पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यजनाख्ये । वयम् नाभा नाभौ पृथिव्या अधि । उत्तरवेद्यां नाभिका भवति तद्विषयमेतत् । हे जातवेदः जातप्रज्ञान, निधीमहि स्थापयामः । हे अग्ने, हव्याय वोढवे हविषो वहनाय ॥ १५ ॥
म० हे जातवेदः जातप्रज्ञान हे अग्ने, इडायाः पृथिव्याः स्थाने देवयजनाख्ये पृथिव्या नाभा अधि उत्तरवेद्या मध्ये वयं त्वा त्वां निधीमहि स्थापयामः । किमर्थम् । हव्याय वोढवे हव्यं वोढुम् । विभक्तिव्यत्ययः । वहतेः 'तुमर्थे सेसेन्-' (पा० ३ । ४ । ९) इति तवेप्रत्ययः 'सहिवहोः-' (पा. ६ । ३ । ११२) इत्योकारः ॥ १५ ॥

षोडशी।
प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
सु॒वृ॒क्तिभि॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ।। १६ ।।
उ० प्रमन्महे । चतस्र ऐन्द्र्यस्त्रिष्टुभः । प्रमन्महे प्रजानीमः शवसानाय बलमाविष्कुर्वते । शूषं बलम् । आङ्गूषम् आघोषं स्तोमम् । गिर्वणसे देवाय । कथमिव । अङ्गिरस्वत् अङ्गिरसा तुल्यप्रज्ञानाय च । सुवृक्तिभिः सुवृक्ताभिः शोभनाभिः स्तुतिभिः । स्तुवते स्तुवन्तीति विभक्तिव्यत्ययः सामर्थ्यात् । ऋग्मियाय ऋङ्मयाय स्तुतिमयाय । अर्चनीयाय च । वयम् अर्चामः अर्कम् उच्चारयामः मन्त्रम् । नरे नृरूपाय । विश्रुताय शौर्यबलदानादिलब्धख्यातये॥१६॥
म० चतस्र ऐन्द्र्यस्त्रिष्टुभः । वयमिन्द्राय इन्द्रार्थमाङ्गूषं स्तोमं त्रिवृदादिकं प्रमन्महे जानीमः । किंभूतं स्तोमम् । शूषं बलहेतुम् । अर्क मन्त्रं च अर्चाम उच्चारयाम । धातूनामनेकार्थत्वादर्चतिरुच्चारणार्थः । अङ्गिरस्वत् अङ्गिरस इव । तैर्यथा स्तोमो ज्ञातो मन्त्रश्च पठितस्तस्मै तद्वत् । किंभूतायेन्द्राय । शवसानाय शवो बलमात्मन इच्छति शवस्यति शवस्यतीति शवसान तस्मै बलमभिलषमाणाय । 'सुप आत्मनः क्यच्' (पा० ३।१। ८) इति क्यच् तदन्ताच्छानच् शप् 'बहुलं छन्दसि' (पा० २ । ४ । २७) इति तस्य लुक् 'छन्दस्युभयथा' (पा० ३ । ४ । ११७) इति तस्य शानचोऽप्यार्धधातुकत्वात् 'क्यस्य विभाषा' (पा० ६ । ४ । ५० ) इति क्यचो लोपः शवसान इति सिद्ध्यति । पुनः कीदृशाय । गिर्वणसे गिरा स्तुत्या वनयति संभाजयति आत्मानमभिलषितदानात्स्तोतृभ्य इति गिर्वणाः । गीःशब्दोपपदाद्वनोतेर्ण्यन्तादसुनि वनेर्घटादित्वेन मित्संज्ञत्वात् ह्रस्वत्वम् णिचो लोपः। गीर्वणा इति प्राप्ते दीर्घाभावश्छान्दसः । यद्वा स्वार्थे णिच् गीर्भिरेनं देवा भजन्ति इति गिर्वणाः तस्मै । गीर्वाणशब्देन समानार्थो गिर्वणःशब्दः । पुनः किंभूताय । सुवृक्तिभिः शोभनाभिः स्तुतिभिः स्तुवते स्तौतीति स्तुवन् तस्मै । यजमानानिति शेषः। तदुक्तम् 'त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यम्' ( ६ । ३७ ) इति । पुनः कीदृशाय । ऋग्मियाय ऋग्मयाय वेदमयाय । मयडर्थे छान्दसो मियट् । यद्वा 'ऋच स्तुतौ' इत्यस्माद्भावे औणादिको भक् कुत्वं जश्त्वं । ऋग्मः स्तुतिः तमर्हति ऋग्मियः अर्हार्थे घच् स्तुतियोग्याय । पुनः कीदृशाय । नरे नररूपाय । नृशब्दस्य ङे परे छान्दसो गुणः । पुनः कीदृशाय । विश्रुताय शौर्यदानबलादिभिर्लब्धख्यातये ॥ १६ ॥

