पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानस्य वृजिनानि । जंघनत् अत्यर्थं हन्ति । किंभूतः द्रविणस्युः धनं हविर्लक्षणमिच्छन् । केन हेतुना जंघनत् । विपन्यया । विपनिरर्चतिकर्मा । यजमानपूजया निमित्तभूतया । पुनः किंभूतोऽग्निः । समिद्धः दीप्तः शुक्रः शुक्लः आहुतः अभिहुतः सन् ॥ ९॥
म० गायत्री भरद्वाजदृष्टा ऐन्द्राग्नग्रहपुरोरुक् इन्द्राग्नी आगतमित्यस्याः (७ । ३१) स्थाने । अग्निर्वृत्राणि पापानि जङ्घनत् अत्यर्थं हन्ति । यड्लुगन्तम् । कया । विपन्यया पनतिरर्चतिकर्मा । विविधया पूजया पापं हन्ति । कीदृशोऽग्निः । द्रविणस्युः द्रविणो धनमिच्छति द्रविणस्यति 'सुप आत्मनः क्यच्' 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । हविर्लक्षणं धनमिच्छन् । समिद्धः दीप्तः । शुक्रः शुद्धः । आहुतः निमन्त्रितः ॥ ९ ॥

दशमी।
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इन्द्रे॑ण वा॒युना॑ । पिबा॑ मि॒त्रस्य॒ धाम॑भिः ।। १० ।।
उ० वैश्वदेवस्य । विश्वेभिः सोम्यम् गायत्री । विश्वेभिः देवैः सह । सोमसंबन्धि मधु हे अग्ने, इन्द्रेण च सह वायुना च सह पिब । मित्रस्य धामभिर्नामभिः स्तुतः सन् । तदुक्तम् 'त्वमग्ने वरुणो जायसे यस्त्वं मित्रो भवसि दस्म ईड्यः' इति ॥ १० ॥
म० गायत्री मेधातिथिदृष्टा वैश्वदेवग्रहपुरोरुक् ओमासश्चर्षणी ( ७ । ३३) इत्यस्याः स्थाने । हे अग्ने, विश्वेभिः विश्वैर्देवैः इन्द्रेण वायुना च सह सोम्यं सोममयं मधु पिब । कीदृशस्त्वम् । मित्रस्य धामभिः नामभिः स्तुत इति शेषः । 'त्वमग्ने वरुणो जायसे यस्त्वं मित्रो भवति दस्म ईड्यः' इति श्रुतेः ॥ १० ॥

