पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अभिक्रोशकं निन्दकम् ११ तान् त्रीन्महसे जुष्टं नियुनज्मीति एकादशे यूपे आलभते । एवं प्रतियूपमेकादशस्वेकादशसु नियुक्तेषु येऽधिका अवशिष्टास्तान् समाप्तिपर्यन्तान् द्वितीयोच्छ्रिते यूपे नियुनक्ति । तांश्च वीणावादं पाणिघ्नमित्यादीन् रात्र्यै कृष्णं पिङ्गाक्षमित्यन्ताश्चतुर्दश । ततोऽथैतानष्टौ विरूपानित्यष्टौ च मागधादींश्चतुरः एवं षड्विंशतिं द्वितीये। यूपे पूर्वोक्ता एकादश एवं सप्तत्रिंशत् । तानेवाह । वीणावादम् पाणिघ्नं हस्ततालवादकम् तूणवध्मम् तान् त्रीन् नृत्ताय आलभते ३ आनन्दाय तलवम् 'वा गतिगन्धनयोः' गन्धनं हिंसा तलं हस्तादितलं वाति वाद्यमुखं हन्ति स तलवस्तम् वाद्यवादकम् ४ ॥२०॥

एकविंशी ।
अ॒ग्नये॒ पीवा॑नं पृथि॒व्यै पी॑ठस॒र्पिणं॑ वा॒यवे॑ चाण्डा॒लम॒न्तरि॑क्षाय वᳪशन॒र्तिनं॑ दि॒वे ख॑ल॒तिᳪ सूर्या॑य हर्य॒क्षं नक्ष॑त्रेभ्यः किर्मि॒रं च॒न्द्रम॑से कि॒लास॒मह्ने॑ शु॒क्लं पि॑ङ्गा॒क्षᳪ रात्र्यै॑ कृ॒ष्णं पि॑ङ्गा॒क्षम् ।। २१ ।।
म० अग्नये पीवानं स्थूलम् ५ पृथिव्यै पीठसर्पिणं पीठेनासनेन सर्पति गच्छति पीठसर्पी तं पङ्गुम् ६ वायवे चाण्डालं चण्डालकर्माणम् ७ अन्तरिक्षाय वंशनर्तिनम् वंशेन नर्तनशीलम् ८ दिवे खलतिमलोमशिरस्कं खल्वाटमित्यर्थः ९ सूर्याय हर्यक्षं हरितनेत्रम् १० नक्षत्रेभ्यः किर्मिरं कर्बुरवर्णम् ११ चन्द्रमसे किलासं सिध्मरोगवन्तम् १२ अह्ने शक्लवर्णं पिङ्गाक्षम् १३ रात्र्यै कृष्णवर्णं पिङ्गाक्षम् १४ ॥ २१॥

