पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न ज्ञानं प्रधानम् । ब्रह्मज्ञानवतो यजमानस्याग्निहोत्रादयोऽपि यज्ञाः सर्वमेधा एवेत्याह परीत्य भूतानीति कण्डिकाभ्याम् ।। एवंज्ञानवान् सर्वमेधयाजी आत्मना जीवरूपेण ऋतस्य यज्ञस्यात्मानं यज्ञाधिष्ठातारं परमात्मानमभिसंविवेश प्रविशति । ब्रह्मैव भवतीत्यर्थः । किं कृत्वा । भूतानि परीत्य सर्वभूतानि ब्रह्मत्वेन विज्ञाय । लोकान्भूरादीन्परीत्य ब्रह्मरूपाञ्ज्ञात्वा । सर्वाः प्रदिशः विदिशः दिशश्च परीत्य तद्रूपा ज्ञात्वा । प्रथमजां प्रथमोत्पन्नां त्रयीरूपां वाचमुपस्थाय संसेव्य । यज्ञादि कृत्वेत्यर्थः । 'अपिहि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यत' इति श्रुतेः प्रथमजा वाक् वेदरूपा ॥ ११ ॥

द्वादशी।
परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान् परि॒ दिश॒: परि॒ स्व॒: ।
ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत् ।। १२ ।।
उ० परि द्यावा । परीत्ययमुपसर्गं इत्वेत्यनेन संबध्यते ।। परीत्य द्यावापृथिव्यौ अनेन दर्शनेन परीत्य च लोकान् परीत्य च दिशः परीत्य च स्वः आदित्यम् । ऋतस्य यज्ञस्य तन्तुं विततं विचृत्य विच्छिद्य परिसमाप्य । सद्य एव तत् तथाभूतमात्मानम् अपश्यत् पश्यति । तदभवत् तथाभूतं ब्रह्म भवति । तदासीत् तदेवास्ति । तदुक्तम् 'तदेव सन्तस्तदु तद्भवामः' । 'यथा ह्येकस्याग्नेः प्रदीपसहस्राणि तुल्यशक्तीनि निर्गच्छन्ति एवं परमात्मन इमे जीवा अप्युच्चरन्ति' । आभ्यां कण्डिकाभ्यां ग्रहस्थानामेव मुक्तिर्दर्शिता भवति । तेषां हि भूयांस उपायाः यज्ञादयः ॥ १२ ॥
म० परीत्युपसर्ग इत्वेत्यनेन संबध्यते । सर्वमेधयाजी तत् ब्रह्म अपश्यत् पश्यति तत् अभवत् भवति तत् आसीत् वस्तुगत्या तदेवास्ति । अज्ञाननिवृत्तिरेव दर्शनं भवनं चेति भावः । किं कृत्वा । द्यावापृथिवी सद्यः परि इत्वा परीत्य तद्रूपेण ज्ञात्वा । लोकान् परीत्य दिशः परीत्य स्वरादित्यं च परीत्य । गुह्यं वस्तु पुनःपुनः कथितं चित्तमारोहतीति पुनरुक्तिः । ऋतस्य यज्ञस्य तन्तुमितिकर्तव्यतां विततं प्रसारितं यथा तथा विचृत्य समाप्य यज्ञं कृत्वेत्यर्थः । 'तदेव सन्तस्तदु तद्भवाम' इति श्रुतेः 'ब्रह्मैव सन्ब्रह्माप्येति' इति श्रुतेश्च ब्रह्मरूपस्य जीवस्याज्ञाननिवृत्तिरेव ब्रह्माप्तिरित्यर्थः ॥ १२ ॥

