पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तूयते । इदानीं स्तुत्यर्थं निर्वचनद्वारेण द्रढयितुमाह । 'अथ यस्मात्पुरुषमेधो नानेमे वै लोकाः पूरयमेव पुरुषो योयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः। तस्य यदेषु लोकेष्वन्नं तदस्यान्नं मेधस्तदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधः' । पुरुषसूक्तस्य नारायणऋषिः पुरुषो देवतानुष्टुप्छन्दः अन्त्या त्रिष्टुप् मोक्षे विनियोगः । अस्य भाष्यं शौनको नाम ऋषिरकरोत् । प्रथमं विच्छेदः क्रियाकारकसंबन्धः समासः प्रमेयार्थव्याख्येति सर्वमेतज्जनकाय मोक्षार्थं कथयामासेति । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सः भूमिम् सर्वतः स्पृत्वा अति अतिष्ठत् दशाङ्गुलम् । सः पुरुषः नारायणाख्यः सर्वतः भुवनकोशस्य भूमिं स्पृत्वा व्याप्य दशाङ्गुलम् अत्यतिष्ठत् । दश च तानि अङ्गुलानि दशाङ्गुलानीन्द्रियाणि । केचिदन्यथा रोचयन्ति दशाङ्गुलप्रमाणं हृदयस्थानम् । अपरे तु नासिकाग्रं दशाङ्गुलमिति । किंभूतोऽसौ सहस्रशीर्षा । अनेकपर्यायः सहस्रशब्दः । अनेकानि शिरांसि यस्य स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्राण्यक्षीणि नेत्राणि यस्यासौ सहस्राक्षः । सहस्रपात् पादानामङ्गानां सहस्राणि यस्य स सहस्रपात् । एतद्गुणः पुरुषः तद्व्याप्य अतिक्रम्य स्थित इति ॥ १ ॥
रमाकान्तं गिरं नत्वा हेरम्बं शिवमम्बिकाम् ।
एकत्रिंशेऽधुनाध्याये वेददीपो वितन्यते ॥
म० 'नियुक्तान्ब्रह्माभिष्टौति होतृवदनुवाकेन सहस्रशीर्षेति' (कात्या० २१ । १ । ११)। अस्यार्थः । नियुक्तान्ब्राह्मणमित्यादिपशून् सहस्रशीर्षेत्यनुवाकेन षोडशर्चेन ब्रह्मा स्तौति होतृवदिति त्रिः प्रथमां त्रिरुत्तमामित्याद्युक्तप्रकारेणेत्यर्थः । 'त्रैधातव्यन्ते समारोह्यात्मन्नग्नी सूर्यमुपस्थायाद्भ्यः संभृत इत्यनुवाकेनानपेक्षमाणोऽरण्यं गवा न प्रत्यवेयाद् ग्रामे वाविवत्सन्नरण्योः ' (का० २१।१।१७-१८)। त्रैधातवी उदवसानीयेष्टिः तदन्ते अयं ते योनिरित्यमी आत्मनि समारोह्य तदुष्माणमास्ये प्रवेश्याद्भ्यः संभृत इति षडृचेनानुवाकेन सूर्यमुपस्थाय पश्चादपश्यन्वनं गत्वा ग्रामं नागच्छेत् । वानप्रस्थो भवेदित्यर्थः । यद्वा ग्रामे वस्तुमिच्छन् अरण्योरग्नी समारोप्यार्कोपस्थानानन्तरं ग्रामे गत्वा यज्ञान्कुर्यादिति सूत्रार्थः। अथ मन्त्रार्थः । नारायणपुरुषदृष्टा जगद्बीजपुरुषदेवत्याः षोडश ऋचः पञ्चदशानुष्टुभः षोडशी त्रिष्टुप् । ब्रह्मणे ब्राह्मणमित्याद्याः पुरुषमेधरूपस्य परमात्मनोऽवयवाः पूर्वाध्यायान्ते प्रोक्तास्तेषामवयवी पुरुषोऽत्र स्तूयते । अव्यक्तमहदादिविलक्षणश्चेतनो यः पुरुषः 'पुरुषान्न परं किंचि'दित्यादिश्रुतिषु प्रसिद्धः सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराजाख्योऽस्ति । कीदृशः। सहस्रशीर्षा सहस्रशब्दो बहुत्ववाची । संख्यावाचकत्वे सहस्राक्ष इति विरोधः स्यात् नेत्रसहस्रद्वयेन च भाव्यम् । ततः सहस्रमसंख्यानि शीर्षाणि शिरांसि यस्य सः 'शीर्षश्छन्दसि' (पा. ६।