पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

महिमानमद्यास्मिन्कालेऽपि आयवः मनुष्याः अनुष्टुवन्ति आनुपूर्व्येण स्तुवन्ति । तत्र दृष्टान्तः । पूर्वथा पूर्वमिव यथा पूर्वमृषयोऽस्तुवन्नेवमिदानीमपि नराः स्तुवन्तीत्यर्थः । 'प्रत्नपूर्वविश्वमात्थालच्छन्दसि' (पा० ५। ३ । १११) इति पूर्वशब्दादिवार्थे थाल्प्रत्ययः । इमा उ त्वा यस्यायम् अयं सहस्रम् (३३ । ८१-८३) ऊर्ध्व ऊ षुणः (११ । ४२) एताः प्रतीकोक्ताः ॥ ९७॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
त्रयस्त्रिंशत्तमोऽध्यायो गतोऽयं सार्वमेधिकः ॥ ३३ ॥

चतुस्त्रिंशोऽध्यायः ।
तत्र प्रथमा ।
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। १ ।।
उ० यजाग्रतः षट्कण्डिकास्त्रिष्टुभो मनोदेवत्याः। अस्मिन्नध्याये लैङ्गिको विनियोगः । लिङ्गंच सामर्थ्यमुच्यते अभिधानशक्तिः । यन्मनः जाग्रतः पुरुषस्य दूरं उदैति उद्गच्छति चक्षुःप्रभृतीन्यपेक्ष्य । यच्च दैवम् देवो विज्ञानात्मा सोनेन गृह्यत इति दैवम् । उक्तंच 'मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवमि'ति । तदु सुप्तस्य । तदःस्थाने यदोवृत्तिः । उकारः समुच्चयार्थीयः। यच्च मनः सुप्तस्य तथैव तेनैव प्रकारेण एति । यच्च दूरंगमं दूरं गच्छतीति दूरंगमम् अतीतानागतवर्तमानव्यवहितविप्रकृष्टग्रहीतृ । ज्योतिषां श्रोत्रादीनां विज्ञाननेतॄणां मध्य एकमेव ज्योतिः । तत् मे मनः शिवसंकल्पम् । संकल्पः काममूलपदार्थस्य ख्यादेः सुरूपताज्ञानवतः कामप्रभृति शान्तसंकल्पम् अस्तु भवतु ॥ १ ॥
म० अनारभ्याधीतोऽध्यायः आ पितृमेधात् आदित्ययाज्ञवल्क्यदृष्टा मन्त्राः पाठे विनियुक्ताः । षडृचस्त्रिष्टुभो मनोदेवत्याः शिवसंकल्पदृष्टाः । ऋषिर्वदति । तन्मे मनः शिवसंकल्पमस्तु शिवः कल्याणकारी धर्मविषयः संकल्पो यस्य तत् तादृशं भवतु । मन्मनसि सदा धर्म एव भवतु न कदाचित्पापमित्यर्थः । तत्किम् । यत् मनो जाग्रतः पुरुषस्य दूरमुदैति उद्गच्छति । चक्षुराद्यपेक्षया मनो दूरगामीत्यर्थः । यच्च दैवं दीव्यति प्रकाशते देवो विज्ञानात्मा तत्र भवं दैवमात्मग्राहकमित्यर्थः । 'मनसैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम्' इति श्रुतेः । तत् उ । यदः स्थाने तच्छब्दः उकारश्चार्थः । यच मनः सुप्तस्य पुंसः तथैव एति यथा गतं तथैव पुनरागच्छति स्वापकाले सुषुप्तावस्थायां पुनरागच्छति । यच्च दूरंगमं दूरात् गच्छतीति दूरंगमम् खश्प्रत्ययः । अतीतानागतवर्तमानविप्रकृष्टव्यवहितपदार्थानां ग्राहकमित्यर्थः । यच्च मनो ज्योतिषां प्रकाशकानां श्रोत्रादीन्द्रियाणामेकमेव ज्योतिः प्रकाशकं प्रवर्तकमित्यर्थः । प्रवर्तितान्येव श्रोत्रादीन्द्रियाणि स्वविषये प्रवर्तन्ते । आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति न्यायोक्तेर्मनः संबन्धमन्तरा तेषामप्रवृत्तेः । तादृशं मे मनः शान्तसंकल्पमस्तु ॥ १॥