द्वाविंशी।
अथै॒तान॒ष्टौ विरू॑पा॒नाल॑भ॒तेऽति॑दीर्घं॒ चाति॑ह्रस्वं॒ चाति॑स्थूलं॒ चाति॑कृशं॒ चाति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑कुल्वं॒ चाति॑लोमशं च ।
अशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।
मा॒ग॒धः पुँ॑श्च॒ली कि॑त॒वः क्ली॒बोऽशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।। २२ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां त्रिंशोऽध्यायः ॥ ३०॥
म०. तत एतान् वक्ष्यमाणानष्टौ विरूपान् परस्परं विरुद्धरूपान् पशूनालभते । तानाह । अतिदीर्घम् अतिह्रस्वम् अतिस्थूलम् अतिकृशम् अतिशुक्लम् अतिकृष्णम् अतिकुल्वं रोमरहितम् अतिलोमशं सर्वाङ्गयापिरोमाणम् । ते अष्टौ अशूद्राः अब्राह्मणाः शूद्रब्राह्मणव्यतिरिक्ताः पशवो भवन्ति । तेऽष्टावपि प्राजापत्याः प्रजापतिदेवताः 'अष्टावुत्तमानालभत' इत्युपक्रम्य 'ते वै प्राजापत्या भवन्ति' (१३ । ६।२ । ७-८) इति श्रुतेः । अत्र जातिनियमात्पूर्वेषु जातेरनियमः । वीणावादादयश्चतुर्दश अतिदीर्घादयोऽष्टौ एवं द्वाविंशतिः शेषाः । तथा मागधः पुंश्चली कितवः क्लीबः एते चत्वारोऽपि शूद्रब्राह्मणव्यतिरिक्ताः प्रजापतिदेवताः पूर्वैः सहैते षड्विंशतिः ते सर्वे द्वितीययूपे नियोज्याः । सर्वेषां नियोगानन्तरं तान्नियुक्तान् पुरुषान् 'सहस्रशीर्षा पुरुषः' ( ३१ । १-१६ )इति षोडशर्चेनानुवाकेन दक्षिणत उपविष्टो होतृवदभिष्टौति । होतृवदिति प्रथमोत्तमयोस्त्रिर्वचनम् ऋगन्तानां प्रणवेन संधानं च। यथा सहस्रशीर्षा पुरुषः-०ङ्गुलो३म् पुरुष एवेदऽᳪ -०रोहतो३म् । एवमभिष्टौति । तत आलम्भनक्रमेण यथादेवतं प्रोक्षणादि । ब्राह्मणादीनां पर्यग्निकरणानन्तरमिदं ब्रह्मणे इदं क्षत्रायेत्येवं सर्वेषां यथास्वस्वदेवतोद्देशेन त्यागः । ततः सर्वान् ब्राह्मणादीन् यूपेभ्यो विमुच्योत्सृजति । तत एकादशिनैः पशुभिः संज्ञपनादिप्रधानयागान्तं वनस्पतियागं कृत्वा प्राक् स्विष्टकृतः अध्वर्युराज्यं संस्कृत्य सकृद्गृहीतमाज्यं गृहीत्वा ओम् पुरुषदेवताभ्यो ब्रह्मादिभ्यः आहवनीये जुहोति ओम् ब्रह्मणे स्वाहा १ क्षत्राय स्वाहा २ मरुद्भ्यः ३ तपसे ४ तमसे ५ इत्याद्यध्यायान्तं सर्वदेवताभ्यः चतुरशीत्युत्तरशतसंख्याकाभ्यः तावतीर्घृताहुतीर्हुत्वा स्विष्टकृदादि उदवसानीयान्तं कर्म कृत्वान्ते यजमानः 'अयं ते योनिः' इति मन्त्रेणात्मन्यग्नीन् समारोप्य 'अद्भ्यः संभृत' (३१ । १७) इति षडृचेनानुवाकेन सूर्यमुपस्थाय पश्चादनवलोकयन्नरण्यं गत्वा संन्यसेत् । 'गार्हपत्येऽधरारणिमनुप्रहृत्याहवनीय उत्तरारणिमात्मन्यग्नी समारोप्यारण्यं व्रजेत्' इति शाङ्खायनोक्तेः । यदि पुरुषमेधानन्तरं ग्रामवासेच्छा तर्ह्युदवसानीयान्ते सायमाहुती हुत्वारण्योरग्नी समारोप्योत्तरनारायणेनार्कमुपस्थाय देवयजनमादीप्य गृहं व्रजेत् । गृहे आगत्य निर्मथ्याग्निं स्थापयेत् यथेच्छं यज्ञानपि कुर्यात् । अयमपि पक्षोऽस्ति । तत् पुरुषमेधानन्तरं संन्यास एव ॥ २२॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
त्रिंशेध्याये प्रकथिताः पशवो नरमेधिके ॥ ३० ॥


एकत्रिंशोऽध्यायः ।
तत्र प्रथमा।
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमि॑ᳪ स॒र्वत॑: स्पृ॒त्वाऽत्य॑तिष्ठद्दशाङ्गु॒॒लम् ।। १ ।।
उ० परमात्मविज्ञानानन्दादिगुणाध्यात्मनि प्रभूतः पुरुषमेधो यज्ञः प्रजापतिः लोककालाग्न्यादिवपुः पुरुषोत्पत्तिस्थितिसंहृतीनां हेतुः स्वर्गापवर्गैश्वर्यमोक्षदो ज्ञानकर्मसमुच्चयकारणं शरीरं 'यज्ञो वा अस्यात्मा भवतीति श्रुतिः । सहस्रशीर्षा पुरुष इत्यनुवाकेन षोडशर्चेनानुष्टुभेन त्रिष्टुबन्त्येन ब्रह्मणे ब्राह्मणमित्याद्यवयवभूतपुरुषद्वारेणावयवी