१।६०) इति शिरःशब्दस्य शीर्षन्नादेशः । शिरोग्रहणं सर्वावयवोपलक्षणम् । यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तस्यैवेति सहस्रशीर्षत्वम् । एवमग्रेऽपि । सहस्राक्षः सहस्रमक्षीणि यस्य सः । अक्षिग्रहणं सर्वज्ञानेन्द्रियोपलक्षकम् । सहस्रपात् सहस्रं पादा यस्य 'संख्यासुपूर्वस्य' (पा० ५। ४ । १४०) इति पादस्यान्त्यलोपः । पादग्रहणं कर्मेन्द्रियोपलक्षणम् । सः पुरुषो भूमिं ब्रह्माण्डलोकरूपां सर्वतः तिर्यक् ऊर्ध्वमधश्च स्पृत्वा व्याप्य । स्पृणोतिर्व्याप्तिकर्मा । यद्वा भूमिशब्दो भूतोपलक्षकः । पञ्च भूतानि व्याप्य दशाङ्गुलपरिमितं देशमध्यतिष्ठत् अतिक्रम्यावस्थितः । दशाङ्गुलमित्युपलक्षणम् । ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः । यद्वा नाभेः सकाशाद्दशाङ्गुलमतिक्रम्य हृदि स्थितः । नाभित इति कुतो लभ्यते 'कतम आत्मे' त्युपक्रम्य 'सोऽयं विज्ञानमयः - प्राणेषु हृद्यन्तर्ज्योति'रिति श्रुतेः विज्ञानात्मनो हृद्यवस्थानं कर्मफलोपभोगाय अन्तर्यामिणो नियन्तृत्वेन । तदुक्तम् 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' ( मुण्ड० ३ । १।१) इति । स पुरुषोऽत्र देवता । तथाच श्रुतिः 'इमे वे लोकाः पूरयमेव पूरुषो योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषः' (१३ । ६ । २।१) इति ॥१॥

द्वितीया। |
पुरु॑ष ए॒वेदᳪ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॒म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।। २ ।।
उ० पुरुष एव । पुरुषः एव इदम् सर्वम् यत् भूतम् यत् च भाव्यम् । उत अमृतत्वस्य ईशानः यत् अन्नेन अतिरोहति । स एव पुरुषः पूर्वपर्यायविशेषित एवशब्दो नान्यः । इदं वर्तमानकं सर्वम् यच्च भूतमतीतम् यच्च भाव्यं भविष्यत् तस्य कालत्रयस्य ईशानः । न केवलं कालत्रयस्य ईशानः । उत अमृतत्वस्यापि मोक्षस्यापि । उतशब्दोऽपिशब्दार्थे । कस्मात्कारणात् । यत् अन्नेन अमृतेन अतिरोहति अतिरोधं करोति । सर्वस्येश्वर इति ॥ २॥
म० यत् इदं वर्तमानं जगत् तत्सर्वं पुरुष एव । यत् भूतमतीतं जगत् यच्च भाव्यं भविष्यं जगत् तदपि पुरुष एव । यथास्मिन् कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः तथैवातीतागामिनोरपि कल्पयोर्द्रष्टव्यमिति भावः । उतापि च अमृतत्वस्य देवस्य ईशानः स्वामी स पुरुषः यत् यस्मात् अन्नेन प्राणिनां भोग्येनान्नेन फलेन निमित्तभूतेनातिरोहति स्वीयां कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति तस्मात्पुरुष एव । प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुत्वमित्यर्थः । यद्वा सर्वं पुरुषश्चेत्तर्हि परिणामीत्याशङ्क्याह । अमृतत्वस्यामरणधर्मस्येशानः मुक्तेरीशः । यो हि मोक्षेश्वरो नासौ म्रियत इत्यर्थः । किंच यत् जीवजातमन्नेनातिरोहति उत्पद्यते तस्य सर्वस्य चेशानः ब्रह्मादि