पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शेषः । यश्च शंसते शस्त्राणि स्तुवते स्तौति च स्तोत्राणि । धायि दधति हवींषि । पज्रः प्रार्जितधनः सन् । तस्मै च रुद्राः सजोषाः भवन्तु । किंच इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां ते तथोक्ताः । अस्मान् अवन्तु पालयन्तु देवाः ॥ ५० ॥
म० पञ्च त्रिष्टुभः आद्या प्रगाथदृष्टा माहेन्द्रपुरोरुक् । यो नरः शंसते शस्त्राणि शंसति स्तुवते स्तौति स्तोत्राणि प्रकर्षेण जपति पज्रः प्रार्जितधनः सन् धायि दधाति हवींषि । तान् अस्मांश्च यजमानान् देवा अवन्तु पान्तु । पज्रः पृषोदरादिः । कीदृशा देवाः । अस्मे अस्मासु मेहना। शस आकारः। मेहन्ति सिञ्चन्ति मेहनाः धनादिसेक्तारः । रोदयन्ति शत्रूनिति रुद्राः । पर्वतासः पर्वाणि उत्सवा विद्यन्ते येषां ते पर्वताः उत्सववन्तः 'तप्पर्वमरुद्भ्यां' (पा० ५।२।१२२) इति तत्प्रत्ययः । वृत्रहत्ये वृत्रासुरवधाय । भरहूतौ भरे संग्रामे हूतिराह्वानं तत्र सजोषाः समानो जोषः प्रीतिर्येषां ते । एकमतय इत्यर्थः । इन्द्रज्येष्ठाः इन्द्रो ज्येष्ठो येषां ते । ईदृशा देवा नोऽवन्तु ॥ ५० ॥

एकपञ्चाशी।
अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् ।
त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ।। ५१ ।।
उ० अर्वाञ्चो अद्य । अर्वागञ्चनाः अद्य भवत हे यजत्राः हे यजनीयाः । किंच आवो हार्दि भयमानो व्ययेयम् आव्ययेयम् । व्ययतिर्गत्यर्थः । आगमयेयं अभिमुखमापादयेयं वः युष्माकं हार्दि हृदयम् भयमानः बिभ्यत् । बिभेतेर्विकरणव्यत्ययेन शानचि शप् । यत एवमतो ब्रवीमि त्राध्वं पालयत नः अस्मान् हे देवाः, निजुरः नितरां यो भक्षितं जरयति स निजूः बुभुक्षितादित्यः वृकस्य वृकादिति विभक्तिव्यत्ययः । त्राध्वं च कर्तात् कूपात् । अवपदः अवाचीनानि यत्र पदानि स तथोक्तः तस्मात् सोपानैर्यत्रोत्तरितुं । न शक्यत इत्यर्थः । हे यजत्रा यष्टव्याः ॥५१॥
म०. कूर्मदृष्टादित्यस्य प्रथमा पुरोरुक् । यजन्तं त्रायन्ते यजत्राः यष्टव्या वा हे यजत्राः देवाः, अद्य यूयमर्वाञ्चः अस्मदभिमुखाः भवत । दीर्घौ संहितायाम् । यतो भयमानः बिभ्यत् अहं वो युष्माकं हार्दि हृदि भवं मनः आव्ययेयं आगमयेयम् । अभिमुखं संपादयेयमित्यर्थः । 'व्यय गतौ' णिजन्तः । भिञो व्यत्ययेन शपि भयमानः । किंच हे यजत्राः देवाः, नोऽस्मान् वृकस्य वृकात् त्राध्वम् पालयत । कर्तात् कूपाच्च त्राध्वम् । कीदृशाद् वृकात् । निजुरः 'जूरी वधे' नितरां जूर्यते हिनस्ति निजूः । क्विप् तस्मान्निजुरः हिंसकात् । कीदृशात् कर्तात् । अवपदः अवाचीनाः पादन्यासा यत्र सः अवपात् तस्मादवपदः सोपानैर्यत्रोत्तरीतुं न शक्यत इत्यर्थः ॥५१॥

द्विपञ्चाशी।
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः ।
विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ।। ५२ ।।
उ० विश्वे अद्य इति व्याख्यातम् ॥ ५२ ॥
म० विश्वे अद्य लुशदृष्टादित्यपुनर्ग्रहणे । व्याख्याता ( १८। ३१) ॥ ५२ ॥

त्रिपञ्चाशी।
विश्वे॑ देवाः शृणु॒तेमᳪ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।। ५३ ।।
उ० विश्वेदेवाः हे विश्वेदेवाः, शृणुत इमं हवं आह्वानं मे मम । ये अन्तरिक्षे स्थ भवथ । ये च उपद्यवि द्युलोके स्थ भवथ ये च अग्निजिह्वा अग्निमुखाः । उत वा अपिच यजत्रा यष्टव्याः । श्रुत्वा च आह्वानम् आसद्य स्थित्वा अस्मिन्बर्हिषि मादयध्वं तृप्यध्वम् ॥ ५३ ॥
म०. सुहोत्रदृष्टादित्यग्रहस्य दध्ना श्रयणे विनियुक्ता । हे विश्वेदेवाः, ये यूयमन्तरिक्षे स्थ भवथ । ये च द्यवि उप स्वर्गसमीपे स्थ । ये चाग्निजिह्वाः वह्निमुखाः । उत वा अपिच यजत्राः यजनीयाः ते सर्वे यूयमिमं मे मत्कृतं हवमाह्वानं शृणुत । श्रुत्वा चास्मिन्बर्हिषि आसद्योपविश्य मादयध्वं तृप्यध्वम् ॥५३॥

चतुःपञ्चाशी।
दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वᳪ सु॒वसि॑ भा॒गमु॑त्त॒मम् ।
आदिद्दा॒मान॑ᳪ सवित॒र्व्यू॒र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ।। ५४ ।।
उ० देवेभ्यो हि । यस्माद्देवेभ्यः प्रथमं यज्ञियेभ्यः | यज्ञार्हेभ्यः अमृतत्वं सुवसि अभ्यनुजानासि भागं चोत्तमं सुवसि आत् इत् अथानन्तरमेव दामानम् दातारमुत्पत्तिस्थितिलयानाम् स्वकीयं रश्मिजालम् हे सवितः, व्यूर्णुषे विवृणोषि विस्तारयसि । रश्मीनामुद्गमे हि विप्रोऽकम्पितमनसाग्निहोत्रादीनि कर्माणि कुर्वीत । किंच अनूचीना अन्वञ्चितानि तदनुगतानि जीविता जीवितानि जीवनहेतूनि कर्माणि मानुषेभ्यः ददासि तस्मात् त्वामेव स्तुम इति वाक्यशेषः ॥ ५४॥
समाप्तं सर्वमेधिकं कर्म । ।
म० वामदेवदृष्टा जगती सावित्रग्रहस्य पुरोरुक् । हे सवितः, हि निश्चितं प्रथममुदयसमये यज्ञियेभ्यः यज्ञार्हेभ्यो देवेभ्यः त्वमुत्तमं भागमग्निहोमरूपं सुवसि प्रेरयसि 'षू प्रेरणे' | तुदादिः अभ्यनुजानासीत्यर्थः । कीदृशं भागम् । अमृतत्वममृतप्रदमित्यर्थः । कार्यकारणयोरभेदेन निर्देशः । आत् इत् अनन्तरमेव उदयानन्तरम् दामानम् ददाति प्रकाशमिति दामा रश्मिसमूहः तं । व्यूर्णुषे विवृणोषि विस्तारयसि । ततो मानु