द्वितीया।
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीरा॑: ।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। २ ।।
उ० येन कर्माणि । येन मनसा सता कर्माणि । अपसः अप इति कर्मनाम तद्धितलोपः । अपस्विनः कर्मवतः । मनीषिणः मेधाविनः । यज्ञे कृण्वन्ति कुर्वन्ति । विदथेषु | वेदनेषु यज्ञविधिविधानेषु धीराः धीमन्तः । यच्च अपूर्वम् न विद्यते पूर्वमिन्द्रियं यस्मात्तदपूर्वम् । यद्वा अपूर्वमनपरम् । यच्च यक्षं पूज्यम् । यच्च अन्तर्मध्ये प्रजानामास्ते । तन्मे मन इति व्याख्यातम् ॥२॥
म० मनीषिणः मेधाविनः यज्ञे येन मनसा सता कर्माणि कृण्वन्ति कुर्वन्ति 'कृ करणे' स्वादिः । मनःस्वास्थ्यविना कर्माप्रवृत्तेः । केषु सत्सु । विदथेषु ज्ञानेषु सत्सु विद्यन्ते ज्ञायन्ते तानि विदथानि तेषु । वेत्तेरौणादिकोऽथप्रत्ययः प्रत्ययोदात्तत्वेन मध्योदात्तं पदम् 'प्रत्ययः परश्च आद्युदात्तश्च' (पा० ३ । १। १-३) इति पाणिन्युक्तेः यज्ञसंबन्धिनां हविरादिपदार्थानां ज्ञानेषु सत्स्वित्यर्थः । कीदृशा मनीषिणः । अपसः अप इति कर्मनाम ( निघ० २ । १।१) अपो विद्यते येषां ते अपस्विनः कर्मवन्तः 'अस्मायामेधास्रजो विनिः' (पा० ५।२। १२१) इति विन्प्रत्ययः 'विन्मतोर्लुक्' इतीष्ठाभावेऽपि छान्दसो विनो लुक् (पा० ५ । ३ । ६५) सदा कर्मनिष्ठा इत्यर्थः । तथा धीराः धीमन्तः धीर्विद्यते येषां ते धीराः कर्मण्यण् ( पा० ३।२।१) यच्च मनः अपूर्वम् न विद्यते पूर्वमिन्द्रियं यस्मात्तदपूर्वम् इन्द्रियेभ्यः पूर्वं मनसः सृष्टेः। यद्वा अपूर्वमनपरमवाह्यमित्युक्तेरपूर्वमात्मरूपमित्यर्थः । यच्च यक्षं यष्टुं शक्तं यज्ञम् । यजतेरौणादिकः सन्प्रत्ययः 'ञित्यादिर्नित्यम्' (पा० ६ । १ । १९७ ) इत्याद्युदात्तं पदम् । यच्च प्रजायन्ते इति प्रजास्तासां प्राणिमात्राणामन्तः शरीरामध्ये आस्ते इतरेन्द्रियाणि बहिःष्ठानि मनस्त्वन्तरिन्द्रियमित्यर्थः । तत् तादृशं मे मनः शिवसंकल्पमस्त्विति व्याख्यातम् ॥ २॥

तृतीया ।
यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किं च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मन॑: शि॒वस॑ङ्कल्पमस्तु ।। ३ ।।
उ० यत्प्रज्ञानम् । यन्मनः प्रज्ञानं विशेषप्रतिपत्ति