पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पदम् । किमर्थम् । अभिष्टये अभिमतलाभाय । पृषोदरादि. लोपः । हव्यदातये हविषो दानाय च । स नरः इत्था अनेन हेतुना सेवनरूपेण शशमे शाम्यति । यमनियमशमदमादियुक्तो भवतीत्यर्थः । कीदृक् सः । देवतातये देवस्य कर्म देवतातिः तस्मै यज्ञाय । ऋधक् ऋध्नोतीति ऋधक् समृद्धिमान् यज्ञसंपत्तिक्षमधनाढ्यः सन् शान्तो भवतीत्यर्थः । बट् श्रत् सत्रा अद्धा इत्थेति निपातः । सत्यवचनो वा । सत्यं शाम्यति । एत्वाभ्यासलोपाभाव आर्षः शशमेत्यत्र ॥ ८७ ॥

अष्टाशीतितमी। .
आ या॑त॒मुप॑ भूषतं॒ मध्व॑: पिबतमश्विना ।
दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तम् ।। ८८ ।।
उ० आयातं आगच्छतम् । उपभूषतम् अलंकुरुतं च यज्ञम् । मध्वः मधुरूपस्य स्वमंशं पिबतं च । हे अश्विनौ । किंच । दुग्धं पयः महावीरसेचनार्थम् । हे वृषणौ सेक्तारौ हे जेन्यावसू जेन्यं जितं स्वीकृतं वसु धनं याभ्यां तो जेन्यावसू । किंच मा नो मर्धिष्टं माच मर्धिष्टं संप्रहारं कुरुतम् नः अस्मान्प्रति । आगतम् अवश्यं च आगच्छतम् ॥ ८८ ॥
म० वसिष्ठदृष्टाश्विदेवत्या । हे अश्विना अश्विनौ, युवामायातं यज्ञं प्रत्यागच्छतम् । आगत्य च उपभूषतमलंकुरुतं यज्ञम् । मध्वः मधुरं सोमं पिबतम् । कर्मणि षष्ठी नुमभावश्छान्दसः । किंच हे वृषणा वृषणौ वर्षकौ यज्ञफलस्य सेक्तारौ, हे जेन्यावसू, जेन्यं जेतव्यं जितं वा आ समन्तात् वसु धनं याभ्यां तौ जेन्यावसू वशीकृतधनौ तादृशौ । युवां पयः वृष्ट्युदकं दुग्धमन्तरिक्षात्प्रक्षारयतम् । दुहेर्लोण्मध्यमद्विवचनं दुग्धमिति । किंच नोऽस्मान्मा मर्धिष्टं मा हिंस्तम् । मृधिर्हिंसार्थः लुङ् । किं बहुना युवामागच्छतम् । आदरार्थं पुनर्वचनम् ॥ ८८ ॥

एकोननवतितमी।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।। ८९ ।।
उ० प्रैतु अस्मदीयं यज्ञं प्रति आगच्छतु । ब्रह्मणस्पतिः बृहस्पतिः । प्रैतु च देवी वाक् । सूनृता शोभना सत्यवती त्रयीलक्षणा । कं प्रत्यागच्छत्वित्यत आह । अच्छ अभि। वीरं पुत्रं महावीरं वा । नर्यम् नृभ्यो हितम् अनुग्राहकम् । पङ्तिराधसं ब्रह्मपङ्क्तिसाधकम् । पङ्क्तिपावनमित्यर्थः । किंच देवाः यज्ञं नयन्तु नः अस्माकम् ॥ ८९ ॥
म० कण्वदृष्टा वैश्वदेवी । ब्रह्मणो वेदस्य पतिः हिरण्यगर्भः नोऽस्माकं यज्ञमच्छ यज्ञाभिमुखं प्रैतु प्रकर्षेणागच्छतु । ब्रह्मणस्पतिः । 'ब्रह्मणः पाता पालयिता वा' (निरु० १० । १२) इति यास्कः । तथा देवी देवतात्मा सूनृता प्रियसत्यस्वरूपा तस्यैव वाक् त्रयीरूपा यज्ञं प्रैतु । किंच देवा यष्टव्या नोऽस्मान् यज्ञं नयन्तु प्रापयन्तु । यज्ञं कारयन्त्वित्यर्थः । कीदृशं यज्ञम् । वीरं विशेषेणेरयति वीरस्तं शत्रूणां विशेषोन्मूलयितारम् । 'वीरो - वीरयत्यमित्रान्' ( निरु० १। ७) इति यास्कः । नर्यं नृभ्यो मनुष्येभ्यो हितम् 'उगवादिभ्यः' (पा० ५। १ ।२) इति यत् । पङ्क्तिराधसम् इन्द्रस्य पुरोडाशः हर्योर्धानाः पूष्णः करम्भः सरस्वत्यै दधि मित्रावरुणयोः पयस्या एषा हविःपङ्क्तिः, द्विनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सवनं सकृन्नाराशंसं तृतीयं सवनम् एषा नाराशंसपङ्क्तिः, त्रीणि सवनानि पशुरुपवसथ्यः पशुरनुबन्ध्यः एषा सवनपङ्क्तिः, एताभिः पङ्क्तिभिः राधः समृद्धिर्यस्य पङ्क्तयो राध्यन्ते साध्यन्ते यत्रेति वा पङ्क्तिराधाः तम् । ब्रह्मणस्पत्यादयः ईदृशं यज्ञमस्माभिः कारयन्त्विति सर्वार्थः ॥ ८९ ॥