एकादशी।
आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् शुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नᳪ स्वा॒ध्यं॒ जनयत् सू॒दय॑च्च ।। ११ ।।
उ० आ यत् । द्वाभ्यां मरुत्वतीयाभ्याम् द्वे त्रिष्टुभौ । व्यवहितपदप्रायः आहुतिपरिणामवादिन्यौ । आ उपसर्गः आनट् इत्यनेनाख्यातेन संबध्यते । यत् यदा इषे अन्नाय निषिक्तं नितरां सिक्तं देवतोद्देशेन क्षिप्तम् शुचि मन्त्रैः संस्कृतम् तेजः जगदुत्पत्तिबीजम् । नृपतिम् अग्निम् आ आनट् अश्नोतेरेतद्रूपम् । व्याप्नोति । ततोऽपि रेतो मध्यस्थानं व्याप्नोति विद्युल्लक्षणं तेजः । द्यौरभीके द्यौरपि तस्याहुतिपरिणामभूतस्य रसस्य अभीके निकट एवं वर्तते । तत् अग्निः शर्धम् शर्धं बलं तस्य हेतुभूतम् । अनवद्यं प्रशस्यम् युवानम् परिपक्वं रसम् स्वाध्यं सुष्ठु ध्यानीयम् । सर्वोऽपि वृष्टिमभिलषति । जनयत् जनयति अष्टभिर्मासैः । सूदयच्च । 'षूद क्षरणे' । निष्पन्नमुदकं चतुर्भिर्मासैः क्षरति च वृष्टिद्वारेण ॥ ११ ॥
म०. त्रिष्टुप् पराशरदृष्टा मरुत्वतीयग्रहपुरोरुक् इन्द्र मरुत्व (७ । ३५) इत्यस्याः स्थाने । आ उपसर्गः आनडित्यनेन संबध्यते यत् यदा तेजः तेजसो हेतुभूतं हविर्नृपतिं नुर्यजमानस्य पालकमग्निमानट् अश्नुते व्याप्नोति । यदाग्नौ हविर्हूयत इत्यर्थः । तदा अग्निः रेतो जगद्वीजभूतं जलम् द्यौरभीके । प्रथमा षष्ठ्यर्थे । दिवः समीपेऽन्तरिक्षे जनयत् जनयति । मेघरूपेण च पुरः सूदयत् सूदयति क्षरति वृष्टिद्वारेण 'षूद क्षरणे' । कीदृशं तेजः । इषे वृष्ट्यै निषिक्तं देवतोद्देशेनाग्नौ सिक्तं हुतम् । शुचि मन्त्रसंस्कृतम् । कीदृशं रेतः । शर्धं बलहेतुभूतम् । अनवद्यं निर्दोषम् 'अवद्यपण्यवर्या गर्ह्यपणितव्या निरोधेषु' (पा० ३ । १। १०१) इति गर्ह्यार्थेऽवद्यमिति निपातः । न अवद्यमनवद्यमगर्ह्यं प्रशस्यम् । युवानं युवतुल्यं परिपक्वरसं दृढमित्यर्थः । स्वाध्यं सुष्ठु आ समन्तात् ध्यायते चिन्त्यत इति स्वाध्यं चिन्तनीयम् । सर्वो वृष्टिमिच्छति । | हविषा तर्पितोऽग्निरष्टमासैर्जलं निष्पाद्य वर्षासु वर्षतीत्यर्थः । व्यवहितपदो मन्त्रः ॥ ११॥

द्वादशी।
अग्ने॒ शर्ध॑ मह॒ते सौ॑भगाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सं जा॑स्प॒त्यᳪ सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महा॑ᳪसि ।। १२ ।।
उ० अग्ने शर्ध । हे भगवन्नग्ने, शर्ध उत्सहस्व बलमाविष्कुरु । महते सौभगाय । महत्सौभाग्यं लोकस्थितिः । एवं कुर्वतस्तव द्युम्नानि उत्तमानि सन्तु । द्युम्नं द्योततेर्यशो वान्नं वा । हविर्लक्षणानि धनानि सन्तु यशांसि वा। किंच एतच्च त्वं प्रार्थ्यसे । संजास्पत्यम् । जायापतिमिति प्राप्ते आकारयकारयोर्लोपः सुक् च । सुयमं सुनियमं अन्योन्यबद्धरागम् समाकृणुष्व कुरुष्व । शत्रूयतां शत्रुत्वमिच्छताम् । अभितिष्ठ पद्भ्यामभिभव महांसि महत्त्वानि ॥ १२ ॥
म० त्रिष्टुप् विश्ववारादृष्टा द्वितीयमरुत्वतीयपुरोरुक् मरुत्वन्तं वृषभं ( ७ । ३६ ) इत्यस्याः स्थाने । हे अग्ने, त्वं शर्ध उत्सहस्व बलमाविष्कुरु । किमर्थम् । महते सौभगाय महत्सौभाग्यं लोकस्थितिः । उद्यच्छतस्तव द्युम्नानि उत्तमानि उत्कृष्टानि सन्तु 'द्युम्नं द्योततेर्यशो वान्नं वा' (निरु० ५। ५) इति यास्कः । हविर्लक्षणान्यन्नानि यशांसि वा सन्तु । किंच जास्पत्यं जायापत्यमित्यर्थे जास्पत्यमिति निपातः । जायापत्यं पत्नीयजमानरूपं सुयमं सुनियमं जितेन्द्रियमन्योन्याबद्धरागं समाकृणुष्व कुरु । सुष्ठु यम्यते सुयमम् 'ईषद्दुःसुषु' (पा० ३ । ३ । १२७) इति खल्प्रत्ययः । किंच शत्रूयतां शत्रुत्वमिच्छतां महांसि तेजांसि अभितिष्ठ आक्रमस्व अभि