पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तम्बपर्यन्तो भूतग्राम उक्तः तस्यान्नेनैव स्थितेः 'इतःप्रदानाद्धि देवा उपजीवन्ति' इति श्रुतेः ॥ २॥

तृतीया।
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।। ३ ।।
उ० एतावानस्य । एतवान् अस्य महिमा अतः ज्यायान् च पूरुषः । पादः अस्य विश्वा भूतानि त्रिपात् अस्य अमृतं दिवि । अस्य पुरुषस्य पूर्वोक्तविशेषणविशेषितस्य एतावान् महिमा एतदेव महत्त्वमस्य । अतः कारणात् ज्यायांश्च पुरुषः महानित्यर्थः । कस्मान्महत्त्वमायातम् । यस्मात्पादः एकोंशः अस्य पुरुषस्य । विश्वा भूतानि विश्वानि चतुर्दशभुवनसमूहे यानि चतुर्धा भूतानि तान्येकोंशः । त्रिपात्पुनः त्रयोंशाः अस्य पुरुषस्य अमृतम् ऋग्यजुःसामलक्षणम् आदित्यलक्षणं वा दिवि द्योतते इति ॥ ३ ॥
म० अतीतानागतवर्तमानकालसंबद्धं जगद्यावदस्ति एतावान्सर्वोऽपि अस्य पुरुषस्य महिमा स्वकीयसामर्थ्य विशेषो विभूतिः नतु वास्तवं स्वरूपम् । वास्तवपुरुषस्तु अतः अस्मात् महिम्ना जगज्जालात् ज्यायांश्च अतिशयेनाधिकः । एतदुभयं स्पष्टीक्रियते । अस्य पुरुषस्य विश्वा सर्वाणि भूतानि कालत्रयवर्तीनि प्राणिजातानि पादश्चतुर्थांशः । अस्य पुरुषस्यावशिष्टं त्रिपात्स्वरूपम् अमृतं विनाशरहितं तत् दिवि द्योतनात्मके स्त्रप्रकाशे स्वरूपेऽवतिष्ठत इति शेषः । यद्यपि 'सत्यं ज्ञानमनन्तं ब्रह्मे'त्याम्नातस्य परब्रह्मण इयत्ताया अभावात् पादचतुष्टयं निरूपयितुमशक्यं तथापि जगदिदं ब्रह्मरूपापेक्षयाल्पमिति विवक्षितत्वात्पादत्वोपन्यासः ॥ ३ ॥

चतुर्थी।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑ष॒: पादो॑ऽस्ये॒हाभ॑व॒त् पुन॑: ।
ततो॒ विष्व॒ङ् व्य॒क्रामत्साशनानश॒ने अ॒भि ।। ४ ।।
उ० त्रिपादूर्ध्वः । त्रिपात् ऊर्ध्वः उत् ऐत् पुरुषः पादः अस्य इह अभवत् पुनः । ततः विष्वङ् वि. अक्रामत् साशनानशने अभि । यस्मादयं पुरुषः त्रिपात् त्र्यंशभूतः ऊर्ध्वः उपरिष्टात् उदैत् देदीप्यमानस्तिष्ठति । अस्य च पुरुषस्य पादः एकोंशः इह त्रैलोक्ये बीजभूतं चतुर्षु भूतेषु अभूत् भूतम् । ततः तस्मात्कारणात् विष्वङ् भुवनकोशं व्यक्रामत् उत्पन्नमित्यर्थः । तस्मादेव पुरुषात् । साशनानशने अभि साशनं स्वर्गम् अनशनं मोक्षम् सर्वं जगत्स्वर्गं प्रति मोक्षं प्रति च तस्मादेवोत्पन्नमित्यर्थः ॥ ४ ॥
म० योऽयं त्रिपात्पुरुषः संसारस्पर्शरहितब्रह्मरूपः अयमूर्ध्वः उदैत् अस्मादज्ञानकार्यात् संसाराद्बहिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्टः उत्कर्षेण स्थितवान् । तस्यास्य पादो लेशो जगद्रूपः इह मायायां पुनः अभवत् सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम् 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' ( भग० १० । ४२) इति । ततो मायायामागत्यानन्तरं विष्वङ् विषु सर्वत्राञ्चतीति विष्वङ् देवतिर्यगादिरूपेण विविधः सन् व्यक्रामत् व्याप्तवान् । किंकृत्वा साशनानशने अभि अभिलक्ष्य अशनेन सह वर्तमानं साशनम् अशनादिव्यवहारोपेतं चेतनप्राणिजातम् अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् ते अभिलक्ष्य स्वयमेव विविधो भूत्वा व्याप्तवानित्यर्थः ॥ ४॥

पञ्चमी।
ततो॑ वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।। ५ ।।
उ० ततो विराट् । ततः विराट् अजायत विराजः अधिपूरुषः । सः जातः अति अरिच्यत पश्चात् भूमिम् अथो पुरः । तस्मादेव पुरुषात् विश्वोत्पत्तिः । तत्र पूर्वं विराट् अजायत । विराजः अधिपूरुषः प्रधानं तेजः । स क्षेत्रज्ञः ब्रह्मा सृष्टिकृत् जातः सन् अतिरिच्यते । सोऽभितः पश्चात् अस्मात् क्षेत्रज्ञात् ब्रह्मणः भूमिः पृथिव्यादौ जाता उत्पन्ना इति । अथोऽनन्तरम् पुरः शरीराणि पुराणि चतुर्विधानि भूतानि अजायन्त । पुत्रादीनि तेनैवोत्पादितानि एवमेकोंशः तेनैव सर्वं विश्वमुत्पादितमिति ॥ ५॥
म० विष्वङ् व्यक्रामदिति यदुक्तं तदेव प्रपश्यते । ततः तस्मादादिपुरुषात् विराट् ब्रह्माण्डदेहोऽजायत जातः । विविधं राजन्ते वस्तून्यत्रेति विराट् । विराजः अधि विराड्देहस्योपरि तमेव देहमधिकरणं कृत्वा पुरुषः तद्देहाभिमानी एक एव पुमानजायत । सर्ववेदान्तवेद्यः परमात्मा स्वमायया विराड्देहं ब्रह्माण्डरूपं सृष्ट्वा तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोऽभवदित्यर्थः । एतच्चाथर्वणोत्तरतापनीये स्पष्टमुक्तम् ‘स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वात्र प्रविष्ट इव विहरति' (नृसिंहता. २।९) इति । किंच स जातो विराट्पुरुषोऽत्यरिच्यत अतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभूत् पश्चाद्देवादिजीवभावादूर्ध्वं भूमिं ससर्जेति शेषः । अथो भूमिसृष्टेरनन्तरं तेषां जीवानां पुरः ससर्ज । पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥ ५ ॥

षष्ठी।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒: सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूँस्ताँश्च॑क्रे वाय॒व्या॒नार॒ण्या ग्रा॒म्याश्च॒ ये ।। ६ ।।
उ० तस्माद्यज्ञात् । तस्मात् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम्। पशून् तान् चक्रे वायव्यान् आरण्याः ग्राम्याः च ये। यथा अग्निष्टोमाख्यात्तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् तेन वायव्यान् पशून् आरण्या ग्राम्याश्च ये तान् कृतवन्तः। । एवमात्मयज्ञात् सर्वहुतात्पूरितात् उत्पन्नेन योगिनः सर्वान्