पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

लोकम् पितुः मध्यमस्य लोकस्य धामभिः स्थानैः सह । या च त्वम् दिवः द्युलोकस्य सदांसि स्थानानि । बृहती महती वित्तिष्ठसे आक्रामसि । यस्याश्च ते । तथापि आवर्तते । त्वेषं दीप्तं महाप्राग्भारं वा तमः तां त्वां स्तुमः ॥ ३२ ॥
म० रात्रिदेवत्या पथ्याबृहती । हे रात्रि, यया त्वया पार्थिवं रजः पृथिवीसंबन्धिलोकः पितुः मध्यलोकस्य धामभिः स्थानैः सह आ अप्रायि समन्तात्पूर्यते । या च त्वं दिवो द्युलोकस्य सदांसि स्थानानि बृहती महती सती वितिष्ठसे आक्रमसे व्याप्नोषि । तस्यास्तव तमः आवर्तते तथापि प्रवतते। किंभूतं तमः। त्वेषं दीप्तं महाप्राग्भारमित्यर्थः । रजःशब्दो लोकवचनः । अप्रायि 'प्रा पूरणे' कर्मणि लुङि चिणि रूपम् ॥ ३२॥

त्रयस्त्रिंशी।
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ।। ३३ ।।
उ० उषस्तत् । उषोदेवत्या परोष्णिक् । हे उषः, तत् चित्रं चायनीयं महनीयं धनम् आभर आहर अस्मभ्यम् । हे वाजिनीवति अन्नवति । येन धनेन तोकं पुत्रं तनयं पौत्रं च धामहे दध्महे ॥ ३३ ॥
म० उषोदेवत्या परोष्णिक् । हे उषः, हे वाजिनीवति हे अन्नवति, अस्मभ्यं तत् प्रसिद्धं चित्रं चायनीयमाश्चर्यकारि महनीयं धनमाभर आहर देहि । येन धनेन वयं तोकं पुत्रं तनयं पौत्रं च सर्वं सन्तानवर्गं धामहे दध्महे पुष्णीमः । धामहे दधातेः शपो लुकि रूपम् ॥ ३३ ॥

चतुस्त्रिंशी।
प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ᳪ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रᳪ हु॑वेम ।। ३४ ।।
उ० प्रातरग्निम् बहुदेवत्या जगती । प्रातःशब्दो वीप्सावचनः । प्रातःप्रातः पुनःपुनः । अग्निं च इन्द्रं च मित्रावरुणौ च अश्विनौ च । हवामह इति प्रत्येकमभिसंबध्यते । प्रातः भगं च पूषणं च ब्रह्मणस्पतिं च । प्रातः सोमम् उत अपिच रुद्रम् हुवेम आह्वयामः ॥ ३४ ॥
म० जगती बहुदेवत्या । प्रातःशब्दो वीप्सावचनः । वयं प्रातःप्रातः पुनःपुनः एतान्देवान् हवामहे आह्वयाम इति प्रत्येकं संबध्यते । कान् । अग्निम् इन्द्रं मित्रावरुणौ अश्विनौ भगम् पूषणम् ब्रह्मणस्पतिम् । सोमम् उत अपिच रुद्रं हुवेम आह्वयाम । हवामहे हुवेम । ह्वयतेः संप्रसारणे रूपद्वयम् ॥३४॥

पञ्चत्रिंशी।
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रᳪ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ।। ३५ ।।
उ० प्रातर्जितम् । पञ्च भगदेवत्यास्त्रिष्टुभः । यो विधर्तेत्यादिमन्त्रो व्याख्यायते उद्दिश्यमानत्वात् । यः भगः विधर्ता विधारयिता सर्वस्य जगतः । आध्रश्चिद्यम् । प्रतिषेधस्य दीर्घत्वं छान्दसम् । आध्रः 'ध्रै तृप्तौ' अतृप्तः बुभुक्षितः। अथवा ध्रियतेः आध्रः दरिद्रः । चिच्छब्दोऽप्यर्थे । दरिद्रोऽपि यं भगं मन्यमानः । मन्यतिरर्चतिकर्मा । पूजयन्स्वार्थसिद्धये भगं भक्षि इत्याह । उदयं भक्षयस्व भजस्व इत्याह । तुरश्चित् आङोऽध्याहारः । आतुरोऽपि यं भगं मन्यमानः भक्षीत्याह उदयं भक्षयस्व इत्याह । यद्वा तुरशब्देन यमोऽभिधीयते । स हि तूर्णं प्राणिनो हन्ति । यमोऽपि यं भगं मन्यमानः भक्षीत्याह उदयं भक्षयस्वेत्याह । स हि दिवसान् प्राणिनो गणयति । राजा चित् राजापि यं भगं मन्यमानः भक्षीत्याह उदयं भक्षयस्व भजस्वेत्याह । तदुदये हि राज्ञां वार्तासिद्धिः तं प्रातर्जितं प्रातर्जयिनं भगम् उग्रमुद्गूर्णदानम् हुवेम आह्वयामः । वयम् ऋषिरात्मानमाह । पुत्रम् अदितेः ॥ ३५ ॥
म० पञ्च भगदेवत्यास्त्रिष्टुभः । वयं तं भगमादित्यं हुवेम आह्वयाम । किंभूतम् । प्रातर्जितं प्रातर्जयतीति प्रातर्जित् तम् प्रातर्जयनशीलम् । उग्रमुत्कृष्टमुद्गूर्णदानं वा । अदितेः पुत्रं तनयम् । तं कम् । यो विधर्ता जगतो धारयिता । यश्च आध्रश्चित् चिच्छब्दोऽप्यर्थे । न ध्रायति 'ध्रै तृप्तौ' न तृप्यति स अध्रः नञो दीर्घश्छान्दसः । यद्वा आ समन्तात् ध्रः आध्रः । यद्वा अध्र एवाध्रः स्वार्थे तद्धितः । आध्रः अतृप्तः बुभुक्षितो दरिद्रो वापि यं भगं भक्षि भजस्व अर्थादुदयम् इत्याह । किं कुर्वन् । मन्यमानः पूजयन् स्वार्थसिद्धये । मन्यतिरर्चतिकर्मा । स हिं सूर्योदये भिक्षादिना किंचिल्लभते तत उदयं वाञ्छति तुरश्चित् आतुरोऽपि यं भगं मन्यमानो भक्षि उदयं भजस्वेत्याह । दिवसे तस्य सुखोदयात् रोगिणो रात्रिः कष्टेन याति । यद्वा तुरो यमः स हि मारणाय दिनानि गणयति । राजा चित् राजापि यं भगं भक्षि इत्याह । तदुदये हि राज्ञां व्यवहारदर्शनादिना सर्वेष्टसिद्धिः । भक्षि भजतेः शपि लुप्ते लटि मध्यमे रूपम् ॥३५॥

षट्त्रिंशी।
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।
भग॒ प्र नो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम ।। ३६ ।।
उ० भग प्रणेतः । हे भग, हे प्रणेतः प्रकर्षेण नयस्य कर्तः । हे भग, हे सत्यराधः, सत्यमविनाशि राधो धनं यस्य स तथोक्तः । हे भग, इमां धियं प्रज्ञाम् उत् अव उद्गमय । यथा सूक्ष्मानर्थान् पश्यामः तथा कुर्वित्यभिप्रायः।