नवतितमी।
च॒न्द्रमा॑ अ॒प्स्वन्तरा सु॑प॒र्णो धा॑वते दि॒वि ।
र॒यिं पि॒शङ्गं॑ बहु॒लं पु॑रु॒स्पृह॒ᳪ हरि॑रेति॒ कनि॑क्रदत् ।। ९० ।।
उ० चन्द्रमा अप्सु । आहुतिपरिणामोऽत्रोच्यते । योसौ चन्द्रमाः स तथा सोमरूपापन्नः । अभिषुतः अप्स्वन्तः मध्ये रसरूपेण आस्थितः। अग्नौ हुतः सन् सुपर्णः सुपतनः धावते दिवि । तस्मात् पर्जन्यरूपमास्थाय उदकदानद्वारेण रयिं धनम् पिशङ्गं पीतवर्णम् । बहुलमसंख्यातम् । पुरुस्पृहं बहवो यत्र स्पृहयन्ति । हरिः सोम एति । कनिक्रदत् पर्जन्यरूपेणात्यर्थं स्तनितं कुर्वन् ॥ ९० ॥
म० त्रितदृष्टाहुतिपरिणामवादिन्यैन्द्री । 'आहुतेर्होमद्रव्यस्य परिणामो द्युपर्जन्यपृथिवीपुरुषयोषात्मकपञ्चाग्निक्रमेण परिपाकः' 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति श्रुत्योक्तः तं वदत्येषा ऋक् । अधियज्ञॆ तावदर्थः । चन्द्रं देवानामाह्लादं मिमीते करोति चन्द्रमाः लतारूपः सोमोऽभिषुतः सन् अप्सु वसतीवरीनिग्राभ्यादिजलेषु अन्तर्मध्ये रसरूपेण स्थिताग्नौ हुतः सन् सुपर्णः गरुडाकृतिः साधुपतनो भूत्वा दिवि आधावते शीघ्रं गच्छति । स गतौ' इत्यस्य शीघ्रगतौ धावादेशः 'तृतीयस्यामितो दिवि सोम आसीत्' इति श्रुतेः । 'हरिः सोमो हरितवर्णः' ( निरु० ४ । १९) इति यास्कोक्तेर्हरिः पूर्वोक्तः सोम एव दिवि गतः पर्जन्यरूपमास्थायोदकदानद्वारेण रयिमेति रयिरिति धननाम' ( निरु० ४ । १७) इति यास्कः । धान्यभावं प्राप्नोति व्रीहियवाद्यन्नरूपो भवतीत्यर्थः । कीदृशं रयिम् । पिशङ्गम् परिपाकेन व्रीहियवादिकं धान्यं पीतवर्णं भवति । बहुलमसंख्यातम् । चतुर्विधभूतग्रामजीवनपर्याप्तमित्यर्थः । पुरूस्पृहं पुरूणां बहूनामपि स्पृहा लिप्सा यत्र तम् । बहवोऽपि यद्धान्यमिच्छन्ति तद्रूपो भवतीत्यर्थः । कीदृशो हरिः । कनिक्रदत् पर्जन्यरूपात्यर्थस्तनितं कुर्वन् । 'दाधर्ति-' (पा० ७ । ४ । ६३ ) इत्यादि निपातः ॥ ९०॥