पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भवति । भूरिशस्तं भवति । पृथुश्च स्वरुः भवति । यज्ञानां वा भूयोभूयः करणमेवाभिप्रेतं स्यात् ॥ २४ ॥
म० त्रिशोकदृष्टा गायत्री ऐन्द्राग्नपुरोरुक् इन्द्राग्नी इत्यस्याः ( ३ । ७१) स्थाने । युवा समर्थः इन्द्रः येषां यजमानानां सखा सहायः एषामिन्द्रः बृहन् इत् महानेव भवति । शस्तं शस्त्रं भूरि बहु । स्वरुः खड्गः पृथुः विशालः । यज्ञबाहुल्यमाशास्यत इत्यर्थः ॥ २४ ॥

पञ्चविंशी।
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒हाँ२ अ॑भि॒ष्टिरोज॑सा ।। २५ ।।
उ० इन्द्रेहि । हे इन्द्र, आ इहि आगच्छ । एत्य च मत्सि तृप्तिं कुरु अन्धसः अध्यानीयस्य सोमलक्षणस्यान्नस्य स्वेनांशेन । ततोऽपि विश्वेभिः सर्वैः सोमपर्वभिः सोमयागकालैर्निमित्तभूतैः । आइहि । यद्वा सर्वसवनगतैः सोमांशुभिः निमित्तभूतैः । कस्मात्पुनस्त्वमेवमस्माभिः प्रार्थ्यसे इत्यत आह । यतो महानसि अभिष्टिश्च अभ्येषणशीलश्च शत्रूणामभियष्टव्यो वा । ओजसा स्वकीयेन बलेन ॥ २५ ॥
म० मधुच्छन्दोदृष्टा गायत्री वैश्वदेवपुरोरुक् ओमास इत्यस्याः (७ । ३३ ) स्थाने । इन्द्र आ इहि 'ओमाङोश्च' (पा० ६ । १ । ९५) इति पररूपम् । हे इन्द्र, आ इहि आगच्छ । आगत्य अन्धसः अन्धसान्नेन हविर्लक्षणेन विश्वेभिः विश्वैः सर्वैः सोमपर्वभिः सोमांशुभिश्च त्वं मत्सि तृप्यस्व । 'मद तृप्तौ' शपो लुक् । कीदृशः त्वम् । ओजसा तेजसा महान् श्रेष्ठः । अभिष्टिः अमीज्यत इत्यभिष्टिः अभियष्टव्यः पृषोदरादिः ॥२५॥

षड्विंशी।
इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीति॒: प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
अह॒न् व्य॒ᳪसमु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ।। २६ ।।
उ० इन्द्रो वृत्रम् त्रिष्टुभौ । य इन्द्रः वृत्रं युद्धाय अवृणोत् शर्धनीतिः । शर्ध इति बलनाम । शर्धे चतुरङ्गबले नीतिर्यस्य स तथोक्तः । प्रमायिनाममिनात् यश्च मायिनां मायाविनां प्र अमिनात् । 'मीङ् हिंसायाम्' हिनस्ति । यश्च वर्पणीतिः । वर्प इति रूपनाम । रूपसन्नद्धः स्वेच्छारूपविजृम्भकः । यश्च अहन् हन्ति व्यंसं निरसं संधिसंबन्धिनं मायिनम् । उशधक् 'वश कान्तौ' अस्य कृतसंप्रसारणस्यैतद्रूपम् । दहतेरुत्तरं कृतभष्भावस्य । अथ कोर्थः शत्रुत्वं कामयमानान् दहति वनेष्वपि वर्तमानान् आविर्धेना अकृणोद्राम्याणाम् । स इन्द्रः आविः प्रकटम् धेना स्तुतीः इत्थं शत्रून्हन्ति इत्थमपरिमितं धनं ददातीति । अवश्यं च रमयितव्यानां यायजूकानाम् ॥ २६ ॥
म० विश्वामित्रदृष्टा त्रिष्टुप् प्रथममरुवतीयपुरोरुक् इन्द्र मरुत्व इत्यस्याः ( ७ । ३५ ) स्थाने । इन्द्रः वृत्रं दैत्यमवृणोत् युद्धाय वृणोति स्म । मायिनां मायिनो दैत्यान् प्रामिणात् हिनस्ति 'मीञ् हिंसायाम्' क्र्यादिः प्वादित्वाद्ध्रस्वः कर्मणि षष्ठी । व्यंसमहन् हन्ति । 'अंस विभागे' चुरादिरदन्तः अंसयति विभजति स्वान्परानिति व्यंसो दुष्टः तम् । क्व । वनेषु वनस्थान् हन्तीत्यर्थः । रमयन्ति देवान् ऋते राम्याः यायजूकाः तेषां धेनाः स्तुतिरूपा वाचः आविः अकृणोत् आविः करोति । यजमानाः स्तुवन्तीति देवेषु प्रकटयतीत्यर्थः । कीदृश इन्द्रः । शर्धनीतिः । शर्ध इति बलनाम । शर्धे चतुरङ्गे बले नीतिर्यस्य सः । वर्पणीतिः । वर्प इति रूपनाम । वर्पं नानारूपं नयति प्राप्नोतीति वर्पणीतिः नानारूपधारी । उशधक् उशन्ति कामयन्ते परस्वं ते उशाश्चौरास्तान् दहति उशधक् ॥ २६ ॥

