पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नः अस्मान् शᳪसः । शंसनं शंसः अनिष्टचिन्तनम् । कस्य संबन्धि, अररुषः । 'रा दाने' । अस्य क्वसौ षष्ठ्यां ररुष इति भवति, तन्नञा प्रतिषिध्यते । अररुषः अदातुः । अनुपभोग्यस्य शत्रोरित्यर्थः । धूर्तिः हिंसा । ध्वरति धूर्वति इति वधकर्मसु पठितम् । मर्त्यस्य मरणधर्मिणो मनुष्यस्य । मास्मान् व्याप्नोतु अररुषो मर्त्यस्य संबन्धि शंसनं धूर्तिश्चेति वाक्यार्थः । किंच रक्षाणः । रक्ष नः गोपायास्मान् हे ब्रह्मणस्पते ॥३०॥
म० रा दाने' इति धातोः क्वसुन्नन्तस्य षष्ठ्येकवचने ररुष इति रूपम् । ररौ इति ररिवांस्तस्य ररुषः । दानं कृतवत इत्यर्थः । तस्य निषेधादररुष इति । कदाचिदपि हविर्दानमकृतवत इत्यर्थः । तादृशस्य मर्त्यस्य मनुष्यस्य शंसो धूर्तिश्च नोऽस्मान् मा प्रणक् प्रकर्षेण व्याप्नोतु । नशिर्व्याप्त्यर्थः । यद्वा 'नश अदर्शने' । मा प्रणक् प्रकर्षेण मा नाशयतु । शंसनं शंसोऽनिष्टचिन्तनम् । धूर्तिर्हिंसा । 'ध्वरति धूर्वति' ( निघ० २।१९) इति वधकर्मसु पठितत्वात् शत्रुकृतमनिष्टचिन्तनं शत्रुकृता हिंसा चास्मान् मा व्याप्नोत्वित्यर्थः । किंच हे ब्रह्मणस्पते वेदस्य पालकाग्ने, नोऽस्मान् रक्ष । 'द्व्यचोऽतस्तिङः' (पा० ६।३।१३५) इति संहितायां दीर्घः । णत्वं पूर्ववत् ॥३०॥

एकत्रिंशी।
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॑रा॒धर्षं॒ वरु॑णस्य ।। ३१ ।।
उ० महित्रीणाम् । आदित्यदेवत्यस्तृचो गायत्रः । पथि स्वस्त्ययनम् । महि महत् त्रीणां त्रयाणामादित्यानाम् अवोस्तु अवनमवः पालनं भवतु । कथंभूतं पालनम् । द्युक्षम् द्युतिमन्ति द्रव्याणि यस्मिन्पालने क्षियन्ति निवसन्ति तत् द्युक्षम् । किंनाम्नामादित्यानाम् । मित्रस्य अर्यम्णः वरुणस्य च । दुराधर्षमित्यवनविशेषणम् । दुराधर्षम् । नञोर्थे दुरुपसर्गः । अनाधर्षम् अशक्यमाधर्षयितुमन्यैः ॥ ३१ ॥
म०. सत्यधृतिदृष्ट आदित्यदेवत्यस्तृचो गायत्रीजपे विनियुक्तः पथि जप्त उपद्रवनाशकश्च । मित्रस्यार्यम्णो वरुणस्येति त्रीणां त्रयाणां देवानां संबन्धि अवः पालनमस्तु । किंभूतमवः । महि महत् तथा द्युक्षं द्युमन्ति सुवर्णादिद्रव्याणि क्षियन्ति निवसन्ति यस्मिन् पालने तथाविधम् । दुराधर्षं तिरस्कर्तुमशक्यम् । त्रीणां त्रिशब्दस्यामि छन्दसि त्रयादेशो वेति वाच्यम् (पा० ७ । १ । ५३)॥३१॥

द्वात्रिंशी।
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ᳪसः ।। ३२ ।।
उ० नहि तेषाम् । नहि कदाचित्तेषामादित्यपालितानां यजमानानाम् अमाचन । अमाशब्दो गृहवचनः । चनशब्दोऽप्यर्थे । गृहेऽपि सताम् । नाध्वसु वारणेषु । नच मार्गेषु सता मम । कथंभूतेषु वारणेषु । यत्रावस्थिताश्चौराः पथिकान्वारयन्ति ते वारणाः पन्थानः । एतदुक्तं भवति । न गृहस्थितानां नापि गृहाद्बहिः । ईशे रिपुरघशᳪसः । । 'ईश ऐश्वर्ये' । 'लोपस्त आत्मनेपदेषु' इति तकारलोपः । न ईष्टे । रिपुः अघं पापं यः शंसति चौरादिः सोऽघशंसः ॥ ३२॥ .
म० अमाशब्दो गृहनामसु पठितः (निघ० ३।४ ।११)। चनशब्दोऽप्यर्थे । अमा चन गृहेऽपि वर्तमानानां । तेषां तथा वारणेषु चोरव्याघ्रादयो यत्र स्थिता निवारयन्ति पथिकान् ते वारणास्तेषु चोरव्याघ्रभयाढ्येषु अध्वसु मार्गेषु वा वर्तमानानां तेषां मित्रार्यमवरुणैस्त्रिभिर्देवैः पालितानां यजमानानामुपद्रवायेति शेषः । अघशंसः सर्वदा पापस्य प्रशंसको रिपुः शत्रुः नहि ईशे समर्थो न भवति । 'लोपस्त आत्मनेपदेषु' (पा. ७।१।४१) इति तलोपः । 'अधीगत्यर्थदयेशां कर्मणि' ( पा० २।३। ५२ ) इति तेषामिति षष्ठी। मित्रादिभिः पालितानामस्माकं गृहेऽरण्ये वा नास्ति शत्रुबाध इत्यर्थः ॥ ३२॥

त्रयस्त्रिंशी।
ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ।। ३३ ।।
उ० ते हि पुत्रासः । कस्मात् पुनरादित्यगुप्तानां गृहे बहिश्च शत्रुर्नेष्टे, यतस्ते पुत्रा अदितेः । एवं तावदेकम् । इदमपरम् । प्रजीवसे मर्त्याय ज्योतिर्यच्छन्ति । प्रयच्छन्ति ददति । कस्मै । मर्त्याय मनुष्याय । किं प्रयच्छन्ति ज्योतिः । | अजस्रम् अनुपक्षीणम् । किमर्थं ज्योतिः प्रयच्छन्ति । | जीवसे चिरंजीवनाय ॥ ३३ ॥ ।
म० कथं तद्रक्षितानां शत्रुभयाभावस्तदाह । हि यतस्ते । अदितेः अखण्डितशक्तेर्देवमातुः पुत्रासः पुत्राः पूर्वोक्ता मित्रार्यमवरुणाः मर्त्याय मनुष्याय यजमानायाजस्रं निरन्तरमनुपक्षीणं ज्योतिः तेजः प्रयच्छन्ति । किमर्थं जीवसे जीवितुम् । यथा चिरं जीवनं भवति तथा तदुपायज्ञानं प्रयच्छन्तीत्यर्थः ॥ ३३ ॥

चतुस्विंशी।
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। ३४ ।।