पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हितकारी सविता देवः नोऽस्माकं विदथे यज्ञगृहे आ एतु आगच्छतु । कथम् । इडाभिः सुशस्ति यथा स्यात् तथा इडाभक्षणेन शोभना शस्तिः शंसनं प्रशंसा यस्यां क्रियायां तथा । यथा सर्वे इडां भक्षयन्ति तथा एत्वित्यर्थः । यद्वा सुशस्ति विभक्तिलोपः । कीदृशे यज्ञगृहे । सुशस्ति सुशस्तौ इडाभिः शोभनप्रशंसायुक्ते । एवं सूर्यमुक्त्वा देवानाह । हे युवानः, जरारहिता देवाः अपि निश्चितम् अभिपित्वे अभिपतने आगमनकाले यथा येन प्रकारेण यूयं मत्सथ 'मद तृप्तौ' तृप्यथ तथा नोऽस्माकं विश्वं सर्वं जगत् गन्तृ जङ्गमं पुत्रगवादिकं मनीषा मनीषया बुद्ध्या मत्सथ । अन्तर्भूतण्यर्थः । तर्पयत । यथा भवद्भिस्तृप्तिः क्रियते तथास्मत्प्रजास्तर्पणीया इत्यर्थः ॥ ३४ ॥

पश्चत्रिंशी।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ।। ३५ ।।
उ० यदद्य । द्वे गायत्र्यौ । यत् अद्य कच्च कुत्रचित् यत् । हे वृत्रहन् वृत्रस्य पाप्मनः शार्वरस्य तमसो हन्तः, त्वम् उदगा अभि अभ्युदगाः अभ्युदेषि । हे सूर्य, तत्सर्वमेतत् हे इन्द्र ऐश्वर्ययुक्त, ते तव वशे वर्तते । त्वमेवैक ईश्वरो न द्वितीय इत्यभिप्रायः ॥ ३५ ॥
म० श्रुतकक्षसुकक्षदृष्टा गायत्री ऐन्द्राग्नपुरोरुक् । 'वृत्रो मेधे रिपौ ध्वान्ते दानवे वासवे गिरौ' इति कोशाद्वृत्रमन्धकारं शार्वरं हन्तीति वृत्रहा रविः । हे वृत्रहन्, हे सूर्य, हे इन्द्र ऐश्वर्ययुक्त, अद्य यत् कच्च यत्र कुत्रचित् त्वमभि उदगाः अभ्युदेषि तत्सर्वं ते तव वशेऽस्तीति शेषः । यद्वा उदगाः अत्र पुरुषव्यत्ययः । यत्किंचित्प्राणिजातमुदेति तत्सर्वं तव वशे सर्वस्येशिता त्वमेवेत्यर्थः ॥ ३५॥

षट्त्रिंशी।
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ।। ३६ ।।
उ० तरणिर्विश्वदर्शतः । यस्त्वं तरणिरसि तूर्णं वर्तसे विश्वदर्शतः सर्वदर्शनीयश्चासि । ज्योतिष्कृत् ज्योतिषश्च कर्तासि हे सूर्य, तं त्वां प्रति तथा ब्रूमः त्वमेव विश्वं सर्वम् आभासि दीपयसि । रोचनं दीप्तम् अग्निविद्युद्ग्रहतारकारूपं त्वदीयमेवैकं ज्योतिः सर्वत्राभातीत्यर्थः ॥ ३६ ॥
म० प्रस्कण्वदृष्टा गायत्री वैश्वदेवपुरोरुक् । हे सूर्य, त्वं ज्योतिष्कृत् तेजसः कर्तासि । विश्वमाभासि प्रकाशयसि च । अग्निविद्युन्नक्षत्रचन्द्रग्रहतारकादिषु त्वदीयं तेज इत्यर्थः । कीदृशं विश्वम् । रोचनं दीप्यमानं त्वत्प्रकाशेनेति भावः । कीदृशस्त्वम् । तरणिः तरत्यतिक्रामति नभोवर्त्मेति तरणिः 'अश्यवितृभ्योऽनिः' ( उणा० २ । ९८ ) इति तरतेरनिप्रत्ययः। विश्वदर्शतः विश्वस्य दर्शतो दर्शनीयः । दृशेरतच् ॥३६॥

