पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकनवतितमी।
दे॒वं-दे॑वं॒ वोऽव॑से दे॒वं-दे॑वम॒भिष्ट॑ये । दे॒वं-दे॑वᳪ हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ।। ९१ ।।
उ० देवं देवं वः । देवं देवमिति वीप्सार्थोऽभ्यासः । यावन्तो देवास्तावतो देवान् वः युष्माकमवसे पालनाय । हुवेमेत्यनेन संबन्धः । आह्वयामः । देवं देवमभिष्टये अभीष्टकामावाप्तये आह्वयामः । देवं देवं हुवेम । वाजसातये अन्नसंभजनाय । कथं हुवेमेतिचेत् । गृणन्तः स्तुतिभिः देव्या धिया । देवतायाथात्म्यचिन्तनपरया बुद्ध्या ॥ ९१ ॥
म० मनुदृष्टा वैश्वदेवी । वीप्सार्थोऽभ्यासः । यावन्तो देवास्तान् वो युष्मानवसेऽवनाय पालनाय वयं हुवेम आह्वयामः । अभिष्टयेऽभिलषितफलाप्तये देवं देवं हुवेम । वाजसातयेऽन्नलाभाय देवं देवं हुवेम । 'अभ्यासे भूयांसमर्थं मन्यन्ते' ( निरु० १० । ४२ ) इति यास्कः । कीदृशा वयम् । देवया देवतायाथात्म्यानुसन्धानपरया धिया बुद्ध्या गृणन्तः स्तुवन्तः । यद्वा देव्या स्वरादिसौष्ठवेन दीप्यमानया धिया स्तुत्या गृणन्तः ॥ ९१ ॥

द्विनवतितमी ।
दि॒वि पृ॒ष्टो अ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन् ।
क्ष्मया॑ वृधा॒न ओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तम॑: ।। ९२ ।।
उ० दिवि पृष्टः । योऽग्निर्वैश्वानरः दिवि पृष्टः द्युलोके स्थितः आदित्यात्मना अरोचत देदीप्यते बृहन् महान् । सोऽयम् क्ष्मया पृथिव्या कारणभूतया । वृधानः वर्धमानः ओजसा बलेन च । चनोहितः चनसि
अन्ने हविर्लक्षणे हितः स्थापितः । ज्योतिषा बाधते तमः ॥ ९२
म० मेधदृष्टा वैश्वानरी । योऽग्निः दिवि द्युलोके पृष्टः सिक्तः आदित्यात्मना स्थितः सन् अरोचत दीप्यते 'पृषु सेके' निष्ठान्तः सेकः स्थितिरेव । कीदृशोऽग्निः । वैश्वानरः विश्वेषां नराणां हितः । बृहन् महान् । किंच सोऽग्निः ज्योतिषा स्वप्रकाशेन तमः नैशं बाधते लोकानुग्रहायान्धकारं निवर्तयति। कीदृशः । क्ष्मया वृधानः क्ष्मा पृथिवी तया तत्स्था मनुष्या उपलक्ष्यन्ते मञ्चाः क्रोशन्तीति वत् । भूस्थैर्वर्णाश्रमिभिः नरैर्दत्तेन हविषा वर्धमानः । अतएव ओजसा च चनोहितः ओषधिपाकक्षमेण तेजसा चनसेऽन्नाय हितः 'चन इत्यन्ननाम' (निरु० ६ । १८ ) अन्ननिष्पादक इत्यर्थः ॥ ९२ ॥

