पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रजातं भवति एकनीडं एकनिलयमविभक्तम् । कारणमेवोपसंहृतं सर्वविशेषम् । तस्मिन्निदं सं च विचैति सर्वम् । तस्मिन्नेव परमात्मनि इदं विकारजातं सर्वं समेति च उपसंहृतिकाले । समेत्य च व्येति सृष्टिकाले सर्वमेव । स च परमेश्वरः ओतश्च शरीरभावेन प्रोतश्च जीवभावेन इतरथा वा विभूः विभवति च कार्यकारणभावेन प्रजासु ॥८॥
म०. वेनः पण्डितो विदितवेदान्तरहस्यः तत् ब्रह्म पश्यत् पश्यति । जानातीत्यर्थः । कीदृशं तत् । गुहा गुहायां रहःस्थाने निहितं स्थापितं दुर्ज्ञेयमित्यर्थः । सत् नित्यम् । यत्र ब्रह्मणि विश्वं कार्यजातमेकनीडं भवति । एकमेव नीडमाश्रयो यस्य तत् । अविभक्तमविशेषं कारणमेव भवतीत्यर्थः। तस्मिन्ब्रह्मणि इदं सर्वं भूतजातं समेति च सङ्गच्छते संहारकाले । व्येति च निर्गच्छति सर्गकाले । स परमात्मा प्रजासु ओतः प्रोतश्च ऊर्ध्वतन्तुषु पट इव शरीरभावेन ओतः तिर्यक्तन्तुषु पट इव शरीरिभावेन प्रोतश्च । कीदृशः। विभूः कार्यकारणरूपेण विविधं भवतीति विभूः । सर्वं स एवेत्यर्थः ॥ ८॥

नवमी।
प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् ।
त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒ताऽस॑त् ।। ९ ।।
उ० प्र तत् प्रवोचेत् प्रब्रूयात् तत् अमृतं शाश्वतम् । नु क्षिप्रम् । विद्वान पण्डितः गन्धर्वः । गन्धर्वलोके हि ब्रह्मविद्या सुतरां ज्ञायते । धर्मस्थानम् । विभृतं बिभृतं नानाभूतं सर्गस्थितिप्रलयैः । गुहासत् गुहायामिव निगूढम् अविवृतवेदान्तरहस्यसद्भावानाम् । किंच । त्रीणि पदानि निहितानि गुहा गुहायामिव अस्य अमृतस्य सर्गस्थितिप्रलयाः त्रयो वा वेदाः त्रयो वा कालाः । भूयस्त्वोपलक्षणार्थं वा । भूयांसो हि तत्र गुणाः श्रूयन्ते विज्ञानघनानन्दसत्यसंकल्पादयः । परब्रह्मान्तर्याम्यव्याकृतानि वा त्रयः पादाः । यश्च तानि वेद जानाति स पितुरपि पिता भवति । परं ब्रह्म भवतीत्यर्थः । तद्धि ब्रह्मरूपं श्रेष्ठम् ॥ ९॥
म०. गां वेदवाचं धारयति विचारयतीति गन्धर्वः वेदान्तवेत्ता विद्वान् पण्डितः नु क्षिप्रम् अमृतं शाश्वतम् तत् ब्रह्म प्रवोचेत् प्रब्रूयात् । गुहा गुहायां सत् विद्यमानम् धाम स्वरूपं विभृतं विहृतं सर्गस्थितिप्रलयरूपैर्विभक्तम् । किंच अस्यामृतस्य त्रीणि पदानि स्वरूपाणि गुहा गुहायां निहिता निहितानि । पदानि सर्गस्थितिप्रलयाः वेदाः काला वा ब्रह्मान्तर्यामिविज्ञानात्मानो वा। किंच यः तानि पदानि वेद जानाति स पितुः ब्रह्मणोऽपि पिता परमात्मा असत् भवति । परंब्रह्मैव भवतीत्यर्थः ॥९॥

दशमी।
स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ ।
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धाम॑न्न॒ध्यैर॑यन्त ।। १० ।।
उ० स नो बन्धुः । स नोऽस्माकं बन्धुः । स चास्माकं जनिता । जनयितेति प्राप्ते 'जनिता मन्त्रे' इति णिचोलोपः। स च नो विधाता धारयिता । यः धामानि ब्रह्मणः स्थानानि वेद । भुवनानि भूतजातानि विश्वा सर्वाणि वेद नानात्मनो भिन्नानि वेद । किंच । यत्र देवा अग्न्यादयः अमृतं परब्रह्मलक्षणम् । आनशानाः व्याप्नुवन्तः तृतीये धामन् धामनि स्थाने अधि उपरि स्थिताः ऐरयन्त स्वेच्छया प्रवर्तन्ते तच्च यो वेद स नो बन्धुरित्याद्यनुवर्तते ॥ १०॥
म० स परमात्मा नोऽस्माकं बन्धुः बन्धुवन्मान्यः । जनिता जनयिता । 'जनिता मन्त्रे' (पा० ६ । ४ । ५३ ) इति णिचो लोपः । स च विधाता धारयिता । सः विश्वा सर्वाणि भुवनानि भूतजातानि धामानि स्थानानि च वेद । देवा अग्न्यादयः तृतीये धामन् धामनि स्थाने स्वर्गरूपे अध्यैरयन्त स्वेच्छया वर्तन्ते । कीदृशा देवाः । अमृतं मोक्षप्रापकं ज्ञानं यत्र ब्रह्मणि आनशानाः व्याप्नुवानाः अश्नुवते आनशानाः 'बहुलं छन्दसि' (पा. २ । ४ । ७६) इत्यशेर्ह्वादित्वेन द्वित्वे शानचि अभ्यासस्य नुगागमः । ब्रह्मनिष्ठं ज्ञानं प्राप्ताः सन्तः स्वर्गे देवा मोदन्त इति भावः ॥ १०॥

एकादशी।
प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान् प॒रीत्य॒ सर्वा॑: प्र॒दिशो॒ दिश॑श्च ।
उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भि सं वि॑वेश ।। ११ ।।
उ० इदानीं सर्वेषु भूतेष्वहमस्मि सर्वाणि च भूतानि मयि सन्तीत्येतद्दर्शनावगुण्ठितस्य सर्वमेधयाजिनो मुक्तिरुच्यते द्वाभ्यां कण्डिकाभ्याम् । नचात्र सर्वमेधो ग्रहः कर्तव्यो दर्शनस्य प्राधान्यात् । एवं हि पश्यतो यजमानस्याग्निहोत्रादयो यज्ञाः सर्वे सर्वमेधा एव । आलम्बनमात्रं हि तत्र यज्ञाः । परीत्य भूतानि अनेन दर्शनेन परिज्ञाय सर्वाणि भूतानि एवमेतदित्यवधार्य। एवं परिज्ञाय च सर्वान् लोकान्। परिज्ञाय च सर्वाः दिशः । परिज्ञाय च सर्वाः प्रदिशः। उपस्थाय च प्रथमजां वाचं त्रयीलक्षणाम् । 'अपिहि तस्मात्पुरुषाद्ब्रह्मैव पूर्वमसृज्यते' तिश्रुतेः प्रथमजा वाक् । ऋतस्य यज्ञस्य आत्मना आत्मानम् । परेण ब्रह्मणा विशिष्टं ब्रह्म अभिसंविशति अपुनरावृत्तये ॥ ११ ॥
म० इदानीं सर्वभूतेष्वहमस्मि सर्वाणि भूतानि मयीति ज्ञानवतः सर्वमेधयाजिनो मुक्तिरुच्यते । किंच सर्वमेधग्रहोऽपि