पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वेन । कः चन । चनो निपातोऽप्यर्थे । हिरनर्थकः । कोऽपि प्रकेतः प्रज्ञानविशेषः अत्यर्थं भवति । यजमानानामिति शेषः ॥ १८॥
म० हे इन्द्र, त्वत् त्वत्तः सकाशात् कश्चन । चनशब्दोऽप्यर्थे । कोऽपि लोकोत्तरः प्रकेतः प्रकृष्टो ज्ञानविशेषः आ समन्तात् हि यतो भवति अतः सखायो विप्राः त्वामिच्छन्ति ।। 'अथ ये ब्राह्मणाः शुश्रुवाᳪसोऽनूचानास्ते मनुष्यदेवाः' इत्युक्तेर्देवानां विप्राणां च सखित्वम् । किंभूताः सखायः । सोम्यासः सोमसंपादिनः । इच्छन्तीति कथं ज्ञातं तत्राह । यतस्ते सोमं सुन्वन्ति अभिषुण्वन्ति प्रयांसि अन्नानि दधति च । प्रय इत्यन्ननाम । हवींषि धारयन्ति । किं । जनानामभिशस्तिं दुर्वचनं तितिक्षन्ते सहन्ते मनोवाक्कायसंयताः क्षान्तिपरा इत्यर्थः ॥१८॥

एकोनविंशी ।
न ते॑ दू॒रे प॑र॒मा चि॒द्रजा॒ᳪस्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम् ।
स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒ने अग्नौ ।। १९ ।।
उ०. न ते । नहि ते तव दूरेऽपि परमा परमाणि विप्रकृष्टदेशानि । रजांसि स्थानानि । एवंचेत् । आ प्रयाहि आयाहि तु तूर्णम् । हे हरिवः हरिभ्यां अश्वाभ्याम् । किमर्थम् । स्थिराय दृढसौहृदाय । वृष्णे सेक्त्रे । सवना कृतेमा सवनानि कृतानि इमानि । किंच । युक्ताः अभिषवकर्मणि ग्रावाणः। समिधाने समिध्यमाने च अग्नौ आहवनीयाख्ये आहुतयः होष्यन्ते । अतश्च आयाहि ॥ १९ ॥
म० हे हरिवः, हरी अश्वौ विद्येते यस्य स हरिवान् तस्य संबोधनम् 'मतुवसो:-' (पा० ८ । ३ । १) इति रुत्वम् । हे हरिवः, स्थिराय दृढसौहृदाय वृष्णे सेक्त्रे तुभ्यम् इमा सवनाकृता इमानि सवनानि प्रातःसवनादीनि कृतानि । क्व सति । अग्नौ समिधाने समिध्यमाने सति । छान्दसो यको लुक् । ग्रावाणः च युक्ताः योजिताः अभिषवकर्मणि । तुशब्दो हेत्वर्थे । अतो हेतोः हरिभ्यामश्वाभ्यामा प्रयाहि आगच्छ । ननु स्वर्गात्कथमतिदूरे मया गन्तव्यमित्यत आह । परमा परमाणि दूरदेशस्थानि रजांसि स्थानानि ते तव दूरे न चित् दूरे न सन्ति । चिच्छन्दोऽप्यर्थे । अतिदूरमपि ते निकटम् अत आयाहीत्यर्थः ॥ १९॥

