पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिति शेषः । एवमर्यम्णः सवितुर्भगस्य च वाक्यानि अविशेषात् ॥ २० ॥
म० वसिष्ठदृष्टा मैत्रावरुणपुरोरुक् अयं वामित्यस्याः (७।९) स्थाने । अद्य सूरे सूर्ये उदिते सति मित्रः अर्यमा सविता भगश्च यत् सुवाति प्रेरयति तत् कर्म कुर्यादिति शेषः । नास्ति आगोऽपराधो यस्य सोऽनागा इति चतुर्णां विशेषणम् ॥ २० ॥

एकविंशी ।
आ सु॒ते सि॑ञ्चत॒ श्रिय॒ᳪ रोद॑स्योरभि॒श्रिय॑म् । र॒सा द॑धीत वृष॒भम् ।।तं प्र॒त्नथा॒ ऽयं वे॒न: ।। २१ ।।
उ० आसुते । तृतीयः पादः प्रथमं व्याख्यायते । यं सोमम् रसा नदी रसतेः शब्दकर्मणः । दधीत धारयति । नद्युपकण्ठे हि सोमो जायते । वृषभं वर्षितारम् आसुते सिञ्चत आसिञ्चत ग्रहपात्रेषु चमसेषु सोमं हे ऋत्विजः । सुते अभिषुते सति सोमे । कथंभूतम् । श्रियम् श्रियोहेतुभूतम् । रोदस्योरभिश्रियम् द्यावापृथिव्योरधिगतश्रियम् । ब्रह्माण्डव्यापिनी हि सोमश्रीः । तं प्रत्नथायं वेनः इति द्वे प्रतीके उक्ते ॥२१॥
म०. सुनीतिदृष्टाश्विनपुरोरुक् या वामित्यस्याः ( ७ । ११) स्थाने । रसा नदी 'रसतेः शब्दकर्मणः' ( निरु० ११ । २५) इति यास्कः । रसा नदी वृषभं वर्षितारं सोमं दधीत पुष्णाति । दधातेर्लिङ् । नदीसमीपे हि सोमोत्पत्तेः । तस्मिन्सोमे सुते अभिषुते सति आसिञ्चत । चमसेष्विति शेषः । ऋत्विजः प्रति वचनमेतत् । कीदृशं वृषभम् । रोदस्योः द्यावापृथिव्योः श्रियं श्रीयते श्रीः तम् आश्रयम् । सोमस्य जगदाधारत्वात् । अभिश्रियम् अभि सर्वतः श्रीः शोभा यस्य सोऽभिश्रीः तम् । तं प्रत्नथा अयं वेनः द्वे प्रतीकोक्ते शुक्रमन्थिनोः प्राकृते ( ७ । १२ । १६ ) पुरोरुचौ ॥ २१ ॥

द्वाविंशी।
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूष॒ञ्छ्रियो॒ वसा॑नश्चरति॒ स्वरो॑चिः ।
म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ।। २२ ।।
उ० आतिष्ठन्तम् त्रिष्टुप् । इन्द्रस्यात्र वृष्टिकर्मोच्यते । ग्रीष्मान्ते मध्यमस्थाने आतिष्ठन्तम् इन्द्रं पर्यभूषन् परिरक्षितवन्तः । विश्वे सर्वे देवा मध्यमका देवगणाः । श्रियो वसानश्चरति स्वरोचिः । सतु मध्यमस्थानः सर्वेषां देवगणानां श्रियः आच्छादयन् स्वेच्छया चरति । स्वरोचिः अपराधीनदीप्तिः । तृतीयः पादश्चतुर्थान्ते व्याख्यायते तच्छब्दयोगात् । आविश्वरूपो अमृतानि तस्थौ । यत् आतस्थौ विश्वरूपः इन्द्रः अमृतानि उदकानि उदकेषु पातयितव्येषु । महत् तत् वृष्णः वर्षितुः असुरस्य प्रज्ञानवतः नाम । नमनं प्रह्वीभावः ॥ २२ ॥
म० विश्वामित्रदृष्टाग्रयणपुरोरुक ये देवास इत्यस्याः (७। १९ ) स्थाने । इन्द्रस्य वृष्टिकर्मोच्यते । विश्वे देवाः आतिष्ठन्तं समन्तात् स्थितमिन्द्रं पर्यभूषन् परिरक्षितवन्तः । स इन्द्रः चरति सर्वत्र गच्छति । कीदृशः । श्रियो वसानः देवानां दीप्तीः आच्छादयन् स्वरोचिः स्वं रोचिर्यस्य सः अनन्याधीनदीप्तिः । किंच विश्वं रूपयति निरूपयतीति विश्वरूपः इन्द्रो यतः अमृतानि जलानि आतस्थौ वृष्टये आस्थितवान् वृष्णः इन्द्रस्य तत् महत् प्रसिद्धं नाम वासवो वृत्रहा इत्यादि । कीदृशस्य वृष्णः । असुरस्य असवो विद्यन्ते यस्य सोऽसुरस्तस्य प्राणवतः सावधानस्य प्रज्ञावत इत्यर्थः ॥ २२ ॥

