पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रज्ञाम् । उत अपिच । चेतः सामान्यप्रतिपत्तिचेतः। धृतिश्च प्रसिद्धा । यन्मनः अन्तर्ज्योतिरमृतं च प्रजासु । यस्मान्न ऋते येन च विना न किंचन कर्म क्रियते । तन्मे मन इति व्याख्यातम् ॥३॥
म० यत् मनः प्रज्ञानं विशेषेण ज्ञानजनकम् प्रकर्षेण ज्ञायते येन तत् प्रज्ञानम् । 'करणाधिकरणयोश्च' (पा० ३ । ३ । ११७) इति करणे ल्युट्प्रत्ययः । उत अपि यत् मनः चेतः चेतयति सम्यक् ज्ञापयति तच्चेतः । 'चिती संज्ञाने' अस्मात् ण्यन्तादसुन्प्रत्ययः । सामान्यविशेषज्ञानजनकमित्यर्थः। यच्च मनो धृतिर्धैर्यरूपम् । मनस्येव धैर्योत्पत्तेर्मनसि धैर्यमुपचर्यते कार्यकारणयोरभेदात् । यच्च मनः प्रजासु जनेषु अन्तर्वर्तमानं सत् ज्योतिः प्रकाशकं सर्वेन्द्रियाणाम् । उक्तमपि पुनरुच्यते आदरार्थम् । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु० १। ४२) इति यास्कोक्तेः । यच्चामृतममरणधर्मि आत्मरूपत्वात् । यस्मान्मनसः ऋते यन्मनोविना किंचन किमपि कर्म न क्रियते जनैः । सर्वकर्मसु प्राणिनां मनःपूर्वं प्रवृत्तेर्मनःस्वास्थ्यंविना कर्माभावादित्यर्थः । 'अन्यारादितरर्ते-' (पा. २। ३ । २९) इत्यादिना यस्मादिति ऋतेयोगे पञ्चमी । तन्मे मन इति व्याख्यातम् ॥ ३ ॥

चतुर्थी।
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म् ।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ४ ।।
उ० येनेदम् । येन मनसा इदं भूतं भूतकालम् , भुवनं वर्तमानकालं, भविष्यत् भविष्यत्कालं च । परिगृहीतम् अमृतेन सर्वम् । येन च मनसा यज्ञस्तायते तन्यते । सप्तहोता । सप्त होतारो ह्यग्निष्टोमे भवन्ति । तन्मे मन इति व्याख्यातम् ॥ ४॥
म० येन मनसा इदं सर्वं परिगृहीतम् परितः सर्वतो ज्ञातम् । इदं किंभूतम् । भूतकालसंबन्धि वस्तु । भुवनं भवतीति भुवनम् । भवतेः क्युप्रत्ययः वर्तमानकालसंबन्धि । भविष्यत् 'लृटः सद्वा' (पा० ३।३। १४ ) इति शतृप्रत्ययः 'तौ सत्' (पा० ३।२। १२७) इत्युक्तेः त्रिकालसंबद्धवस्तषु मनः प्रवर्तत इत्यर्थः । श्रोत्रादीनि तु प्रत्यक्षमेव गृह्णन्ति । कीदृशेन येन । अमृतेन शाश्वतेन । मुक्तिपर्यन्तं श्रोत्रादीनि नश्यन्ति मनस्वनश्वरमित्यर्थः । येन च मनसा यज्ञोऽग्निष्टोमादिः तायते विस्तार्यते । 'तनोतेर्यकि' (पा० ६ । ४ । ४४ ) इत्याकारः । कीदृशो यज्ञः । सप्तहोता सप्त होतारो देवानामाह्वातारो होतृमैत्रावरुणादयो यत्र स सप्तहोता । अग्निष्टोमे सप्त होतारो भवन्ति । तन्मे मन इति व्याख्यातम् ॥ ४ ॥