सप्तदशी।
प्रवो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्य॒ᳪ शवसा॒नाय॒ साम॑ ।
येना॑ न॒: पूर्वे॑ पि॒तर॑: पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ।। १७ ।।
उ० प्र वः । सामर्थ्याद्द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते । येन साम्ना नः अस्माकम् । पूर्वे पितरः पदज्ञाः आत्मसत्तत्ववेदिनः। अर्चन्तः स्तुवन्तः अङ्गिरसः ऋषयः । गाः अविन्दन् आदित्यरश्मीन् लब्धवन्तः स हि साम्नां लोकः तत्साम प्रभरध्वम् आहरध्वम् । वः । प्रथमाबहुवचनस्य स्थाने व आदेशः । यूयम् हे पुत्रपौत्रप्रपौत्राः, महे महते इन्द्राय । महि महत्वम् । नमः अन्नम् आङ्गूष्यम् स्तोमस्य च हितम् साम । प्रभरध्वम् । शवसानाय बलमभिलषमाणाय ॥ १७ ॥
म०. महे महते शवसानाय बलमभिलषमाणायेन्द्राय महि महत् नमोऽन्नं वः यूयं प्रभरध्वं प्रहरतम् समर्पयत । यूयमित्यर्थे व इत्यव्ययम् । मुनीनां पुत्रादीन्प्रति वचः। आङ्गूष्यमाङ्गूषाय हितं साम प्रभरध्वमुच्चारयत । नोऽस्माकं पूर्वे पितरः अङ्गिरसः येनान्नेन साम्ना चार्चन्तः स्तुवन्तः सन्तः गाः सूर्यकिरणानविन्दन् लेभिरे । स हि साम्नां लोकः तत्साम प्रभरध्वम् । कीदृशा अङ्गिरसः । पदज्ञाः पदमात्मस्वरूपं जानन्तीति पदज्ञाः ॥ १७ ॥

अष्टादशी।
इ॒च्छन्ति॑ त्वा सो॒म्यास॒: सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑ᳪसि ।
तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ।। १८ ।।
उ० इच्छन्ति त्वा । इच्छन्ति त्वाम् । सोम्यासः सोमसंपादिनः । सखायः समानख्यानाः । कथं समानख्यानाः । श्रुतौ 'द्वया वै देवाः अहैवं देवाः अथ ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवाः' इति । केन प्रकारेण इच्छन्ति । सुन्वन्ति अभिषुण्वन्ति सोमम् । दधति प्रयांसि । प्रय इत्यन्ननाम । धारयन्ति च हविर्लक्षणान्यन्नानि । किंच । तितिक्षन्ते अभिशस्तिं जनानाम् । मनोवाक्कायसंयताः क्षान्तिपराः । अभिशस्तिं दुर्वचनं जनानां सहन्ते । अथैवं त्वामिच्छताम् हे इन्द्र, त्वत् त्वत्तः सकाशात् आसमन्ताद्भा