विंशी ।
अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रि॑ᳪ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
भ॒रे॒षु॒जाᳪ सु॑क्षि॒तिᳪ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ।। २० ।।
उ० अषाढं युत्सु । अषाढं असोढम् । युत्सु युद्धेषु । पृतनासु सैन्येषु । पप्रिम् । 'पॄ पालनपूरणयोः' इत्यस्यैतद्रूपं 'नतु प्रा पूरण' इत्यस्य । पप्रिं पालनशीलम् । स्वर्षां स्वर्दिवं सनोति स तथा तम् । अप्साम् अपः सनोति संभजते स तथा तम् । वृजनस्य गोपां बलस्य गोप्तारम् । भरेषुजाम् जयतेरेतद्रूपं नतु जानातेः । संग्रामेषु जेतारम् । सुक्षितिं सुनिवासम् श्रवसं कल्याणकर्मकर्तृत्वेन प्रसिद्धम् । जयन्तं त्वाम् अनुमदेम । मदेर्मोदनार्थस्य ग्रहणम् । परसैन्यानि जयन्तं त्वां दृष्ट्वा उत्साद्यन्ते तत् दृष्ट्वा प्रहृष्टाः स्याम हे सोम ॥ २०॥
म० चतस्रः सोमदेवत्यास्त्रिष्टुभः । हे सोम, त्वां जयन्तमुत्कर्षेण वर्तमानमनु वयं मदेम हृष्टाः स्याम । किंभूतं त्वाम् । युत्सु युद्धेषु अषाढमसहनमनभिभूतम् । पुनः कीदृशम् । पृतनासु सेनासु पप्रिं पालयितारम् । स्वर्षाम् स्वर्दिवं सनोति संभजते स स्वर्षाः तम् । अप्साम् अपो जलानि सनोतीत्यप्साः तम् । वृजनस्य बलस्य गोपां रक्षकम् । भरेषुजां संग्रामेषु जेतारम् । सुक्षितिं सुनिवासम् । सुश्रवसं शोभनं श्रवः कीर्तिर्यस्य स सुश्रवाः तम् । अषाढम् सह्यतेऽसौ साढः न साढः असाढस्तम् । सहेः क्तः ढत्वं (पा० ८।२।३१।) धत्वं (पा० ९ । २। ४०) ष्टुत्वम् (पा० ८।४।४१।) 'ढो ढे लोपः' (पा० ८।३ । १२) 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' (पा० ६ । ३ । १११) बाहुलकात् 'सहिवहोरोदवर्णस्य' (पा० ६ । ३ । ११२) इत्यस्याप्रवृत्तिः षत्वं छान्दसम् । पप्रिम् 'पॄ पालनपूरणयोः' 'आगमहन-' (पा० ३।२ । १७१) इति किः द्वित्वादि । स्वर्षाम् स्वःपूर्वात्सनोतेर्विट् ‘विड्वनोरनुनासिकस्यात्' | (पा० ६ । ३ । ४१)। एवमप्साम् । गोपायतीति गोपाः क्विप् अतो लोपः यलोपः। भरेषुजाम् भरेषु संग्रामेषु जयति शत्रूनिति भरेषुजाः। 'हलदन्तात्सप्तम्याः' ( पा० ६ । ३।९) इति अलुक् । जयतेरौणादिको डाप्रत्ययः । मदेम 'मदी हर्षे' लिङ् व्यत्ययेन शप् ॥ २०॥

एकविंशी ।
सोमो॑ धे॒नुᳪ सोमो॒ अर्व॑न्तमा॒शुᳪ सोमो॑ वी॒रं क॑र्म॒ण्यं॒ ददाति ।
सा॒द॒न्यं॒ विद॒थ्य॒ᳪ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै ।। २१ ।।
उ० सोमो धेनुम् । सोमः धेनुं ददाति । सोम एव अर्वन्तमश्वं आशुम् शीघ्रगतिं ददाति । सोम एव च वीरं पुत्रम् कर्मण्यं कर्मणि साधुं ददाति । तमेव विशिनष्टि । सादन्यं सदने साधुम् । विदथ्यं विदथे यज्ञे साधुम् । सभेयं सभामर्हति सभेयस्तम् । पितृश्रवणं पितुरनुशासने च स्थितम् । विनीतमित्यर्थः । यः यजमानः ददाशत् अस्मै सोमाय हविः तस्मै सोमो धेन्वादीन्ददातीति संबन्धः ॥२१॥
म० यो यजमानोऽस्मै सोमाय ददाशत् ददाति हविः । तस्मै सोमो धेनुं ददाति । आशु शीघ्रमर्वन्तमश्वं च सोमो ददाति । सोमश्च तस्मै वीरं पुत्रं ददाति । कीदृशं वीरम् । कर्मण्यं कर्मणि साधुम् । सादन्यं सदने गृहे साधुम् । विदथ्यं