पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वन्महाभाग्यनाश इति शेषः । न केवलं तवैश्वर्यमात्रं किंतु सर्वज्ञत्वमपीत्याह न त्वेति । वतुरत्र सादृश्ये । त्वावान् त्वत्सदृशो विदानः विद्वान् देवता देवो नास्ति । स्वार्थे तल् विदेः शानन् नित्त्वादाद्युदात्तः । किंच हे प्रवृद्ध प्रकर्षेण वृद्ध पुराणपुरुष, यानि कर्माणि वृत्रवधादीनि त्वं कृणुहि करोषि । व्यत्ययेन लोट् । तानि कर्माणि जायमानः वर्तमानः जातो भूतपूर्वश्च देवमनुष्येषु कश्चित् न नशते न व्याप्नोति । न करोतीत्यर्थः । नशतिर्व्याप्तिकर्मा । न करिष्या न च करिष्यति । उत्पत्स्यमान इति शेषः । तिलोपो दीर्घश्च छान्दसः । कालत्रये त्वादृशो नास्तीत्यर्थः । अतो यज्ञेशस्त्वम् ॥ ७९ ॥
अशीतितमी।
तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः ।
स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमा॑: ।। ८० ।।
उ० तदित् । तत् इत् आस । इच्छब्द एवार्थे । आसीदिति लकारव्यत्ययः । तदेवासीत् भुवनेषु भूतजातेषु ज्येष्ठं वृद्धतमम् । यतो यज्ञे जातः उग्रः उद्गूर्णः वज्रहस्त इन्द्रः । त्वेषनृम्णः तेजोधनो वा महाधनो वा । कार्यं दृष्ट्वा कारणानुमानं कुरुते । नहि यतः कुतश्चिदिन्द्रो जायत इति । किंच । यश्च सद्योजज्ञानः जायमानः बाल्यमनपेक्ष्य । निरिणाति निहन्ति शत्रून् । पुनरपि विशिनष्टि । अनु यं विश्वे मदन्ति अनुमदन्ति अनुतृप्यन्ति यं विश्वे सर्वे देवाः । उमाः अवितारः अवनीया वा । नास्ति यतः कुतश्चिज्जायत इति विशेषः ॥ ८०॥
म० बृहद्दिवदृष्टा माहेन्द्री त्रिष्टुप् । भुवनेषु भूतजातेषु तत् इत् तदेव ज्येष्ठं श्रेष्ठमास बभूव । 'छन्दस्युभयथा' (पा० ३। ४ । ११७) इति लिटः सर्वधातुत्वादस्तेर्भूभावः । न सर्वोत्कृष्टं ब्रह्मैवासीत् यतो ज्येष्ठात् उग्रः उत्कृष्टः इन्द्रो जज्ञे जातः। कीदृशः। त्वेषनृम्णः त्वेषः कान्तिः नृम्णं धनं यस्य तेजोधनः कार्यं दृष्ट्वा कारणमहत्त्वं कल्प्यते। किंच य इन्द्रो जज्ञानः जायमान एव सद्यः तत्क्षणं शत्रून्निरिणाति नितरां हन्ति । 'री वधे' क्र्यादिः प्वादित्वाद्ध्रस्वः । किंच विश्वे सर्वे देवाः यमिन्द्रमनुमदन्ति अनुतृप्यन्ति । 'अनुर्लक्षणे' (पा० १।४। ८४) इति द्वितीया 'यद्वृत्तान्नित्यम्' (पा. ८।१।६६) इति मदन्तीत्यत्र निघातो न । कीदृशा । विश्वे ऊमाः अवन्ति रक्षन्ति ऊमाः रक्षकाः । अवतेर्मन्प्रत्ययः 'छ्वोः शूड्-' (पा० ६ । ४ । १९) इति ऊठ् ॥ ८० ॥

एकाशीतितमी।
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
पा॒व॒कव॑र्णा॒: शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ।। ८१ ।।
