पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धनरक्षार्थमायुधधारके । तथाच यास्कः 'पविः शल्यो भवति यद्धि पुनाति कायं तद्वत्पवीरमायुधं तद्वानिन्द्रः पवीरवान्' (नि. १२ । ३१) इति । धनिनातियत्नेन गुप्तमपि धनं तत आच्छिद्य धर्मिष्ठाय ददातीति भावः ॥ ८२॥

त्र्यशीतितमी।
अ॒यᳪ स॒हस्र॒मृषि॑भि॒: सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।
स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ।। ८३ ।।
उ० अयᳪसहस्रम् । सतोबृहती । योयमिन्द्रः सहस्रं सहस्रकृत्वः । ऋषिभिः सहस्कृतः । सह इति बलनाम । बलं कृत्वा स्तुतः सन् समुद्र इव पप्रथे प्रथते । तस्यास्य सत्यः सः महिमा शवः बललक्षणः गृणे । गीयते अस्माभिर्यज्ञेषु विप्रराज्ये । यज्ञे हि ब्राह्मणाः स्वतन्त्रा राजान इव भवन्ति ॥ ८३॥
म० मेधातिथिदृष्टादित्यदेवत्या सतोबृहती । अयमादित्यरूप इन्द्रः समुद्र इव उदधिवत् पप्रथे प्रथितो विस्तीर्णो व्यापकोऽभूत् । कीदृशोऽयम् । ऋषिभिरतीन्द्रियार्थदर्शिभिः सहस्कृतः सहसा बलेन युक्तः कृतः । स्तुत्या हि देवताबलं वर्धते । किंच अस्यादित्यस्य स महिमा सत्योऽवितथः । शवो बलं च सत्यम् । यज्ञेषु विप्रराज्ये विप्राणां राज्ये स्तोत्रशस्त्रसंदेहे गृणे स्तौमि तं महिमानमिति शेषः । यज्ञेषु विप्राः स्वतन्त्राः राजान इव भवन्ति । राज्ञां कर्म राज्यम् । स्तोत्रशस्त्राणां संसदि पठनेन सोऽयं स्तूयत इत्यर्थः ॥ ८३ ॥

चतुरशीतितमी।
अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वᳪ शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् ।
हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪस ईशत ।। ८४ ।।
उ० अदब्धेभिः सवितरिति व्याख्यातम् ॥ ८४ ॥
म०. व्याख्याता ( ३३ । ६९) । षष्ठः पुरोरुग्गणः ।
समाप्तः॥ ८४॥

पञ्चाशीतितमी।
आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।
अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नोऽयᳪ शु॒क्रो अ॑यामि ते ।। ८५ ।।
उ० आ नः आयाहि नः अस्माकं यज्ञम् । दिविस्पृशं द्युलोकयायिनम् । ऋत्विग्यजमानैर्विद्वद्भिरारब्धः दक्षिणादिभिः संपन्नः यज्ञः दिवं स्पृशत्येव । हे वायो, सुमन्मभिः सुमनसैः संकल्पैः । आगतस्य किं फलमितिचेत् । अन्तः पवित्रे दशापवित्रस्य उपरि श्रीणानः होतृचमसे निषिच्यमानः सोमो वर्तते तत्र तव ग्रहो गृह्यते । अयं च यः शुक्रः सोमः तम् अयामि प्रापयामि ते तव ॥ ८५॥
म० इतोऽध्यायसमाप्त्यन्तं त्रयोदश ऋचः प्रतीकोक्ताश्चतस्रश्चेति ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्राः पूर्ववत् । जमदग्निदृष्टा वायुदेवत्या बृहत्य आद्या नव द्वादशी च। दशम्येकादशीत्रयोदश्यः सतोबृहत्यः । हे वायो, नोऽस्माकं यज्ञमायाहि आगच्छ । कीदृशं यज्ञम् । दिविस्पृशं द्युलोकव्यापिनम् ऋत्विग्यजमानवैदुष्याद्दक्षिणासंपन्नत्वाच्च स्वर्गेऽपि श्रूयमाणमित्यर्थः । आगम्य किं फलमत आह अन्तरिति । अन्तः पात्रमध्यस्थः पवित्रे दशापवित्रस्योपरि श्रीणानः श्रयमाणः होतृचमसेन विषिच्यमानोऽयं शुक्रः शुद्धः ऋजीषकल्करहितः सोमो रसात्मा ते तुभ्यं त्वदर्थमयामि नियतः त्वदीयभागत्वेन मया संस्कृतः । 'यमु उपरमे' कर्मणि चिण् ॥ ८५ ॥

षडशीतितमी।
इ॒न्द्र॒वा॒यू सु॑स॒न्दृशा॑ सु॒हवे॒ह ह॑वामहे ।
यथा॑ न॒: सर्व॒ इज्जनो॑ऽनमी॒वः स॒ङ्गमे॑ सु॒मना॒ अस॑त् ।। ८६ ।।
उ० इन्द्रवायू सुसंदृशा । सुसंदृशा सुतरां सम्यग्दर्शनीयौ । सुहवा स्वाह्वानौ च । इह हवामहे आह्वयामः । तथा चाह्वयामः यथा येन प्रकारेण नः अस्माकम् सर्वइत् सर्वएव जनः । अनमीवः अमीवा व्याधिस्तद्रहितः। सङ्गमे इन्द्रवायू संगतौ । सुमना शोभनमनस्कः । असत् भूयात् ॥८६॥
म० तापसदृष्टैन्द्रवायवी । इह यज्ञे वयमिन्द्रवायू हवामहे आह्वयामः । उभयत्र वायोः प्रतिषेध इति आनङ्ङभावः। कीदृशी सुसंदृशा सुसदृशी सुतरां सम्यक् पश्यतस्तौ । सुहवा सुहवौ शोभनाह्वानौ । तथा हवामहे यथा नोऽस्माकं सर्वं इत् सर्व एव जनः पुत्रपौत्रादिरीदृशः असत् भवेत् । अस्तेर्लेट्यडागमः । कीदृशः। अनमीवः व्याधिरहितः। सङ्गमे धनप्राप्तौ बहूनां समागमे वा सुमनाः शोभनचित्तः । उदारो वक्ता चेत्यर्थः ॥ ८६ ॥

सप्ताशीतितमी।
ऋध॑गि॒त्था स मर्त्य॑: शश॒मे दे॒वता॑तये ।
यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ।। ८७ ।।
उ० ऋधगित्था । तृतीयः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । यः मर्त्यः नूनं निश्चयेन मित्रावरुणौ अभिष्टये स्वाभीष्टप्राप्तये । आचक्रे सेवते । हव्यदातये हविषो दानाय । स मर्त्यः ऋधक् समृद्धियुक्तः । इत्था इत्थमित्यभिनयेन दर्शयति । शशमे शाम्यति यमनियमज्ञो भवति । देवतातये देवानां कर्म देवतातिः तस्यै । यज्ञायेत्यर्थः ॥ ८७ ॥
म० जमदग्निदृष्टा मैत्रावरुणी । नूनं निश्चितं यो मर्त्यो मनुष्यो मित्रावरुणौ आचक्रे आकुरुते सेवते 'गन्धनावक्षेपण-' (पा० १ । ३ । ३२ ) इत्यादिना करोतेः सेवनार्थे आत्मने