पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशी।
म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ ।
श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ।। १७ ।।
उ० महो अग्नेः । सावित्रस्य त्रिष्टुप् । महः महतः अग्नेः समिधानस्य संदीप्यमानस्य । शर्मणि शरणे आश्रये वर्तमानाः अनागाः अनपराधाः स्याम । येन च मित्रे वरुणे अनपराधा एव स्याम । स्वस्तये अविनाशाय । येन च श्रेष्ठे स्थाम सवितुः सवीमनि प्रसवे । तत् देवानां संबन्धि अवः हविर्लक्षणमन्नम् । अद्य आवृणीमहे अधिसंस्कुर्मः ॥ १७ ॥
म० लुशोधानाकदृष्टा त्रिष्टुप् सावित्रग्रहपुरोरुक् वाममद्येत्यस्याः ( ८ । ६ ) स्थाने । देवानां तत् अवः अन्नं हविर्लक्षणमद्य वयं वृणीमहे संस्कुर्मः । क्व सति । सवितुः सूर्यस्य सवीमनि सति आज्ञायां सत्याम् । 'देवस्य त्वा सवितुः प्रसवे' इत्युक्तेः । 'सवीमा प्रसवोऽनुज्ञा' इति कोशः । कीदृशे सवीमनि । श्रेष्ठे अन्यदेवाज्ञातः सूर्याज्ञोत्कृष्टा । तत्किम् । येनान्नेन वयं स्वस्तये स्वस्तिमन्तो भवेम । कीदृशा वयम् । अग्नेः शर्मणि शरणे आश्रये मित्रे वरुणे च अनागाः अनागसः 'सुपां सुप' (पा० ७ । १।३९) इति जसः सुः । अग्निमित्रवरुणेष्वपराधरहिताः । कीदृशस्याग्नेः । महः पूज्यस्य । मह्यते पूज्यते मद तस्य 'मह पूजायां' क्विप् । समिधानस्य । दीप्यमानस्य ॥ १७ ॥

अष्टादशी।
आप॑श्चित्पिप्यु स्त॒र्यो न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र ।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वᳪ हि धी॒भिर्दय॑से॒ वि वाजा॑न् ।। १८ ।।
उ० इदानीमिन्द्रस्तुतिः । उक्थसंस्थे द्वितीयेऽहनि पुरोरुच ऐन्द्र्यो द्वादश । आपश्चित् त्रिष्टुप् । आपोपि । पिप्युः । प्यायः पी आदेशः । पाययेयुः निग्राह्यसोमे स्तर्यो न गावः सुन्वन्ति अभिषुण्वन्ति याभिर्वाग्भिः सोमं तास्तर्यः । सोमाभिषवे हि त्रयीलक्षणा वाचो व्याप्रियन्ते । तदेतदुक्तम् । तर्यों न गावः तर्य इव गावः । नक्षन्नृतं जरितारस्त इन्द्र । नक्षन् । नक्षतिर्व्याप्तिकर्मा । एवमनेन प्रकारेण नक्षन्व्याप्नुवन्ति ऋतं यज्ञम् । जरितारः स्तोतारः ते तव हे इन्द्र । एतच्च ज्ञात्वा । वाहि वायुर्न नियुतो नो अच्छ । अच्छ अभियाहि । आयाहि नः अस्मान् वायुर्न वायुर्यथा नियुतः अश्वान् याति । त्वं हि यस्मात् । पुनस्त्वमेवमुच्यसे । यस्त्वं धीभिः स्वकीयाभिर्बुद्धिभिः दयसे ददासि । विविधं वाजान् अन्नानि ॥ १८॥
म० 'इन्द्रस्तदुतथ्यो द्वितीयमहर्भवति तस्येन्द्रा ग्रहा भवन्त्यैन्द्र्यः पुरोरुचः सर्वमैन्द्रमसत्' (पा० १३ । ७ । १ । ४) इति सर्वमेधे श्रुतिः । ततः इन्द्रस्तुत्संज्ञे उक्थ्यसंस्थे सर्वमेधस्य द्वितीयेऽहनि आपश्चिदित्यादि इमां त इत्यन्ता द्वादश ऋचः। तं प्रत्नथा अयं वेनः महाँ इन्द्रः कदाचन स्तरीः कदाचन प्रयुच्छसीति पञ्च प्रतीकोक्ताः एवं सप्तदशेन्द्रदेवत्याः ऐन्द्रवायवादिसावित्रान्तानां ग्रहाणां ग्रहणमन्त्राः वसिष्ठदृष्टाः त्रिष्टुप् ऐन्द्रवायवस्य पुरोरुक् आ वायो इत्यस्याः ( ७ । ७) स्थाने । हे इन्द्र, जरितारः स्तोतारः ऋत्विजः ते तव ऋतं यज्ञं नक्षन् नक्षन्ति व्याप्नुवन्ति । नक्षतिर्व्याप्तिकर्मा । लङि अडभाव आर्षः। : आपः चित् आपोऽपि निग्राभ्यारूपाः पिप्युः आप्याययन्ति सोमं वर्धयन्ति 'ओप्यायी वृद्धौ' लिटि प्यायः पी-आदेशः । तत्र दृष्टान्तः । स्तर्यो गावः इव स्तृण्वन्ति सुन्वन्ति याभिस्ताः स्तर्यः याभिः सोमः सूयते ता गावो वाचो वेदरूपा इव ता यथा सोममाप्याययन्ति तथापोऽपि । अतएव त्वं नोऽस्मानच्छ अभिमुखं याहि आगच्छ । वायुर्न वायुरिव वायुर्यथा नियुतः स्वानश्वानभियाति । हि यतः त्वं धीभिः बुद्धिभिः कर्मभिर्वा वाजानन्नानि विदयसे विविधं ददासि 'दय दानादौ' अत एवागच्छ ॥ १८॥

