पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशी।
त्वाᳪ हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ न॒: श्रोष्य॑ग्ने ।
इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ।। १३ ।।
उ० त्वाᳪ हि । माहेन्द्रस्य त्रिष्टुप् । त्वां हि त्वामेव मन्द्रतमं मन्दनीयतमं मृदुहृदयं वा । अर्कशोकैः मन्त्रैर्दीप्तैः । यथोक्तस्थानकर्णानुप्रदानवद्भिः । देवताद्यात्मवित्तसन्ता नगर्भगुरुशुश्रूषाधिगताविप्लावितब्रह्मचर्यैः । एवं हि मन्त्रा दीप्ताः स्युः । ववृमहे वृतवन्तो वयम् । त्वं च वृतः सन् महि महत् स्तोत्रम् नोऽस्माकम् श्रोषि शृणोषि । श्रुत्वा च प्रभावयसि कर्म हे अग्ने । किंच इत्थं नाम त्वं महती देवता । येन इन्द्रं न । उपमार्थीयो नकारः । इन्द्रमिव त्वा शवसा बलेन पृणन्ति पूरयन्ति । वायुमिव च पूरयन्ति राधसा हविर्लक्षणेन धनेन । नृतमाः मनुष्यतमाः मनुष्यश्रेष्ठाः ॥ १३ ॥
म० त्रिष्टुब् भरद्वाजदृष्टा माहेन्द्रग्रहपुरोरुक् इन्द्रो नृवदित्यस्याः (७ । ३९) स्थाने । हे अग्ने, वयं त्वां ववृमहे वृतवन्तः । कीदृशं त्वाम् । मन्द्रतममतिगम्भीरम् । कैः अर्कशोकैः अर्कवत् शोचन्तेऽर्कशोका मन्त्रास्तैः अविप्लुतब्रह्मचर्यैः । यथोक्तमधीता मन्त्रा अर्कवद्दीप्ताः स्युरिति भावः । हि यस्मात् नोऽस्माकं महि महत् स्तोत्रं त्वं श्रोषि शृणोषि । विकरणव्यत्ययः । किंच नृतमाः मनुष्यश्रेष्ठाः देवता देवतां त्वा त्वां राधसा हवीरूपेणान्नेन पृणन्ति पूरयन्ति । देवताशब्दात्सुपो लुक् । कीदृशं त्वाम् । शवसा बलेन इन्द्रं न इन्द्रमिव वायुमिव च स्थितम् । न इवार्थे उभयोः संबध्यते ॥ १३ ॥

चतुर्दशी।
त्वे अ॑ग्ने स्वाहुत प्रि॒यास॑: सन्तु सू॒रय॑: ।
य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॑म् ।। १४ ।।
उ० त्वे अग्ने आदित्यग्रहस्य धृत्यौ । त्वे तव हे अग्ने, स्वाहुत साधुना प्रकारेणाभिहुत । प्रियासः प्रियाः सन्तु सूरयः पण्डिताः । ये च यन्तारः निगूहितसर्वविषयाः । ये च मघवानः धनवन्तः । जनानां मध्ये । न केवलं धनवन्त एव किंतर्हि । ऊर्वान् अन्नप्रकारान् दयन्त । दयतिर्दानार्थः । ददति । गोनाम् गवामिति प्राप्ते 'गोः पादान्ते' इति नुट् । गवां संबन्धिभिरुपसेचनैः सहितान् ॥ १४ ॥
म०. द्वे बृहत्यौ आदित्यग्रहपुरोरुचौ । आद्या वसिष्ठदृष्टा अन्त्या प्रस्कण्वदृष्टा कदाचन स्तरीरसि कदाचन प्रयुच्छसीत्यनयोः ( ८ । २ । ३ ) स्थाने । सुष्ठु हूयते स्वाहुतः हे स्वाहुत हे अग्ने, जनानां मध्ये जनाः गोनां गवां संबन्धिभिर्दुग्धदधिकृतैः सह ऊर्वान् अन्नविशेषान् पुरोडाशादीन् दयन्त ददति 'दय दानगतिहिंसादानेषु' लङ् अडभाव आर्षः । ते सूरयः पण्डिताः त्वे तव प्रियासः सन्तु । कीदृशास्ते । यन्तारः निगृहीतेन्द्रियाः। मघवानः धनवन्तः । गोनामित्यत्र 'गोः पादान्ते' | (पा. ७ । १।५७ ) इति नुडागमः ॥ १४ ॥

पञ्चदशी ।
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ।। १५ ।।
उ० श्रुधि श्रुत्कर्ण । हे अग्ने, श्रुधि शृणु । श्रुशृणु' इत्यादिना धिभावः । सत्वरं यज्ञमाग्नेयम् । हे श्रुत्कर्ण, शृणुतः । कर्णावर्थिनां वचांसि यस्य स तथोक्तः । त्वयि श्रुतवति वह्निभिः वौढृभिर्देवैः । सयावभिः । 'या प्रापणे' वनिप् । समानमाप्तिभिः सहिताः । आसीदन्तु बर्हिषि । मित्रः अर्यमा च । अन्ये च । प्रातर्यावाणः प्रातरेव हविःप्राप्तिर्येषां ते तथोक्ताः ॥ १५॥
म० शृणुतः इति श्रुतौ अर्थिवचःश्रोतारौ कर्णौ यस्य स श्रुत्कर्णः हे श्रुत्कर्ण, देवैः सह त्वमध्वरं यज्ञं श्रुधि शृणु । कीदृशैर्देवैः । वह्निभिः हवींषि वहन्ति ते वह्नयः तैः । सयावभिः सह यान्ति ते सयावानः तैः । किंच मित्रः अर्यमा प्रातर्यावाणश्च देवाः बर्हिषि आसीदन्तु उपविशन्तु प्रातर्यान्ति हविः प्राप्नुवन्ति प्रातःसवने येषां हविःप्राप्तिस्ते ॥ १५॥

षोडशी।
विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृडी॒को भ॑वतु जा॒तवे॑दाः ।। १६ ।।
उ० विश्वेषामदितिः । आदित्यग्रहे दधिश्रयणमन्त्रः । अयमपि पुरोरुचां मध्ये गण्यते । तथाहि । कदाचन स्तरीरसि । कदाचन प्रयुच्छसि । यज्ञो देवानामिति तिसृणामादित्येभ्यस्त्वेत्यनुषङ्गः । त्रिष्टुप् । योऽग्निः विश्वेषाम् अदितिः अदीनः । यज्ञियानां यज्ञसंपादकानाम् । विश्वेषां च अतिथिः मानुषाणाम् अग्निहोत्रिणाम् । सोऽग्निः देवानाम् अवः अन्नं हविर्लक्षणम् आवृणानः समर्पयन् । सुमृडीको भवतु । जातवेदाः जातप्रज्ञानः ॥ १६ ॥
म० त्रिष्टुब्गोतमदृष्टादित्यग्रहदधिश्रयणे विनियुक्ता यज्ञो देवानामित्यस्याः ( ८।४) स्थाने । अग्निः ईदृशो भवतु । कीदृशः । विश्वेषां सर्वेषां देवानां मध्ये अदितिः नास्ति दितिः खण्डनं यस्य अदीनः । कीदृशानां देवानाम् । यज्ञियानां यज्ञार्हाणाम् । तथा विश्वेषां सर्वेषां मानुषाणां नराणामतिथिः पूज्यः देवानामवो हविर्लक्षणमन्नमावृणानः समर्पयन् । सुमृडीकः शोभनं मृडीकं सुखं यस्मात् सुखकारी । जातवेदाः जातप्रज्ञानः ॥ १६ ॥