पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पशून् सर्वाणि भूतजातानि करतलवत्पश्यन्ति । पश्यन्ति किल ज्ञानतेजसा भूतजातानि ॥ ६॥
म०. सर्वं हूयते यस्मिन् स सर्वहुत् तस्मात्पुरुषमेधाख्यात् यज्ञात् पृषदाज्यं दधिमिश्रमाज्यं संभृतं संपादितम् । दध्याज्यादिभोग्यजातं संपादितमित्यर्थः । पुरुषेणेति शेषः । तथा स पुरुषः वायव्यान्वायुदेवताकान् तान्प्रसिद्धान् पशून् चक्रे उत्पादितवान् । 'अन्तरिक्षदेवत्याः खलु वै पशवः' इति श्रुतेः। अन्तरिक्षस्य च वायुदेवत्यत्वात्पशूनां वायुदेवत्वम् । तान्कान् । ये चारण्याः अरण्ये भवाः हरिणादयः । ये च ग्रामभवा गवाश्वादयस्तान्पशून् चक्रे ॥ ६ ॥

सप्तमी।
तस्मा॑द्य॒ज्ञात् स॑र्व॒हुत॒ ऋच॒: सामा॑नि जज्ञिरे ।
छन्दा॑ᳪसि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।। ७ ।।
उ० तस्माद्यज्ञात्। तस्मात् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्मात् यजुः तस्मात् अजायत । तस्मादेव यज्ञात्सर्वहुतः प्रज्वालितात् यथा ऋचः सामानि यजूंषि च देवा उत्पादयन्ति छन्दांसि च। एवमात्मयज्ञे प्रणवेन दीपिते स्वयमेव ज्ञानादधिष्ठितानि भवन्ति । एवं येन परमात्मनि ज्ञायते सर्वे जग्धाः(?)सर्वं वाङ्मयं ज्ञानं भवतीति ॥७॥
म०. सर्वहुतः तस्माद्यज्ञात् ऋचः सामानि च जज्ञिरे उत्पन्नानि । छन्दांसि गायत्र्यादीनि जज्ञिरे तस्माद्यजुरप्यजायत । ऋग्यजुःसामभिश्छन्दोभिश्च विना यज्ञा न सिध्यन्ति ॥ ७ ॥

अष्टमी।
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वय॑: ।। ८ ।।
उ० तस्मात् । तस्मात् अश्वाः अजायन्त ये के च उभयादतः। गावः ह जज्ञिरे तस्मात् तस्मात् जाताः अजावयः। तस्माद्यज्ञात् अश्वाः अजायन्त उत्पन्नाः। तथा ये के चाश्वातिरिक्ता गर्दभादयोऽश्वतराश्च उभयादतः उभयोर्भागयोर्दन्ता येषां ते उभयदतः । छान्दसं दीर्घत्वम् । ऊर्ध्वाधोभागयोर्दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा ह स्फुटं तस्माद्यज्ञात् गावः च जज्ञिरे। किंच तस्माद्यज्ञात् अजावयः अजाः अवयश्च जाताः। नहि पशुभिर्विना यज्ञः सिध्येत् ॥८॥
म० तस्माद्यज्ञात् अश्वाः अजायन्त उत्पन्नाः । तथा ये के चाश्वातिरिका गर्दभादयोऽश्वतराश्च उभयादतः उभयोर्भागयोर्दन्ता येषां ते उभयदतः । छान्दसं दीर्घत्वम् । ऊर्ध्वाधोभागयोर्दन्तयुक्ताः सन्ति तेऽप्यजायन्त । तथा ह स्फुटं तस्मात् यज्ञात् गावः च जज्ञिरे । किंच तस्माद्यज्ञात् अजावयः अजाः अवयश्च जाताः । न हि पशुभिर्विना यज्ञः सिध्येत् ॥८॥

नवमी।
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न् पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ।। ९ ।।
उ० तं यज्ञम् । तम् यज्ञम् बर्हिषि प्रौक्षन् पुरुषम् जातम् अग्रतः। ते देवाः अयजन्त साध्याः ऋषयः च ये। यथेन्द्रेण तत्र यज्ञे अग्निष्टोमाख्ये बर्हिषा प्रोक्षितः पुरुषो जातः । तद्वदात्मयज्ञे बर्हिषा प्राणायामेन दीपितेन तस्मिन्पुरुषो जातः । ज्ञानमुत्पद्यते दिव्यम् । अग्रतः प्रथमतः । तेन देवा इन्द्रादयः साध्याश्च ऋषयश्च यथा अयजन्त । तथा देवा योगिनः कपिलादयश्च साध्याश्चापरे ऋषयः । ऋषयश्चाप्येतेनैव प्रणवाधिष्ठितेन पुरुषेणात्मयज्ञं कृतवन्त इति॥९॥
म० यज्ञसाधने यज्ञशब्दः । यज्ञं यज्ञसाधनभूतं तं पुरुषं पशुत्वमाभाव्य यूपे बद्धं बर्हिषि मानसे यज्ञे प्रौक्षन्प्रोक्षितवन्तः प्रोक्षणादिभिः संस्कारैः संस्कृतवन्तः । कीदृशम् । अग्रतः सृष्टेः पूर्वं जातं पुरुषत्वेनोत्पन्नम् । एतच्च प्रागेवोक्तम् तस्माद्विराडजायत विराजो अधि पूरुष इति । तेन पुरुषरूपेण पशुना देवा अयजन्त मानसयागं निष्पादितवन्तः । के ते देवा इत्यत्राह । ये साध्याः सृष्टिसाधनयोग्याः प्रजापतिप्रभृतयः । ये च तदनुकूला ऋषयः मन्त्रद्रष्टारः ते सर्वेऽप्ययजन्त ॥९॥

दशमी।
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्यासी॒त् किं बा॒हू किमू॒रू पादा॑ उच्येते ।। १० ।।
उ० यत्पुरुषम् । यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखम् किम् अस्य आसीत् किं बाहू किम् उरू पादौ उच्येते । यत्पुरुषम् देवा इन्द्रादयः तस्मिन् यज्ञे व्यदधुः कृतवन्तो यथा । तद्वत् योगिनः आत्मयज्ञे पुरुषं ज्ञानम् यत् ज्ञानान्तं तत्कृतवन्तः कतिप्रकारं विकल्पितवन्तः । तस्यैवंविधस्य किं मुखम् कौ बाहू कौ ऊरू पादौ उच्येते उच्यन्तामित्यर्थः । ब्राह्मणक्षत्रियवैश्यशूद्राः स्थिता इत्यर्थः ॥ १०॥
म० प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुं ब्रह्मवादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवा यत् यदा पुरुषं व्यदधुः कालेनोदपादयन् तदा कतिधा कतिमिः प्रकारैर्व्यकल्पयन् विविधं कल्पितवन्तः । अस्य पुरुषस्य मुखं किमासीत् किं बाहू ऊरू चास्ताम् । किंच पादौ उच्येते पादावपि किमास्तामित्यर्थः ॥ १०॥

एकादशी ।
ब्रा॒ह्म॒णो॒ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्य॒: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याᳪ शू॒द्रो अ॑जायत ।। ११ ।।