पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

छत्रिणो गच्छन्तीतिवत् । यश्च योजना योजनानि योजनगव्यूतिक्रोशादीनध्वपरिमाणविशेषान्व्यख्यत् । यश्च सप्त सिन्धू- न्समुद्रान्क्षीरोदाद्यान्व्यख्यत् । उपलक्षणमेतत् । सर्वजगत्प्रकाशकः सविता रत्नानि ददान आयात्वित्यर्थः । अख्यत् 'ख्या प्रकथने' 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा० ३ । १। ५२ ) इति च्लेरङ् आलोपश्च धातूनामनेकार्थत्वादत्र प्रकाशनार्थो ग्राह्यः । त्री योजना 'सुपां सुलुक्' (पा० ७।१।३९) इत्यादिना पूर्वसवर्णदीर्घो विभक्तेः । धन्व सुपो लुक् । रत्ना सुप आकारः । दाशुषो 'दाश्वान्साह्वान्' (पा० । ६ । १। १२) इति निपातः । वार्याणि 'ऋहलोर्ण्यत्' (पा० । ३ । १। १२४ ) इति वृणोतेर्ण्यत् ॥ २४ ॥

पञ्चविंशी।
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ।। २५ ।।
उ० हिरण्यपाणिः सविता । सुवर्णपाणिः सविता । विचर्षणिः विविधं यष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावापृथिवी अन्तः । अधिकरणश्रुतेर्योग्यक्रियाया अध्याहारः । मध्ये स्थितः ईयते एति यदा । अथ तदा अपामीवां बाधते अमीवां व्याधिम् । वेति विगतिकर्मा । गच्छति सूर्यं सूर्यरूपमवस्थाय । ततोऽस्तमनकाले । अभिकृष्णेन रजसा द्यामृणोति । अभिऋणोति अभिव्याप्नोति । कृष्णेन रजसा तमोलक्षणेन । द्यां द्युलोकम् ॥ २५ ॥
म०. सविता प्रसविता सूर्यं सूर्यः विभक्तिव्यत्ययः । उभे उभयोः द्यावापृथिवी द्यावापृथिव्योः अन्तर्मध्ये ईयते आगच्छति यदा तदा अमीवां व्याधिमपबाधते अन्धकारलक्षणरोगं निवर्तयति । अथ यदा वेति अस्तमयसमये गच्छति तदा कृष्णेन रजसा अन्धकारलक्षणेन द्यां द्युलोकमभि ऋणोति अभिव्याप्नोति । कीदृशः सूर्यः । हिरण्यपाणिः सुवर्णपाणिः । विचर्षणिः विविधं द्रष्टा कृताकृतप्रत्यवेक्षकः । उभे द्यावापृथिवी । षष्ठ्यर्थे द्वितीया । अन्तर्योगे वा । ईयते 'ईङ् गतौ' दिवादिः ॥ २५॥

षड्विंशी।
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ।। २६ ।।
उ० हिरण्यहस्तः द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते सामर्थ्यात् । यः अपसेधन अपगमयन् रक्षसः यातुधानांश्च असुखकारकान् । अस्थात् उदस्थात् । देवः प्रतिदोषं गृणानः श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो दोषास्तावतः स्तुवन् उच्चारयन् गणयन् उपभोगार्थमित्यभिप्रायः । सोऽयं सविता हिरण्यहस्तः हिरण्यदानार्थं हस्तौ यस्य स तथोक्तः। रूपेण वा स्तुतिः । असुरः ‘रा दाने' असून्प्राणान्ददातीत्यसुरः । सुनीथः । नीथा स्तुतिः । कल्याणस्तुतिः । सुमृडीकः साधु सुखयिता । स्ववान् । आत्मीयज्ञातिधनवचनः स्वशब्दः । यातु आयातु । अर्वाङ् अर्वागञ्चनः अस्मानभिमुखः ॥ २६ ॥
म० यो देवो रविः रक्षसो राक्षसान् यातुधानान् असुखकरांश्च अपसेधन् अपगमयन्सन् अस्थादुदस्थात् तदेति स देवः अर्वाङ् अर्वागञ्चनः अस्मदभिमुखः यातु आयात्वित्यर्थः । कीदृशो देवः । हिरण्यहस्तः हिरण्यं दानार्थं हस्ते यस्य स तथोक्तः। रूपेण वा स्तुतिः । असुरः असून् प्राणान् राति ददातीत्यसुरः । सुनीथः नीथा स्तुतिः कल्याणस्तुतिः । सुमृडीकः साधु सुखयिता स्वबान्धवान् । प्रतिदोषम् प्रतिजनं यो दोषः प्रतिदोषः तम् । श्रुतिस्मृतिविहितधर्मपराङ्मुखानां यावन्तो दोषास्तावतः गृणानः उच्चारयन् उपभोगार्थमित्यभिप्रायः । स्ववान् यातु इत्यत्र 'दीर्घादटि समानपादे' (पा० ८।३ । ९) इति नस्य रुत्वे 'भोभगोअघोअपूर्वस्य योऽशि' (पा. ८ । ३ । १७) तस्य रोर्यादेशे 'हलि सर्वेषां' (पा० ८ । ३ । २२) तस्य लोपः । सक्षस्शब्दस्य व्यत्ययेनाक्लीबत्वम् ॥ २६ ॥

सप्तविंशी।
ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ।।२७ ।।
उ० ये ते पन्थाः। ये ते तव पन्थाः पन्थान इति वचनव्यत्ययः । हे सवितः, पूर्व्यासः पूर्वेष्वपि कालेषु भवाः । अरेणवः अपांसुलाः । सुकृताः साधुकृताः धात्रा अन्तरिक्षे । तेभिः तैः नः अस्मान् अद्य नयेति शेषः । पथिभिः सुगेभिः साधुगमनैः अन्नपानप्रभूतैर्गच्छतः रक्षा च रक्ष च नः अस्मान् । अधि च ब्रूहि अङ्गीकृत्य च ब्रूहि । यथा एते अस्मदीया इति । यद्वा यदस्माकं हितं पथ्यं तदधिब्रूहि उपदिश । हे देव, दानादिगुणयुक्त ॥ २७ ॥
म० हे सवितः हे देव, पन्थाः पन्थानो मार्गाः अन्तरिक्षे सुकृताः साधुकृताः धात्रा वर्तन्ते । कीदृशास्ते । पूर्व्यासः पूर्वेषु कालेषु भवाः पूर्व्याः । अरेणवः नास्ति रेणुर्यत्र अपांसुलाः । तेभिः तैः पथिभिः मार्गैः नोऽस्मान् अद्य नयेति शेषः । च पुनः गच्छतो नोऽस्मान् रक्ष पालय । अधिब्रूहि च अधि अङ्गीकृत्य ब्रूहि एते मदीया इति । यद्वा अधिब्रूहि उपदिशास्माकं यद्धितं पथ्यं तत् । यद्वा अधि अधिकान् वद एते महायाज्ञिका दातार इत्यादि । किंभूतैः पथिभिः। सुगेभिः सुगैः सुखेन गम्यते येषु सुगाः तैः अन्नपानप्रभूतैरित्यर्थः । अधिकरणे गच्छतेर्डप्रत्ययः । पूर्वैः पूर्व्यासः कृताः 'पूर्वैः कृतमिनियौ च' (पा. । ४ । ४ । १३३) इति यप्रत्ययः ॥ २७ ॥