त्रयोविंशी।
प्र वो॑ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा॑ वि॒श्वान॑राय विश्वा॒भुवे॑ ।
इन्द्र॑स्य॒ यस्य॒ सुम॑ख॒ᳪ सहो॒ महि॒ श्रवो॑ नृ॒म्णं च॒ रोद॑सी सप॒र्यत॑: ।। २३ ।।
उ० प्र वः त्रिष्टुप् । हे ऋत्विजः, प्रार्च प्रार्चत । वः यूयम् स्तुतीः । महे इन्द्रविशेषणमेतत् । महते । अन्धसः अन्नस्य दात्रे इति वाक्यशेषः । मन्दमानाय स्तूयमानाय मोदमानाय वा । विश्वानराय सर्वभूताय । विश्वाभुवे सर्वव्यापिने किंच इन्द्रस्य यस्य सुमखं साधुयज्ञम् । सहः बलं च महि महच्च श्रवः श्रवणीयं च यशः नृम्णं च धनं च नॄन्नमयतीति नृम्णम् । रोदसी द्यावापृथिव्यौ सपर्यतः परिचर्यतः । तस्य चेन्द्रस्य प्रार्चत स्तुतीरित्यनुषङ्गः ॥ २३ ॥ ।
म० सुचीकदृष्टा त्रिष्टुप् ध्रुवग्रहपुरोरुक् मूर्धानमित्यस्याः (७ । २४ ) स्थाने । हे ऋत्विजः, यूयं विश्वानराय विश्वे सर्वे नरा यजमाना यस्य तस्मै प्रार्च प्रार्चत । वचनव्यत्ययः । इन्द्रं पूजयतेत्यर्थः । कीदृशाय । महे महते । वो युष्माकमन्धसः अन्धसा अन्नेन हवीरूपेण मन्दमानाय मोदमानाय । विश्वाभुवे विश्वं भवति प्राप्नोति विश्वभूः तस्मै सर्वव्यापिने, विश्वा भूर्यस्येति वा, विश्वं भवति यस्मादिति वा । संहितायां दीर्घः । किंच रोदसी द्यावापृथिव्यौ यस्येन्द्रस्य एतान् पदार्थान्सपर्यतः पूजयतः । कान् सुमखं शोभनं यज्ञम् सहः बलम् महि महत् श्रवो यशः नृम्णं धनं च । द्यावाभूमी यस्य मखादीनि मानयतस्तं पूजयतेत्यर्थः ॥ २३ ॥

चतुर्विंशी ।
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरु॑: । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।। २४ ।।
उ० बृहन्नित् द्वे गायत्र्यौ । अन्त्यः पादः प्रथमं व्याख्यायते यच्छब्दयोगात् । येषामिन्द्रो युवा सर्वकर्मसु । दक्षः सखा । तेषामेषां यजमानानाम् बृहन्नित् महानेव इध्मः भवति । महत्त्वं च साधनानां साध्योत्कर्षं कुर्वतां