पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विदथो यज्ञस्तत्र साधुम् । सभेयं सभामर्हति सभेयस्तम् । पितृश्रवणं पितरं शृणोति पितृश्रवणः पित्राज्ञाकारिणं विनीतमित्यर्थः। कर्मण्यमित्यादौ 'तत्र साधुः' ( पा० ४ । ४ । ९८ ) इति यत् । सभेयं 'ढश्छन्दसि' (पा० ४ । ४ । १०६ ) इति सभायाः साध्वर्थे ढप्रत्ययः । तस्येयादेशः (पा. ७।१।२)। ददाशत् 'दाशृ दाने 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति शपः श्लुः द्वित्वम् 'इतश्च लोपः परस्मैपदेषु' (पा०।३। ४ । ९७ ) इति तिप इलोपः । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४) इत्यडागमः ॥ २१ ॥

द्वाविंशी।
त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः ।
त्वमात॑तन्थो॒र्वन्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ ।। २२ ।।
उ० त्वमिमाः । हे सोम, त्वम् इमाः ओषधी: विश्वाः सर्वाः अजनयः जनितवानसि । त्वम् अपः अजनयः । त्वं च गाः अजनयः। त्वम् आततन्थ आततवानसि । उरु विस्तीर्णमन्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ विवृणोषि तमः । त्वमेवादित्यात्मना तमोऽपनयसि । सर्वात्मत्वेन स्तुतिः॥२२॥
म० हे सोम, त्वमिमाः विश्वाः सर्वाः ओषधीः अपो जलानि गाः धेनूः अजनयः जनितवानसि । त्वमुरु विस्तीर्णमन्तरिक्षमाततन्थ विस्तारितवानसि । त्वं च ज्योतिषा तेजसा तमोऽन्धकारं विववर्थ विवृणोषि । आदित्यात्मना सर्वं तमोऽपनयसीति सर्वात्मा त्वमित्यर्थः । 'बभूथाततन्थजगृम्भववर्थेतिनिगमे' (पा० । ७ । २ । ६४ ) इति निपातः ॥ २२ ॥

त्रयोविंशी।
दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गᳪ स॑हसावन्न॒भि यु॑ध्य ।
मा त्वा त॑न॒दीशि॑षे वी॒र्य॒स्यो॒भये॑भ्य॒: प्रचि॑कित्सा॒ गवि॑ष्टौ ।। २३ ।।
उ० देवेन नः । दैवेनेति प्राप्ते तद्धितलोपश्छान्दसः । दैवेन मनसा सह नः अस्मभ्यम् । रायो भागं धनस्य भागम् । सहःशब्दो बलवचनः सान्तः तत्र अकारागमश्छान्दसः । हे सहस्वन् , अभियुध्य । युध्यतिर्गत्यर्थानां मध्ये पठ्यते अन्तर्भावितण्यर्थश्च गृह्यते । अभिगमय देहीत्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित्प्रतिबध्नीयादित्यत आह । मा च त्वाम् आतनत् । तनोतिः प्रतिबन्धार्थः । प्रतिबध्नातु । कुतस्त्वमेवमुच्यस इतिचेत् । ईशिषे वीर्यस्य यतस्त्वं स्वकीयस्य वीरकर्मणः ईशिषे ईश्वरो यस्त्वमित्यभिप्रायः। किंच उभयेभ्यः प्रचिकित्स उभयलोकप्राप्त्यर्थं व्याध्यपगमं कुर्वित्यभिप्रायः। गविष्टौ गोशब्देनात्र द्युलोकोऽभिप्रेतः। स्वर्गैषणायां च विषयभूतायाम् अस्मान् प्रचिकित्स । दैवं मनः प्राप्य लब्धधना अरोगाश्च यथा स्वर्गं यास्यामस्तत्तथा कुर्विति वाक्यार्थः ॥२३॥
म० हे देव, सोम, हे सहसावन् बलवन् , देवेन मनसा देवसंबन्धिना मनसा सह रायो धनस्य भागं नोऽस्मभ्यमभियुध्य । युध्यतिर्गतिकर्मा अन्तर्भावितण्यर्थः । अभिगमय देहीत्यर्थः । एवं दानप्रवृत्तं त्वां कश्चित् मा आतनत् त्वा मां आतनोतु मा प्रतिबध्नातु । तनोतिः प्रतिबन्धार्थः । कुतस्त्वमेवमुच्यस इति चेत् यतस्त्वं वीर्यस्य ईशिषे वीरकर्मण ईश्वरो भवसि 'अधीगर्थदयेशाम्' (पा० । २ । ३ । ५२) इति कर्मणि षष्ठी । किंच गविष्टौ गोः स्वर्गस्य इष्टौ इच्छायां स्वर्गैषणायां विषयभूतायां समामुभयेभ्यः प्रचिकित्स उभयलोकप्राप्त्यर्थं चिकित्सां कुरु व्याध्यपगमं कुरु । उभयलोकप्रतिबन्धकं विघ्नं निवर्तयेत्यर्थः । दैवं मनः प्राप्य लब्धधना अरोगाश्च सत्कर्म कुर्वाणा यथा स्वर्गं यास्यामस्तथा कुर्विति वाक्यार्थः । देवेन देवानामिदं देवम् तद्धितप्रत्ययलोपः । सहसावन् प्रथमार्थे तृतीया । सहसा सहो बलमस्यास्तीति सहसावान् अलुक् । तनत् तनोतेः परस्य लेटोऽडागम इलोपश्च । चिकित्स 'गुप्तिज्किद्भ्यः सन्' (पा० ३ । १ । ५) 'अन्येषामपि दृश्यते' (पा० ६ । ३ ।१३७) इति दीर्घः ॥ २३ ॥

