पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ददत् नः देहि अस्मभ्यं धनम् । भग प्र नो जनय गोभिरश्वैः । हे भग, प्रजनय नः अस्मान् गोभिः अश्वैश्च । हे भग, नृभिः मनुष्यैः नृवन्तः स्याम भवेम ॥ ३६ ॥
म० हे भग, हे प्रणेतः प्रकर्षेण नयति प्रापयति धनमिति प्रणेता तस्य संबोधने हे प्रणेतः, आदरार्थं पुनः संबोधनम् । हे भग, हे सत्यराधः, सत्यमनश्वरं राधो धनं यस्य स सत्यराधाः तत्संबुद्धौ हे सत्यराधः हे भग, त्वं ददत् धनं प्रयच्छन्सन् नोऽस्माकमिमां धियं प्रज्ञां कर्म वा उदव उद्गमय । यथा सूक्ष्मार्थान्पश्यामस्तथा कुर्विति भावः । किंच हे भग, नोऽस्मान् गोभिः अश्वैः प्रजनय प्रवर्धय । गाः अश्वांश्च बहून् देहीत्यर्थः । हे भग, वयं नृभिः पुत्रादिभिः नृवन्तः मनुष्यवन्तः प्रकर्षेण स्याम भवेम ॥ ३६॥

सप्तत्रिंशी।
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वाना॑ᳪ सुम॒तौ स्या॑म ।। ३७ ।।
उ० उतेदानीम् । उत अपिच इदानीं भगवन्तः स्याम आदित्यप्रसादात् । उत अपिच प्रपित्वे प्राप्ते अस्तमनकाले भगवन्तः स्याम । उत अपिच मध्ये मध्यंदिने अह्नां भगवन्तः स्याम । उतोदिता उत अपिच उदिता उदयकाले हे मघवन् धनवन् , सूर्यस्य भगवतः प्रसादादेव वयम् देवानां सुमतौ कल्याण्यां मतौ स्याम भवेम ॥ ३७ ॥
म० हे मघवन् धनवन् रवे, उत अपिच वयमिदानीं भगवन्तो ज्ञानवन्तो वा स्याम भवेम । उतापिच सूर्यस्य प्रपित्वे प्रपतने अस्तमये भगवन्तः स्याम । उत अह्नां मध्ये मध्यंदिने भगवन्तः स्याम । उत सूर्यस्य उदिता उदितौ उदयसमये भगवन्तः स्याम । किं बहुना सर्वदास्माकं धनवत्तास्त्वित्यर्थः । किंच देवानां सुमतौ कल्याण्यां बुद्धौ वयं स्याम । देवा अस्मासु शोभनामनुग्रहविषयां बुद्धिं दधत्वित्यर्थः ॥ ३७॥

अष्टत्रिंशी ।
भग॑ ए॒व भग॑वाँ२ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह ।। ३८ ।।
उ० भग एव । हे देवाः, भगएव भगवान् धनवान् अस्तु किमन्यैर्देवताविशेषैर्धनयुक्तैरदातृभिरित्यभिप्रायः । तेन भगप्रदत्तेन धनेन वयं भगवन्तः धनवन्तः स्याम भवेम । एकं वाक्यम् । द्वितीयेनार्धर्चेन द्वितीयम् । एकवाक्यताया असंभवात् । तं त्वा । उपरि तदः श्रवणात् यदोऽत्र वृत्तिः । तं त्वाम् । हे भग, सर्वइत् सर्वएव जोहवीति आह्वयति कामसिद्धये । स नः अस्माकम् हे भग, पुरएता अग्रयायी सर्वकार्येषु भव इह ॥ ३८ ॥
म० हे देवाः, भग एव भगवान् । धनवानस्तु किमन्यैरदातृभिर्धनिभिर्देवैरिति भावः । तेन भगदत्तेन धनेन वयं भगवन्तः स्याम । एवं देवानुक्त्वाथ भगमाह । हे भग, सर्वइत् सर्व एव जनः तं प्रसिद्धं त्वा जोहवीति अत्यन्तमाह्वयति इष्टसिद्धये । हे भग, स त्वमिह नोऽस्माकं कर्मणि पुरएता पुरोऽग्रे एतीति पुरएता अग्रयायी भव । अग्रेसरो भूत्वा सर्वकार्याणि साधयेत्यर्थः ॥ ३८ ॥

एकोनचत्वारिंशी।
सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ।। ३९ ।।
उ० समध्वराय । समनमन्त प्रह्वीभवन्ति या उषसः । अध्वराय यज्ञाय अग्निहोत्रादिकर्मणे । कथमिव । दधिक्रावेव । यथा दधिक्रावा अश्वः शुचये पदाय शुचिपदं अग्न्याधानार्थं कर्तव्यमिति संनमते । एवं ता उषसः । अर्वाचीनं अनन्यगतमनस्कम् । वसुविदं च वसु धनं विन्दतीति वसुवित् तं वसुविदम् । भगम् आदित्यम् । नः अस्मान् प्रति । रथमिव अश्वाः वाजिनः वेजनवन्तः अन्नवन्तो वा । आवहन्तु आगमयन्तु ॥ ३९ ॥
म० उषसः प्रातःकालाधिष्ठातारो देवाः अध्वराय संनमन्त संनमन्ते प्रह्वीभवन्ति । कथमिव । दधिक्रावा अश्वः इव । तथा अश्वः शुचये पदाय । अग्न्याधानार्थं शुचि पदम् । ता उषसः भगमादित्यं नोऽस्माकमर्वा चीनमभिमुखमावहन्तु आगमयन्तु । किंभूतं भगम् । वसुविदम् वसु धनं विन्दतीति वसुविदः | 'इगुपध' (पा० ३ । १ । १३५) इति कः । यथा वाजिनोऽन्नवन्तो वेगवन्तो वा अश्वा रथमावहन्ति तद्वत् ॥ ३९ ॥

चत्वारिंशी।
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒: सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ।। ४० ।।
उ० अश्वावतीः । उषोदेवत्या त्रिष्टुप् । अश्ववत्यः गोमत्यः नः अस्माकम् । उषासः वीरवत्यः सदं सदाकालम् उच्छन्तु । 'उच्छी विवासे' । विवासयन्तु तमः । भद्राः भन्दनीयाः । घृतमवश्यायजलं दुहानाः । विश्वतः प्रपीताः। प्यायः पीआदेशः । सर्वतः आप्यायिताः धर्मार्थकामैः । इदानीमृत्विग्विषयः प्रश्नः यूयं पात पालयत स्वस्तिभिरविनाशैः सदा नः अस्मान् ॥ ४० ॥
म० उषोदेवत्या त्रिष्टुप् । उषसः सदं सदाकालं नोऽस्मानुच्छन्तु विवासयन्तु अज्ञानलक्षणं पाशं मोचयन्तु । 'उच्छी विवासे' । किंभूता उषसः। अश्वावतीः अश्ववत्यः गोमतीः गोमत्यः वीरवतीः वीरवत्यः भद्राः भन्दनीयाः कल्याणरूपाः घृतमव