पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षेभ्यः जीविता जीवितानि जीवनहेतूनि कर्माणि व्यूर्णुषे । सूर्योदयानन्तरमेव प्राणिनां कर्मसु प्रवृत्तेः । कीदृशानि जीवितानि । अनूचीना अनूचीनानि अन्वञ्चन्ति तान्यनूचीनानि रश्मिसमूहानुगतानि तमसि तदभावात् । लौकिकवैदिकव्यवहारप्रवर्तयिता त्वमेवेत्यर्थः ॥ ५४ ॥
इति वैश्वदेवस्तुच्चतुर्थमहः समाप्तोऽयं सर्वमेधः ॥

पञ्चपञ्चाशी ।
प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा॑रᳪ रथ॒प्राम् ।
द्यु॒तद्या॑मा नि॒युत॒: पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ।। ५५ ।।
उ० इदानीं त्रयोनुवाकाः पुरोरुचामनारभ्याधीता व्याख्येया आदित्यस्य वा याज्ञवल्क्यस्य वा आर्षमापितृमेधात् । प्रवायुम् त्रिष्टुप् । चतुर्थः पूर्वं व्याख्यायते वाक्यवशात् । हे प्रयज्यो प्रकर्षेण यजनशील अध्वर्यो, योग्यस्त्वं कविः क्रान्तदर्शनः वायुम् अच्छ आभिमुख्येन प्रइयक्षसि प्रकर्षेण यष्टुमिच्छसि । यजतेरेतद्रूपम् । बृहती मनीषा बृहत्या मनीषया। किंभूतं वायुम् । बृहद्रयिम् महाधनम् । विश्ववारं सर्वस्य वरणीयम् । रथप्रां रथपूरणम् । शत्रुधनैरसौ रथं पूरयति । द्युतद्यामा द्योतनं यमनं यस्य स तथोक्तः । द्युतद्यामानमिति विभक्तिव्यत्ययः वायुविशेषणत्वात् । नियुतः पत्यमानः अत्रापि पत्यमानमिति पदयोर्विकारो वाक्यवशात् । नियुद्भिरश्वैरुत्पतन्तम् । कविं क्रान्तदर्शनम् ॥ ५५॥
म० अथ पञ्चदशपञ्चदशत्रयोदशर्चास्त्रयोऽनुवाकाः पुरोरुचोऽनारभ्याधीताः श्रौतकर्मण्यविनियुक्ताः ब्रह्मयज्ञार्हा आदित्ययाज्ञवल्क्यदृष्टाः पितृमेधपर्यन्तम् । ऋजिश्वदृष्टा त्रिष्टुप् वायुदेवत्या । प्रकर्षेण यजति प्रयज्युः हे प्रयज्यो अध्वर्यो, बृहती मनीषा महत्या बुद्ध्या कृत्वा अच्छ आभिमुख्येन त्वं वायुं प्र इयक्षसि प्रकर्षेण यष्टुमिच्छसि । कीदृशः त्वम् । कविः ज्ञानी । कीदृशं वायुम् । बृहद्रयिम् बृहन् रयिर्यस्य तं महाधनम् । विश्ववारम् विश्वेन व्रियते तम् सर्वस्य वरणीयम् विश्वं वृणोतीति वा सर्वव्यापकम् । रथप्राम् रथं प्राति पूरयति रथप्राः तम् । यजमानाय दातुं धनैः रथं पूरयति । द्युतद्यामा व्यत्ययः द्युतद्यामानम् द्युतत् दीप्यमानं याम यमनं नियमनं यस्य तम् । नियुतः पत्यमानः । उभयत्र विभकिव्यत्ययः । नियुद्भिरश्वैः पत्यमानं गच्छन्तम् । कविं क्रान्तदर्शनम् । ईदृशं वायुं यजेत्यर्थः ॥ ५५ ॥

षट्पञ्चाशी।
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि
उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनि॑: स॒जोषो॑भ्यां त्वा ।। ५६ ।।
उ० इन्द्रवायू इमे व्याख्यातम् ॥ ५६ ॥
म० इन्द्रवायू व्याख्याता (७।८)॥५६॥