सप्तत्रिंशी।
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ᳪ सं ज॑भार ।
य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ।। ३७ ।।
उ० तत्सूर्यस्य । द्वे त्रिष्टुभौ । तदेव सूर्यस्य देवत्वम् । तच्च महित्वं महाभाग्यम् । तत्किमित्यत आह । मध्या कर्तोर्विततं संजभार मध्या मध्ये इत्यर्थः । कर्तोः कर्मण इत्यर्थः । मध्ये यत्कर्मणां क्रियमाणानां देवासुरमनुष्यसंबन्धिनां विततं रश्मिजालं अहर्लक्षणं संजभार । अयमेव संहरते नान्य एतत्तनितुं शक्नोति न चोपसंहर्तुमित्यभिप्रायः । किंच यदा इत् अयुक्त यदा प्रयुङ्क्ते आत्मनि आत्मसंस्थान्करोति हरितः हरितवर्णान्रश्मीन् । ह्यस्तमनकाले लोहिततां यन्ति सधस्थात् सहस्थानादाहृत्य पृथिव्यादिलोकत्रयं तेषां सहस्थानम् तत्रहि ते निपतन्ति । आद्रात्रीवासस्तनुते । आत् अथानन्तरम् रात्री तमोमयं वासः तनुते विस्तारयति । सिमस्मै सर्वस्मै जगति एकत्रादित्यसहितं ज्योतिरेकत्र तमः आदित्यप्रभावात्प्रभ्रमतीत्ययमभिप्रायः ॥ ३७॥
म० कुत्सदृष्टे द्वे त्रिष्टुभौ मरुत्वतीययोः पुरोरुचौ । सूर्यस्य तत् देवत्वं देवतानुभावः । तच्च महित्वं महाभाग्यमैश्वर्यम् । तत् किम् । कर्तोः 'ईश्वरे तोसुन्कसुनौ' (पा० ३ । ४ । १३) करोतेस्तोसुन्प्रत्ययः । कार्यश्रेष्ठस्य जगद्रूपस्य मध्या मध्ये विततं विस्तारितमंशुजालं संजभार संजहार संहरते । न ह्यन्य एतादृशमंशुजालं प्रसारयितुं संहर्तुं वा शक्नोतीत्यर्थः । किंच यदा इत् यदैव हरितः हरितवर्णान्रश्मीनयुक्त युङ्क्ते आत्मनि आरोपयति सधस्थात् सह तिष्ठन्त्यंशवो यत्र तत्सधस्थं व्योममण्डलम् । 'सध मादस्थयोश्छन्दसि' (पा० ६।३ । १६) | इति सहस्य सधादेशः । सन्ध्याकाले पीतवर्णानंशून् यदा व्योममण्डलात्स्वस्मिन्योजयति । आत् अनन्तरमेव रात्री निशा सिमस्मै वासः तनुते । सर्वं वस्तु तमसाच्छादयतीत्यर्थः । सूर्यास्तादनन्तरं रात्रिसद्भावात् । सिमशब्दः सर्वपर्यायः ॥ ३७॥

अष्टत्रिंशी ।
तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ ।
अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑: कृ॒ष्णम॒न्यद्ध॒रित॒: सं भ॑रन्ति ।। ३८ ।।
उ० तन्मित्रस्य । सूर्यः तद्रूपं ज्योतिः कृणुते कुरुते द्योर्लोकस्य उपस्थे उत्सङ्गे । मित्रस्य वरुणस्याभिचक्षे अदर्शनाय । मित्रो हि सुकृतिनो गृह्णाति वरुणः दुष्कृतिनो गृह्णाति एवमनेन प्रकारेण जगदनुगृह्णातीत्यभिप्रायः। किंच अनन्तम् अपर्यन्तं कालतः देशतश्च । अन्यत् एकम् । रुशत् शुक्लं जरामरणादिभिर्वियुक्तम् । विज्ञानघनमानन्दः अस्य सूर्यस्य