त्रिनवतितमी ।
इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त् प॒द्वती॑भ्यः ।
हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रि॒ᳪशत्प॒दान्य॑क्रमीत् ।। ९३ ।।
उ० इन्द्राग्नी अपात् । प्रवह्लिकेयमृक् । यथाप्रज्ञं तु व्याख्यायते । मानुषी वागनयोच्यते । उक्तंच 'अथ यन्मानुष्या वाचाह इतीदं कुरुतेतीदं कुरुतेति तदु ह तया चीयत' इति । हे इन्द्राग्नी, अपात् पादरहिता गद्या इयं वाक् । पूर्वा आअगात् आगता । पद्वतीभ्यः पादवतीभ्यः सकाशात् । हित्वी हित्वा परित्यज्य शिरः प्रथमं पदम् अन्यत्करोति । नहि लौकिक्या वाचः कश्चित्पदनियमोऽस्ति । जिह्वया विदुषः वावदत् वदन्ती । चरत् चरति । कियन्ति तत्र पदानि । त्रिंशत्पदानि त्रिंशत्संख्याकानि पदानि अक्रमीत् अतिक्रामति । नहि परतः त्राणविषयः ॥ ९३ ॥
म० सुहोत्रदृष्टा इन्द्राग्निदेवत्या प्रवह्लिका । हे इन्द्राग्नी, अपात्स्वयं पादरहितापि इयमुषाः पद्वतीभ्यः पादयुक्ताभ्यः सुप्ताभ्यः प्रजाभ्यः पूर्वा प्रथमभाविनी सती आ अगात् आगच्छति सा च तासां प्रजानां शिरो हित्वी निद्रात्याजनेन प्रेरयित्री । यद्वा शिरो हित्वी हित्वा त्यक्वाी स्वयमशिरस्का सती जिह्वया प्राणिनां वागिन्द्रियेण वावदत् । यङ्लुगन्तं । भृशं शब्दं कुर्वती सती चरत् चरति प्रसरति । अडभावः । एवं चरन्ती उषा एकदिनेन त्रिंशत्संख्यानि पदा पदानि गमनसाधनभूतान् मुहूर्तान् नि अक्रमीत् नितरां क्रमते । अहोरात्रेण त्रिंशन्मुहूर्तान्क्रामतीत्यर्थः । यद्वा वाक्पक्षेऽर्थः । इन्द्रः प्राणः अग्निः पुरुषः। हे इन्द्राग्नी, युवयोरेवैतत् कर्म यत् अपात् पादरहिता गद्यात्मिका त्रयीलक्षणेयं वाक् पूर्वा प्रथमभाविनी सती आ अगात् । पद्वतीभ्यः पादयुक्ताभ्यो रामायणभारतादिश्लोकात्मकवाल्मीकिव्यासादिवाणीभ्यः सकाशात् वेदवाचः प्राथम्यं श्रुत्योक्तम् ततो ब्रह्मैव प्रथममसृज्यतेति । एवं प्रथमजाया वाचोऽविकृतत्वं निर्णीय मानुष्या वाचो विकृतत्वमाह हित्वी शिर इति । शिर इति प्राधान्यादाख्यातपदमुच्यते। अभ्याज गां दण्डेन शुक्लां गां दण्डेनाभ्याजेत्येवं लौकिक्या वाचः पदप्रयोगनियमाभावात् शिरः शिरस्थानीयमाख्यातपदं हित्वा त्यक्त्वा जिह्वया विदुषो वागिन्द्रियेण वावदत् अतिवदन्ती सती चरति प्रकाशीभवति । एवं चरन्ती सा त्रिंशत्पदानि न्यक्रमीत् क्रमति। अत्र पदशब्दोऽङ्गुलवचनः । मूलाधारादारभ्य मुखपर्यन्तं त्रिंशदङ्गुलानि क्रामति । एवं वाग्विषयोऽर्थः ॥ ९३ ॥

चतुर्नवतितमी।
दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कᳪ सरा॑तयः ।
ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विद॑: ।। ९४ ।।
उ० देवासो हि ष्मा । हि स्म निपातौ । ये देवासः मनवे समन्यवः मनुना समानदीप्तयः समानक्रोधा वा । । विश्वे सर्वे साकं सह उपास्याः । सरातयः समानदानाश्च । ते विश्वेदेवाः नः अस्माकम् अद्य । ते च अपरम् आगामिकाले । तुचेतु नः । तुगित्यपत्यनाम । अपत्याय च