उ०. इमा उ त्वा द्वे बृहत्यौ । तृतीयः पादः पूर्वं व्याख्यायते सामर्थ्यात् । यं त्वां पावकवर्णा अग्निवर्णा ऋषयः । शुचयः यमनियमपराः । विपश्चितः त्रिकालदर्शिनः । अभ्यनूषत अभिष्टुवन्तः । स्तोमैः स्तोत्रैः। तं त्वा इमा उः पादपूरणः । याः मम गिरः हे पुरूवसो प्रभूतधन, ता वर्धन्तु वर्धयन्तु ॥ ८१ ॥
म० मेधातिथिदृष्टे आदित्यदेवत्ये द्वे बृहत्यौ । पुरु बहु वसु धनं यस्य स पुरुवसुः । संहितायां छान्दसो दीर्घः पुरुशब्दस्य । हे पुरुवसो बहुधनादित्य, या मम गिरः शस्त्ररूपा वाचः इमाः त्वा त्वां वर्धन्तु वर्धयन्तु । किंच विपश्चितो विद्वांसः तव स्वरूपाभिज्ञा उद्गातारश्च स्तोमैः स्तोत्रैः बहिष्पवमानादिभिः त्वामभ्यनूषत अस्तुवत । 'नू स्तुतौ' लुङ् कुटादित्वाद्गुणाभावः । कीदृशा विपश्चितः । पावकवर्णाः अग्नितुल्यतेजसः ब्रह्मवर्चसवन्तोऽत एव शुचयः शुद्धागमाः स्तोत्रशस्त्ररूपा गिरस्त्वां स्तुवन्तीत्यर्थः ॥ ८१ ॥

द्व्यशीतितमी ।
यस्या॒यं विश्व॒ आर्यो॒ दास॑: शेवधि॒पा अ॒रिः ।
ति॒रश्चि॑द॒र्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ।। ८२ ।।
उ०. यस्वायम् । यस्येन्द्रस्य अयं विश्वः सर्वः आर्यः दासः वर्णाश्रमविहितकर्मानुष्ठाता दास इव । शेवधिपाअरिः | शेवधिर्निधिः । निधिमिव यो धनं रक्षति न वर्णाश्रमविहितकर्मानुष्ठानं करोति सः यस्य शत्रुभूतः । किंच । तिरश्चित् प्राप्तेपि अर्ये ईश्वरे रुशमे । रुशतिर्हिंसाकर्मा । हिंस्रे । पवीरवि पवीरमायुधं तद्वति । आयुधवति युद्धकर्मणि । य इन्द्रः अरिः शत्रुः । हे यजमान, तुभ्य इत् तुभ्यमेव । स इन्द्रः अज्यते । धातूनामनेकार्थत्वादञ्जिर्दानार्थः विकरणव्यत्ययश्च । अनक्ति ददाति रयिः धनम् । अत्रापि रयिमिति विभक्तिव्यत्ययः ॥ ८२॥
म० हे आदित्य, यस्य तवायं विश्वः सर्वोऽपि आर्यः वर्णाश्रमविहितकर्मानुष्ठाता सन् दासः दासवत् सर्वदा रक्षणीयः शेवधिपाः निधिरक्षकः कृपणो यस्य तवारिः शत्रुः । निधिः शेवधिरिति यास्कः । किंच एवंविधे कृपणे अर्ये धनखामिनि वैश्ये वा तिरश्चित् । तिरोऽन्तर्धौ चिदप्यर्थे । अन्तर्भूतो भूमिगर्तादौ निक्षिप्तोऽपि तस्य रयिर्धननिचयः तुभ्यं इत् मलोपश्छान्दसः । तुभ्यमेव त्वदर्थमेवाज्यते व्यक्तो भवति । कर्मकर्तरि यक् । कृपणस्य धनं त्वदर्थमेवोपयुज्यते पक्षहरणादिना नतु कृपणभोगाय भवतीत्यर्थः । कीदृशेऽर्थे । रुशमे रुशतिर्हिंसाकर्मा औणादिकोऽमप्रत्ययः । रुशति हिनस्तीति रुशमः तस्मिन् धनापहर्तॄणां हिंसके । आतिथ्यादितिरस्कारेणात्मनोऽपि हिंसके । पवीरवि पविः शल्यमस्यास्तीति पवीरमायुधम् रो मत्वर्थीयः । पवीरं वाति गच्छति पवीरवाः तस्मिन्