एकोनविंशी ।
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ।। १९ ।।
उ० गाव उप । तिस्रो गायत्र्यः । दक्षिणालक्षणा गाव उच्यन्ते । हे गावः, उपावत उपगच्छत दक्षिणमार्गेण अवतः प्रति । अवतमिति कूपनाम । सचात्र चात्वालं तदन्तरेण हि गवां संचारः । को हेतुरागमन इति चेत् । मही यज्ञस्य | रप्सुदा । मही महत्यः यज्ञस्य रप्सुदा दानं वर्तते । यतश्च भवतीनाम् उभाकर्णा हिरण्यया उभौ कर्णौ हिरण्मयौ कृतौ । दानार्थमेव अत उपावतेति संबन्धः ॥ १९ ॥ -
म० तिस्रो गायत्र्यः आद्या पुरुमीढाजमीढदृष्टा ऐन्द्रवायवस्य, द्वितीया पुरोरुक् इन्द्रवायू इत्यस्याः (७।८) स्थाने । गाव उच्यन्ते । हे गावः, अवतं कूपं चात्वालरूपं प्रति उपावत उपगच्छत दानार्थम् । चावालान्तरेण गवां संचारोऽस्ति । अवत इति कूपनाम । को हेतुरागमने तत्राह । मही महत्यौ द्यावापृथिव्यौ यज्ञस्य रप्सुदा रप्सुदे रप्स्विति रूपनाम तद्दत्तस्ते रप्सुदे वर्तेते । द्यावाभूमी यज्ञस्य शोभां कुरुत इति यूयमुपागच्छत । किंच उभा कर्णा भवतीनामुभौ कर्णौ हिरण्ययौ हिरण्मयौ अतएव दानार्थमागच्छतेत्यर्थः ॥ १९ ॥

विंशी।
यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।
सु॒वाति॑ सवि॒ता भग॑: ।। २० ।।
उ० यदद्य । यत्कर्म अद्य अस्मिन्द्यवि सूरे उदिते उद्गते अनागाः अनपराधो मित्रः सुवाति प्रसौति तत्कर्म प्रया