पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्यायजलं दुहानाः क्षरन्त्यः विश्वतः सर्वतः प्रपीताः धर्मार्थकामैराप्यायिताः । प्यायः पी आदेशः । एवं परोक्षं प्रार्थ्य प्रत्यक्षमाह । हे उषसः, यूयं स्वस्तिभिः अविनाशैः सदा नोऽस्मान् पात पालयत ॥ ४० ॥

एकचत्वारिंशी
पूष॒न् तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि ।। ४१ ।।
उ० पूषन् तव । द्वे पौष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन् , तव व्रते कर्मणि वर्तमाना वयम् न रिष्येम न विनश्येम कदाचन कदाचिदपि । अन्यच्च स्तोतारोऽपि । ते तव इह स्मसि स्म । 'इदन्तो मसि' इतीकार उपजनः ॥ ४१ ॥
म० द्वे पोष्ण्यौ गायत्रीत्रिष्टुभौ । हे पूषन् , तव व्रते कर्मणि वर्तमाना वयं कदाचन कदापि न रिष्येम न विनश्येम । किंच इह कर्मणि ते तव स्तोतारः स्तुतिकर्तारः स्मसि भवामः । इदन्तो मसि ॥४१॥

द्विचत्वारिंशी
प॒थस्प॑थ॒: परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॒नड॒र्कम् ।
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑ – धियᳪ सीषधाति॒ प्र पू॒षा ।। ४२ ।।
उ० पथस्पथः । यः पथस्पथः मार्गस्य परिपतिम् । अधिपतिमित्युपसर्गव्यत्ययः। वचस्या वचनेन वेदोक्तेन अभिमुखीकृतः । कामेन इच्छया च अभिमुखीकृतः । अभ्यानट् । आनशिर्व्याप्तिकर्मा । अभिव्याप्नोति । अर्कम् । सः नः अस्मभ्यम् रासत् ददातु । शुरुधः । पूर्वपदान्तलोपः । शुचं संतापं साधनाभावकृतं यानि रुधन्ति साधनानि भवन्ति तानि तथोक्तानि विव्यच्य व्यत्ययेन । चन्द्राग्राः । तान्येव विशिष्यन्ते । चायनीयाग्राणि । धियं धियं प्रसीषधाति । साधतिः कर्मवचनः प्रसाधयतु । पूषा ॥ ४२ ॥
म० यः पूषा अर्कं देवमभ्यानट् अभिव्याप्नोति । किंभूतः कामेन काम्यत इति कामं तेन वाञ्छितेन वचस्या वचसा वेदोक्तेन कृतः अभिमुखीकृतः । किंभूतमर्कम् । पथस्पथः मार्गस्य मार्गस्य सर्वेषां मार्गाणां परिपतिमधिपतिं स्वामिनम् ।। सः पूषा नोऽस्मभ्यं शुरुधः शुचं रुन्धन्ति वर्णनाशात् पृषोदरादित्वात् शोकनाशकराणि साधनानि रासत् ददातु । लिङ्गव्यत्ययः । किंभूताः शुरुधः । चन्द्राग्राः चन्द्रमाह्लादकमग्रं यासां ताः । साधने कृते आह्लादो भवति । पुनः पूषा धियं धियं कर्माणि सर्वाणि प्रसीषधाति प्रकर्षेण साधयतु । पथस्पथः धियं धियमिति 'नित्यवीप्सयोः' (पा० ८ । १। ४) इति द्वित्वम् । वचस्या विभक्तेर्यादेशः । आनट् व्याप्तिकर्मसु दशस्वयं पठितः । सीपधाति 'साध संसिद्धौ' शपः श्लुश्छान्दसः द्वित्वम् । 'लेटोऽडाटौ' 'तुजादीनां दीर्घोऽभ्यासस्य' उपधाह्रस्वश्छान्दसः ॥ ४२ ॥

त्रिचत्वारिंशी।
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ।। ४३ ।। ।
उ० त्रीणि पदा । वैष्णव्यौ गायव्यौ । द्वाभ्यामेकवाक्यम् । यः विष्णुः यज्ञः त्रीणि पदानि । विचक्रमे क्रान्तवान् अग्निवाय्वादित्याख्यानि । गोपाः गोपायिता समस्तस्य जगतः। अदाभ्यः अनुपहिंस्यः । अतः अस्मादेव पदत्रयात् धर्माणि । धर्मशब्द उभयलिङ्गः अर्धर्चादौ गणे पठितः । धर्मान् धारयन् । कर्मपर्यायो वा । अतः एभ्यः पदेभ्यः कर्माणि धारयन् ॥ ४३ ॥
म० वैष्णव्यौ गायत्र्यौ द्वयोर्ऋचोरेकवाक्यम् । यो विष्णुः यज्ञः त्रीणि पदा पदानि विचक्रमे विक्रान्तवान् अग्निवाय्वादित्याख्यानि पदानि व्याप्तवान् । किंभूतो विष्णुः । गोपाः जगतो रक्षकः । अदाभ्यः अहिंस्यः । किं कुर्वन् । अतः अस्मादेव पदत्रयात् धर्माणि पुण्यानि कर्माणि धारयन् । धर्ममस्त्रियाम् ॥ ४३ ॥

चतुश्चत्वारिंशी।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाᳪस॒: समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ।। ४४ ।।
उ० तद्विप्रासः तस्य विष्णोर्यज्ञस्य यत् परमं पदं ब्रह्मलक्षणम् । तत् । विप्रासः ब्राह्मणाः विपन्यवः मेधाविनः । जागृवांसः असुप्ताः अप्रमत्ताः । ज्ञानकर्मसमुच्चयकारिणः । समिन्धते संदीपयन्ति उपासनैर्निर्मलीकुर्वन्ति ॥ ४४ ॥
म० तस्य विष्णोः यज्ञस्य यत्परमं पदं ब्रह्मलक्षणम् तद्विप्रासः विप्राः ब्राह्मणाः समिन्धते । णिचो लोपः। समिन्धयन्ति दीपयन्ति । उपासते इत्यर्थः । किंभूताः विप्राः । विपन्यवः । विगतः पन्युः संसारव्यवहारो येभ्यः निष्कामाः । जागृवांसः जागरणशीलाः अप्रमत्ताः । ज्ञानकर्मसु समुच्चयकारिण इत्यर्थः ॥ ४४ ॥

पञ्चचत्वारिंशी।।
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ।। ४५ ।।
उ० घृतवती । द्यावापृथिवीया जगती । ये द्यावापृथिव्यौ घृतवत्यौ उदकवत्यौ । भुवनानामभिश्रिया भूतजातानामभ्याश्रयणीये । उर्वी विस्तीर्णे । पृथ्वी पृथुले । मधुदुघे मधु उदकं तस्य दोग्ध्र्यौ । सुपेशसा सुरूपे । ते वरुणस्यादित्यस्य धर्मणा धारणेन । विष्कम्भिते । स्कभ्नोतिर्दृढीकरणार्थः । दृढीकृते अजरे जरारहिते । भूरिरेतसा बहुरेतस्के । सर्वभूतानां हि रेतांसि ताभ्यामेवोत्पद्यन्ते ॥ ४५ ॥