सप्तविंशी।
कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒: सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ।
म॒हाँ२।। इन्द्रो॒ य ओज॑सा क॒दा च॒न स्त॒रीर॑सि क॒दा च॒न प्र यु॑च्छसि ।। २७ ।।
उ० कुतस्त्वम् । इन्द्रमरुत्संवादे मरुतामेतद्वाक्यम् । हे इन्द्र, त्वम् कुतः कस्माद्धेतोः माहिनः महनीयः सर्वस्य पूज्यः सन् शत्रून् एकः असहायः यासि । हे सत्पते, श्रुतिस्मृत्यनुष्ठानरतानां पालयितः । किंत इत्था किंच ते तव इत्थंभूतम् प्रयोजनमस्ति येनैकाकी यासि । संपृच्छसे समराणः संगच्छमानः शुभानैः शोभनैः वचोभिः संपृच्छसे कतमः पन्था इति । हे हरिवः हरिवन् । तत्करणं नः अस्माकं वोचेः ब्रूयाः । यत्ते अस्मे यत् व्यावृत्तिकारणं ते तव अस्मे अस्मासु वर्तत इति । महाँ २ इन्द्रो य ओजसा । कदाचन स्तरीरसि कदाचन प्रयुच्छसि इति तिस्रः प्रकृताः प्रतीकोक्ताः ॥ २७ ॥
म० अगस्त्यदृष्टा त्रिष्टुप् सशस्त्रमरुत्वतीयपुरोरुक् मरुत्वन्तमित्यस्याः ( ७ । ३६ ) स्थाने । इन्द्रं प्रति मरुद्वाक्यम् । हे इन्द्र, हे सत्पते, श्रुतिस्मृत्युक्ताजाररताः सन्तः तेषां पते पालक, त्वमेकः सन् कुतो यासि असहायः क्व गच्छसि । ते तव किमित्था गमने को हेतुः किं प्रयोजनम् । 'था हेतौ च छन्दसि' (पा० ५। ३ । २६ ) इतीदमः थाप्रत्ययः। 'एतेतौ रथोः' (पा० ५।३।४) इतीदम इदादेशः। कीदृशस्त्वम् । ( माहिनः महितः पूज्यः । निष्ठातस्य नत्वम् धातोर्वृद्धिश्च छान्दसी । यद्वा मह उत्सवोऽस्यास्तीति मही एव माहिनः स्वार्थेऽण् ‘इनण्यनपत्ये' ( पा० ६ । ४ । १६४ ) इति टिलोपाभावः । किंच समराणः सम्यक् गच्छन् सन् शुभानैः