त्रयोदशी।
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिष॒ᳪ स्वाहा॑ ।। १३ ।।
उ० इतउत्तरम् तिसृभिः कण्डिकाभिर्मेधा याच्यते श्रीश्च चतुर्थ्यां । सदसस्पतिम् सदसस्पतिर्देवता सदो यज्ञगृहं तस्य पतिः तम् । अद्भुतं महान्तं अचिन्त्यशक्तिम् । प्रियमिन्द्रस्य । काम्यं कामसंपत्करम् कमनीयं वा धनमेधार्थिभिः । सनिं धनं मेधाम् अयासिषम् याचे । द्विकर्मा चायं धातुः ॥१३॥
म० इत उत्तरमृक्त्रये मेधा याच्यते । चतुर्थ्या श्रीर्याच्यते। प्रथमा गायत्री लिङ्गोक्तदेवता । अग्निं सनिं द्रव्यदानं मेधां बुद्धिं च अयासिषं याचे । द्विकर्मकः । कीदृशमग्निम् । सदसः यज्ञगृहस्य पतिं पालकम् अद्भुतमचिन्त्यशक्तिम् इन्द्रस्य प्रियं मित्रं काम्यं कामनीयं धनमेधार्थिभिः ॥ १३ ॥

चतर्दशी।
यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते ।
तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ ।। १४ ।।
उ०. याम् मेधाम् । तिस्रोऽनुष्टुभ आग्नेय्यः । यां मेधां देवगणाः पितरश्च उपासते पूजयन्ति । तया माम् अद्य मेधया हे अग्ने, मेधाविनं कुरु स्वाहा सुहुतमस्तु ॥ १४ ॥
म० अनुष्टुप् । हे अग्ने, तया मेधया अद्य मां मेधाविनं बुद्धियुक्तं कुरु । स्वाहा सुहुतमस्तु । 'अस्मायामेधास्रजो विनिः' (पा० ५। २। १२१) इति विनिप्रत्ययः । मेधास्यास्तीति मेधावी तम् । तया कया। देवगणाः देवसमूहाः पितरश्च यां मेधामुपासते पूजयन्ति । देवपितृमान्या बुद्धिरस्माकमस्त्वित्यर्थः ॥ १४ ॥

पञ्चदशी ।
मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः ।
मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ ।। १५ ।।
उ० मेधां मे । लिङ्गोक्तदेवता । मेधाम् मे मह्यं वरुणो ददातु । मेधां चाग्निः प्रजापतिश्च । मेधां इन्द्रश्च वायुश्च । मेधां च धाता ददातु मे मह्यम् स्वाहा सुहुतमस्तु ॥ १५॥
म० लिङ्गोक्तदेवतानुष्टुप् । वरुणो मे मह्यं मेधां ददातु। अग्निः प्रजापतिश्च मे मेधां ददातु । इन्द्रः वायुश्च मे मेधां ददातु । धाता मे मेधां ददातु स्वाहा सुहुतमस्तु ॥ १५ ॥

षोडशी।
इ॒दं मे॒ ब्रह्म॑ च क्ष॒त्रं चो॒भे श्रिय॑मश्नुताम् ।
मयि॑ दे॒वा द॑धतु॒ श्रिय॒मुत्त॑मां॒ तस्यै॑ ते॒ स्वाहा॑ ।। १६ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां द्वात्रिंशोऽध्यायः ॥ ३२ ॥
उ० इदं मे । श्रीः ऋक् । इदं ब्रह्म च क्षत्रं च उभे ब्रह्मक्षत्रे श्रियम् अश्नुताम् मदीयां श्रियमुपजीवताम् । मयि च देवाः दधतु स्थापयन्तु श्रियम् उत्तमाम् । ययाहं सर्वजनभोग्यो भवामि । तस्यै ते स्वाहा । या त्वमेवं सर्वजनैरभिलष्यसे तस्यै श्रियै ते तुभ्यं स्वाहा सुहुतमस्तु । अप्राप्य मेधां श्रियं च न यज्ञाः सिध्यन्तीत्येष संबन्धः ॥ १६ ॥
इति उवटकृतौ मन्त्रभाष्ये द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