पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० कदाचन । ऐन्द्री बृहती । नकारो भिन्नक्रम आदौ वर्तते । हे इन्द्र, भूयोभूयो याच्यमानस्त्वं न कदाचिदपि स्तरीरसि । स्तृणातेर्हिँसार्थस्यैतद्रूपम् । न स्तृणासि न क्रुध्यसि । किंपुनः करोषि । सश्चसि दाशुषे । दाशुष इति द्वितीयार्थे चतुर्थी । सश्चतिः सेवनकर्मा । सेवसे । दाशुषे दाश्वांसम् हवींषि दत्तवन्तं यजमानम् । किंच उप पृच्यते एव क्षिप्रम् । 'पृची संपर्के' संपृच्यते हि दाश्वांसंप्रति । 'प्रसमुपोदः पादपूरणे' इत्युपशब्दः पादपूरणे । इच्छब्द एवार्थे । नुशब्दः क्षिप्रवचनः । हे मघवन् । कथंभूतमुपपृच्यते । भूयो बहुतरमेव क्षिप्रम् । इत् नू उक्तार्थौ । ' ते तव स्वभूतं दानम् देवस्य दातुः । एतदुक्तं भवति - न कदाचित्त्वं यजमानं प्रति क्रुध्यसि । सेवसे च दाश्वांसम् । उपपृच्यते वा त्वदीयं दानं भूयो भूयो दाश्वांसं प्रति ॥ ३४ ॥
म० ऐन्द्री पथ्या बृहती मधुच्छन्दोदृष्टा जपे विनियुक्ता । यस्यास्तृतीयः पादो द्वादशार्णोऽन्ये त्रयोऽष्टाक्षराः सा पथ्या बृहती । हे इन्द्र परमैश्वर्ययुक्त, कदाचन कदापि त्वं स्तरीर्नासि । 'स्तृञ् हिंसायाम्' स्तृणातीति स्तरीः हिंसको नासि । किं तर्हि दाशुषे सश्चसि । द्वितीयार्थे चतुर्थी । दाश्वांसं हविर्दत्तवन्तं यजमानं सेवसे । सश्चतिः सेवनकर्मा । किंच । हे मघवन् धनवन् , देवस्य प्रकाशमानस्य ते तव भूय इत् बहुतरमेव दानं नु इत् क्षिप्रमेव दाश्वांसमुपपृच्यते । 'पृची संपर्के' यजमानेन सह संपर्कं प्राप्नोति । 'प्रसमुपोदः पादपूरणे' (पा. ८।१।६) इत्येक उपशब्दः पादपूरणे । इच्छब्दावेवार्थे । नु क्षिप्रार्थः । न कदाचिद्यजमानं प्रति क्रुध्यसि सेवसे च। तं त्वदीयं भूयो धनं दाश्वांसमुपपृच्यत इति भावः ॥ ३४ ॥

पञ्चत्रिंशी।
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ।। ३५ ।।
उ० तत्सवितुः सावित्री गायत्री । तदिति षष्ठ्या विपरिणम्यते । तस्य सवितुः सर्वस्य प्रसवदातुः । आदित्यान्तरपुरुषस्य देवस्य हिरण्यगर्भोपाध्यवच्छिन्नस्य वा विज्ञानानन्दस्वभावस्य वा ब्रह्मणः । वरेण्यं वरणीयम् । भर्गः । भर्गशब्दो वीर्यवचनः । 'वरुणाद्धवा अभिषिषिचानाद्भर्गोऽपचक्राम वीर्यं वै भर्गः' इति श्रुतिः । तेन हि पापं भृज्जति दहति । 'भृजी भर्जने' । अथवा भर्गस्तेजोवचनः । यद्वा मण्डलं पुरुषो रश्मय इत्येतत्त्रितयमभिप्रेयते । देवस्य दानादिगुणयुक्तस्य । धीमहि । 'ध्यै चिन्तायाम्' । अस्य छान्दसं संप्रसारणम् । ध्यायामः चिन्तयामः । निदिध्यासं तद्विषयं कुर्म इति यावत् । धियो यो नः । धीशब्दो बुद्धिवचनः कर्मवचनो वा वाग्वचनश्च । बुद्धीः कर्माणि वा वाचो वा । यः सविता नोऽस्माकम् । प्रचोदयात् । 