवं यः सपत्नानां प्रत्ययमादधाति स मान्दार्यः तस्य मम च मान्यस्य मानार्हस्य । कारोः कर्तुः तं स्तोमं तां च गिरम् उपश्रुत्य । एषायासीष्ट आ इषा यासीष्ट अयासीष्ट अयासीरन् इति वचनव्यत्ययः। आगच्छत । इषा अन्नेन निमित्तभूतेनाहूयमाना । तन्वे वयां सशरीरस्थित्यर्थं वयोदृढंकर्तुम् आयासीष्ट । किंच विद्यां लभेमहि । इषमन्नम् वृजनं बलं च जीरदानुं जीवितदातृकर्म च ॥ १८ ॥
म० मारुती त्रिष्टुप् । हे मरुतः, कारोः कर्तुर्यजमानस्य एषः स्तोमः इयं च गीः सत्या च प्रिया च वो युष्मभ्यं । युष्मदर्थं वर्तत इति शेषः । किंभूतस्य कारोः । मान्दार्यस्य मां ममेति स्वस्वामिसंबन्धं दारयतीति मान्दार्यः तस्य । वीतरागस्येत्यर्थः । यद्वा मां दारयतीत्येवं यः शत्रूणां प्रत्ययमादधाति स मान्दार्यः । यद्वा मन्दारः कल्पवृक्षः तत्तुल्यो मान्दार्यः तस्य अथ कामपूरस्येत्यर्थः । मान्यस्य मानार्हस्य । किंच हे मरुतः, यूयमिषा अन्नेन निमित्तेन अयासीष्ट आगच्छत । किमर्थम् । वयां वयसाम् । आमि टिलोप आर्षः । बाल्ययौवनस्थाविराणां वयसां संबन्धिन्यै तन्वे शरीराय । सर्वदा शरीरस्थित्यर्थमित्यर्थः । अस्मच्छरीरं दृढीकर्तुमिति भावः । किंच इषमन्नं