पञ्चमी।
यस्मि॒न्नृच॒: साम॒ यजू॑ᳪषि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः ।
यस्मि॑ᳪश्चि॒त्तᳪ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ५ ।।
उ० यस्मिन्नृचः यस्मिन्मनसि ऋचः प्रतिष्ठिताः। यस्मिन्सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । कथमिव । रथनाभौ इव आराः । यस्मिन् चित्तं संज्ञानम् सर्वम् तस्य तस्यार्थस्य । ओतं निक्षिप्तम् तन्तुसंततमिव कृतं प्रजानाम् । तन्मे मन इति व्याख्यातम् ॥ ५॥
म० यस्मिन् मनसि ऋचः प्रतिष्ठिताः । यस्मिन् साम सामानि प्रतिष्ठितानि । यस्मिन् यजूंषि प्रतिष्ठितानि । मनसः स्वास्थ्ये एव वेदत्रयीस्फूर्तेर्मनसि शब्दमात्रस्य प्रतिष्ठितत्वम् | 'अन्नमयं हि सोम्य मनः' इति छान्दोग्ये मनस एव स्वास्थ्ये वेदोच्चारणशक्तिः प्रतिपादिता । तत्र दृष्टान्तः । रथनाभौ आराः इव । यथा आराः रथचक्रनाभौ मध्ये प्रतिष्ठितास्तद्वच्छब्दजालं मनसि । किंच प्रजानां सर्वं चित्तं ज्ञानम् सर्वपदार्थविषयि ज्ञानं यस्मिन् मनसि ओतं प्रोतं निक्षिप्तं तन्तुसन्ततिः पटे इव सर्वं ज्ञानं मनसि निहितम् । मनःस्वास्थ्ये एव ज्ञानोत्पत्तिर्मनोवैयग्र्ये च ज्ञानाभावः । तन्मे मम मनः शिवसंकल्पं शान्तव्यापारमस्तु ॥ ५॥

षष्ठी।
सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॒न्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव ।
हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ६ ।।
उ० सुषारथिः । यन्मनः मनुष्यान् । नेनीयते अत्यर्थं नयति । कथमिव । सुषारथिः कल्याणसारथिः अश्वान् इव यन्मनुष्यान् । यच्च मनः सुषारथिरिव । अभीशुभिः प्रग्रहैः वाजिन इव वेजनवतोऽश्वानिव यमयतीति शेषः । द्वे उपमे एकत्र नयनमन्यत्र नियमनमर्थः । यच्च हृत्प्रतिष्ठम् । तत्रोपलब्धेः । यच्च अजिरं जरारहितम् । यच्च जविष्ठं अतिशयेन गन्तृ । तन्मे मनः शिवसंकल्पमस्तु ॥ ६ ॥
म० यत् मनो मनुष्यान्नरान्नेनीयते अत्यर्थमितस्ततो नयति । नयतेः क्रियासमभिहारे यङ् । मनःप्रेरिता एव प्राणिनः प्रवर्तन्ते । मनुष्यग्रहणं प्राणिमात्रोपलक्षकम् । तत्र दृष्टान्तः । सुसारथिः अश्वानिव शोभनः सारथिर्यन्ता यथा कशया अश्वान् नेनीयते । द्वितीयो दृष्टान्तः । अभीशुभिर्वाजिन इव यथा सुसारथिरभीशुभिः प्रग्रहैः वाजिनोऽश्वान्नेनीयत इत्यनुषङ्गः । रश्मिभिर्नियच्छतीत्यर्थः । उपमाद्वयम् । प्रथमायां नयनं द्वितीयायां नियमनम् । तथा मनः प्रवर्तयति नियच्छति च नरानित्यर्थः । यच्च मनः हृत्प्रतिष्ठं हृदि प्रतिष्ठा स्थितिर्यस्य तत् हृद्येव मन उपलभ्यते । यच्च मनः अजिरं