'चुद संचोदने' । प्रकर्षेण चोदयति प्रेरयति तस्य सवितुः संबन्धि वीर्यं तेजो वा ध्यायाम इति संबन्धः । वाक्यभेदेन वा योजना । तत्सवितुर्वरणीयं वीर्यं तेजो वा देवस्य ध्यायामः । यश्च बुद्धीः प्रचोदयात् प्रेरयत्यस्माकं तं च ध्यायामः । स च सवितैव भवति । लिङ्गव्यत्ययेन वा योजना । तत्सवितुर्वरणीयं भर्गो देवस्य ध्यायामः थियो यद्भर्गः अस्माकं प्रेरयति ॥ ३५ ॥
म०. विश्वामित्रदृष्टा सावित्री गायत्रीजपे विनियुक्ता । तदिति षष्ठ्यर्थे । तस्य देवस्य द्योतनात्मकस्य सवितुः प्रेरकस्यान्तर्यामिणो विज्ञानानन्दस्वभावस्य हिरण्यगर्भोपाध्यवच्छिन्नस्य वा आदित्यान्तरपुरुषस्य वा ब्रह्मणो वरेण्यं वरणीयं सर्वैः प्रार्थनीयं भर्गः सर्वपापानां सर्वसंसारस्य च भर्जनसमर्थं तेजः सत्यज्ञानानन्दादिवेदान्तप्रतिपाद्यं वयं धीमहि ध्यायामः । छान्दसं संप्रसारणम् । यद्वा मण्डलं पुरुषो रश्मय इति त्रयं भर्गःशब्दवाच्यम् । भर्गो वीर्यं वा । 'वरुणाद्ध वा अभिषिषिचानाद्भर्गोऽपचक्राम वीर्यं वै भर्गः' (५। ४।५।१) इति श्रुतेः । तस्य कस्य । यः सविता नोऽस्माकं धियः बुद्धीः कर्माणि वा प्रचोदयात्प्रकर्षेण चोदयति प्रेरयति सत्कर्मानुष्ठानाय । यद्वा वाक्यभेदेन योजना । सवितुर्देवस्य तत् वरेण्यं भर्गो ध्यायामः । यश्च नो बुद्धीः प्रेरयति तं च ध्यायामः । स च सवितैव । लिङ्गव्यत्ययेन योजना । सवितुर्दैवस्य तत् भर्गो धीमहि । यो यत् भर्गो नो बुद्धीः प्रेरयति ॥ ३५ ॥

षट्त्रिंशी।
परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ अ॑श्नोतु वि॒श्वत॑: । येन॒ रक्ष॑सि दा॒शुष॑:।। ३६ ।।
उ० परि ते । आग्नेयी गायत्री । हे अग्ने, पर्यश्नोतु परिव्याप्नोतु । ते तव स्वभूतो रथः । अस्मान् विश्वतः सर्वतः । कथंभूतो रथः । दूडभः दुर्दभः । दुरुपसर्गः प्रतिषेधार्थीयः । दभ्नोतिर्वधकर्मा । अवध्यः । येन रथेन रक्षसि दाशुषः यजमानानाम् । 'यजमाना वै दाश्वांसः' इति श्रुतिः । स रथोऽस्मान् पर्यश्नोतु इति संबन्धः ॥ ३६॥
बृहदुपस्थानं समाप्तम् ।
म०. आग्नेयी गायत्री वामदेवदृष्टा जपे विनियुक्ता। हे अग्ने, ते तव रथोऽस्मान् यजमानान् विश्वतः सर्वासु दिक्षु पर्यश्नोतु परितो व्याप्नोतु अस्मद्रक्षणाय सर्वतस्तिष्ठतु । किंभूतो रथः । दूडभः । दभ्नोतिर्वधकर्मा । दुःखेन दभ्यते दुर्दभः । केनापि सहसा हिंसितुमशक्यः । 'उकारं दुर्दे० ' (प्रा० का० ३।३। ४) इति प्रातिशाख्यसूत्रेण दुरो रेफस्य उकारः अग्निपदस्य डः । येन रथेन त्वं दाशुषो यजमानान् रक्षसि पालयसि । 'यजमाना वै दाश्वांसः' ( २ । ३ । ४ । ३८ ) इति श्रुतेः ॥३६॥
बृहदुपस्थानं समाप्तम् ।