सप्तपञ्चाशी।
मि॒त्रᳪ हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताची॒ᳪ साध॑न्ता ।। ५७ ।।
उ० मित्रᳪहुवे । द्वे गायत्र्यौ मित्रमाह्वयामि । पूतदक्षम् पूतस्य शुद्धस्य प्राणिन उद्धरणे दक्षं सोमम् । वरुणं च रिशादसम् हिंसकादिविनाशाने शक्तिं कुर्वाणम् हुवे । कीदृशः । धियं कर्म । घृताचीम् येन कर्मणा घृतमच्यते हूयते तत्कर्म । साधन्ता साधयन्तौ । नहि देवतामन्तरेण कर्मसिद्धिः ॥ ५७ ॥
म०. द्वे मधुच्छन्दोदृष्टे गायत्र्यौ आद्या लिङ्गोक्तदेवत्या । मित्रं वरुणं चाहं हुवे आह्वयामि। कीदृशम् । पूतदक्षं पूतं पवित्रं सदाचारं दक्षयति धनपुत्रादिभिर्वर्धयति पूतदक्षस्तम् 'दक्ष कम्यृद्ध्योः' इत्यस्माण्णिजन्तात्कर्मण्यण् । रिशादसम् रिशन्ति हिंसन्ति रिशा दुष्टाः तान् समन्ताद्दसति नाशयति रिशादसः तम् । 'रिश हिंसायाम्' 'दस उपक्षये' । द्वयोर्विशेषणे । कीदृशावुभौ । धियं कर्म साधन्ता साधयन्तौ । कीदृशीं धियम् । घृताचीम् घृतमच्यते हूयते यत्र ताम् ॥ ५७ ॥

अष्टपञ्चाशी।
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तᳪ रुद्रवर्तनी । तं प्र॒त्नथा॒ऽयं वे॒नः ।। ५ ८ ।।
उ० दस्रा युवाकवः । द्वयोरश्विनोरेकस्य दस्र इति नाम अंपरस्य नासत्य इति । तत्रायं विभक्त्यर्थे आकारो विरूपैकशेषे वर्तते । 'गुणो यङ्लुकोः' इति च पाणिनिर्दर्शयति । हे दस्रौ दर्शनीयौ, हे नासत्यौ न असत्यौ सत्यावेव । 'नभ्राण्नपात्-' इति प्रकृतिभावः । युवाकवः युवां कामयमानाः अहमहमिकया मां पिबतं मां पिबतमिति सुता अभिषुताः। वृक्तबर्हिषः प्रस्तीर्णबर्हिषः । यतः अतो ब्रवीमि आयातम् आगच्छतम् । हे रुद्रवर्तनी रुद्रस्येव वर्तनिर्ययोस्तौ तथोक्तौ रुद्रपन्थानौ । तं प्रत्नथायं वेन इति प्रतीकोक्तौ ॥ ५८॥
म० आश्विनी द्वयोरश्विनोरेकस्य दस्र इति नामापरस्य नासत्य इति । हे दस्रौ दर्शनीयौ, हे नासत्या नासत्यौ न असत्यौ । सत्यवादिनावित्यर्थः । युवामायातमागच्छतम् । यतः सुता अभिषुताः सोमा इति शेषः । कीदृशाः सोमाः । युवाकवः युवां कामयन्ते ते युवाकवः मां पिबतमितीच्छन्तः। यद्वा युवन्ति अग्नौ मिश्रीभवन्ति युवाकवः 'कटिकुषिभ्यां काकुः' ( उणा० ३ । ७६ ) इति बहुलग्रहणात्काकुप्रत्ययः। वृक्तबर्हिषः वृक्तं बर्हिर्यत्र ते । कीदृशौ युवाम् । रुद्रवर्तनी रुद्रस्येव वर्तनिः पन्था ययोस्तौ रुद्रवद्गमनशीलौ । तं प्रत्नथा (७ । १२) अयं वेनः (७ । १६) एते द्वे प्रतीकोक्ते ॥ ५८ ॥