चतुर्विंशी।
अष्टौ॒ व्य॑ख्यत् क॒कुभ॑: पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ।। २४ ।।
उ० अष्टौ व्यख्यत् । चतस्रः सावित्र्यः द्वितीया जगती | त्रिष्टुभोऽन्याः । यः अष्टौ व्यख्यत् प्रकाशितवान् ककुभः दिशः । चतस्रो दिशः चतस्रोऽवान्तरदिशः । पृथिव्याः संबन्धिनीः । त्रीधन्व त्रीणि धन्वानीति शब्दसमाधिः । धन्व इत्यन्तरिक्षनाम तदुपलक्षितावितरावपि लोकौ गृह्येते छत्रिणो यान्तीति यथा । यश्च त्रीन् लोकान् व्यख्यत् । यश्च योजनान् योजनगव्यूतिक्रोशादीन् मानविशेषान् व्यख्यत् । यश्च सप्तसिन्धून् संप्तसमुद्रान् व्यख्यत् । सोऽयं हिरण्याक्षः हिरण्यसदृशाक्षः अमृतदृष्टिर्वा सविता देवः आगात् आगच्छतु किं कुर्वन्नित्यत आह । दधत् स्थापयन् रत्ना रत्नमयानि धनानि । दाशुषे हवींषि दत्तवते यजमानाय । वार्याणि वरणीयानि ॥ २४ ॥ -
म० चतस्रः सावित्र्यः द्वितीया जगती त्रिष्टुभोऽन्याः हिरण्यस्तूपदृष्टाः। स सविता देव आगात् आगच्छतु 'इणो गा लुङि' (पा० २। ४ । ४५ ) इतीणो गादेशः । किं कुर्वन् । दाशुषे हवींषि दत्तवते यजमानाय वार्याणि वरणीयानि रत्ना रत्नानि दधद्ददत् स्थापयन्वा । कीदृशः। हिरण्याक्षः हिरण्यमिव कान्तियुक्ते अक्षिणी यस्य स हिरण्याक्षः अमृतदृष्टिर्वा । स कः । यः सविता पृथिव्याः संबन्धिनीः अष्टौ ककुभो दिशः व्यख्यत् । प्रकाशितवान् । यश्च त्री त्रीणि धन्व धन्वानि लोकान् व्यख्यत्। धन्वेत्यन्तरिक्षनाम । तेन तदुपलक्षितावितरावपि लोकौ लक्ष्येते